अध्यायः 153
भीष्मेण युधिष्ठिरम् प्रति बलवति रिपौ मोहाद्वैरमुत्पादितवता कर्तव्यविषये निदर्शनतया शाल्मलिचरितकथनोपक्रमः ॥ 1 ॥ हिमवति पर्वते महाशाल्मलिं दृष्टवता नारदेन तद्वर्णनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः । 001a
उपकारापकाराभ्यां समर्थस्योद्यतस्य च ॥ 001c
मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः । 002a
वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह ॥ 002c
आत्मनो बलमास्थाय कथं वर्तेत मानवः । 003a
आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणकाम्यया ॥ 003c
भीष्म उवाच 004
अत्राप्युदाहन्तीममितिहासं पुरातनम् । 004a
संवादं भरतश्रेष्ठ शाल्मलेः पवनस्य च ॥ 004c
हिमवन्तं समासाद्य महानासीद्वनस्पतिः । 005a
वर्षपूगाभिसंवृद्धः शाखामूलपलाशवान् ॥ 005c
तत्र स्म मत्तमातङ्गा घर्मार्ताः श्रमकर्शिताः । 006a
विश्राम्यन्ति महाबाहो तथाऽन्या मृगजातयः ॥ 006c
नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः । 007a
शुकशारिकसङ्घुष्टः पुष्पवान्फलवानपि ॥ 007c
सार्थका वणिजश्चापि तापसाश्च वनौकसः । 008a
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे ॥ 008c
तस्य ता विपुलाः शाखा दृष्ट्वा स्कन्धं च सर्वशः । 009a
अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥ 009c
अहो नु रमणीयस्त्वमहो चासि मनोहरः । 010a
प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मले ॥ 010c
सदैव शकुनास्तात मृगाश्चाथ तथा गजाः । 011a
वसन्ति तव संहृष्टा मनोहरतरास्तथा ॥ 011c
तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा । 012a
न वै प्रभग्नान्पश्यामि मारुतेन कथञ्चन ॥ 012c
किन्नु ते पवनस्तात प्रीतिमानथवा सुहृत् । 013a
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम् ॥ 013c
भगवान्पवनः स्थानाद्वृक्षानुच्चावचानपि । 014a
पर्वतानां च शिखराण्याचालयति वेगवान् ॥ 014c
शोषयत्येव पातालं वहन्गन्धवहः शुचिः । 015a
सरांसि सरितश्चैव सागरांश्च तथैव च ॥ 015c
संरक्षति त्वां पवनः सखित्वेन न संशयः । 016a
तस्मात्त्वं बहुशाखोऽपि पर्णवान्पुष्पवानपि ॥ 016c
इदं च रमणीयं ते प्रतिभाति वनस्पते । 017a
य इमे विहगास्तात रमन्ते मुदितास्त्वयि ॥ 017c
एषां पृथक्समस्तानां श्रूयते मधुरस्वरः । 018a
पुष्पसम्मोदने काले वाशन्ते हरियूथपाः ॥ 018c
तथेमे गर्जिता नागाः स्वयूथगणशोभिताः । 019a
घर्मार्तास्त्वां समासाद्य सुखं विन्दति शाल्मले || 019c
तथैव मृगजातीभिरन्याभिरभिशोभसे । 020a
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम ॥ 020c
ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैस्तथा । 021a
त्रिविष्टपसमं मन्ये तवायतनमेव हि ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥
12-153-7 शुककोकिलसङ्घुष्ट इति ध. पाठः । नल्वः हस्तानां शतचतुष्टयम् । परीणाहः स्थूलत्वं वैपुल्यमितियावत् ॥ 12-153-14 प्रवाति च वनस्थानां वृक्षाणां च वनान्यपि । पर्वतानां च शिखराण्याकालयति वेगवान् । इति ट. ड. पाठः ॥