अध्यायः 152

वैदिशनाम्नि नगरे केषुचिद्ब्राह्मणेषु मृतबालं श्मशानमुपनीय गृध्रजम्बुकवचनैर्डोलायमानमानसतया चिन्तयत्सु तत्र यदृच्छासमागतपरमेश्वरेण पार्वतीचोदनया मृतबालकोज्जीवनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कच्चित्पितामहेनासीच्छ्रुतं वा दृष्टमेव च । 001a
कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितोऽभवत् ॥ 001c
भीष्म उवाच 002
शृणु पार्थ यथावृत्तमितिहासं पुरातनम् । 002a
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे ॥ 002c
कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः । 003a
बाल एव विशालाक्षो बालग्रहनिपीडितः ॥ 003c
दुःखिताः केचिदादाय बालमप्राप्तयौवनम् । 004a
कुलसर्वस्वभूतं वै रुदन्तः शोककर्शिताः ॥ 004c
बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः । 005a
अङ्गेनाङ्गं समाक्रम्य रुरुदुर्भृशदुःखिताः ॥ 005c
शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः । 006a
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः ॥ 006c
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् । 007a
प्रेतात्मकमिमं काले त्यक्त्वा गच्छत माचिरम् ॥ 007c
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह । 008a
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः ॥ 008c
सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् । 009a
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥ 009c
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् । 010a
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥ 010c
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले । 011a
कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे ॥ 011c
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः । 012a
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ 012c
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता । 013a
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति ॥ 013c
दिशान्तोपचितो यावदस्तं गच्छति भास्करः । 014a
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥ 014c
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप । 015a
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥ 015c
विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः । 016a
[मृत इत्येव गच्छन्तो निराशास्तस्य दर्शने ॥] 016c
निश्चितार्थाश्च ते सर्वे सन्त्यजन्तः स्वमात्मजम् । 017a
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः ॥ 017c
ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निःसृत्य जम्बुकः । 018a
गच्छमानान्स्म तानाह निर्घृणाः खलु मानुषाः ॥ 018c
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् । 019a
बहुरूपो मुहूर्ताच्च जीवेदपि च बालकः ॥ 019c
दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः । 020a
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः ॥ 020c
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि । 021a
यस्य भाषितमात्रेण प्रसादमधिगच्छत ॥ 021c
न पश्यध्वं सुतस्नेहो यादृशः पशुपक्षिणाम् । 022a
न तेषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥ 022c
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् । 023a
परलोकगतिस्थानां मुनियज्ञक्रियामिव ॥ 023c
तेषां पुत्राभिरामाणामिह लोके परत्र च । 024a
न गुणो दृश्यते कश्चित्प्रजाः सन्धारयन्ति च ॥ 024c
अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति । 025a
न ते पोषणसम्प्रीता मातापितर एव हि ॥ 025c
मानुषाणां कुतः स्नेहो येषां शोको न विद्यते । 026a
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ ॥ 026c
चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत । 027a
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥ 027c
क्षीणस्याथाभिशस्तस्य श्मशानाभिमुखस्य च । 028a
बान्धवा यत्र तिष्ठति तत्रान्यो नाधितिष्ठति ॥ 028c
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति । 029a
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ॥ 029c
त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम् । 030a
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् || 030c
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः । 031a
न्यवर्तन्त तदा सर्वे बालार्थं ते स्म मानुषाः ॥ 031c
गृध्र उवाच 032
अहो बत नृशंसेन जम्बुकेनाल्पमेधसा । 032a
क्षुद्रेणोक्ता हीनसत्वा मानुषाः किं निवर्तथ ॥ 032c
पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम् । 033a
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥ 033c
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् । 034a
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥ 034c
अनिष्टानि च भाग्यानि जानीत स्वंस्वमात्मना । 035a
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम् ॥ 035c
धनं गावः सुवर्णं च मणिरत्नमथापि च । 036a
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते ॥ 036c
यथा कृता च भूतेषु प्राप्यते सुखदुःखिता । 037a
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥ 037c
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा । 038a
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः ॥ 038c
धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत । 039a
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥ 039c
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत । 040a
त्यज्यतामयमाक्रोशस्ततः शीघ्रं निवर्तत ॥ 040c
यत्करोति शुभं कर्म तथा कर्म सुदारुणम् । 041a
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह ॥ 041c
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् । 042a
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥ 042c
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा । 043a
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥ 043c
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ । 044a
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥ 044c
यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि । 045a
सर्वानाविशते मृत्युरेवम्भूतमिदं जगत् ॥ 045c
जम्बुक उवाच 046
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना । 046a
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥ 046c
समैः सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः । 047a
'सर्वमेतत्प्रपद्याशु कुरुध्वं वा विचारणाम् ।' 047c
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम् ॥ 047e
अहो पुत्रवियोगेन मृतशून्योपसेवनात् । 048a
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव ॥ 048c
अद्य शोकं विजानामि मानुषाणां महीतले । 049a
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन् ॥ 049c
यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति । 050a
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥ 050c
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् । 051a
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम् ॥ 051c
आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् । 052a
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥ 052c
अथवाऽस्तं गते सूर्ये सन्ध्याकाल उपस्थिते । 053a
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ॥ 053c
गृध्र उवाच 054
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः । 054a
न च पश्यामि जीवन्तं मृतं स्त्रीपुन्नपुंसकम् ॥ 054c
मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च । 055a
चङ्क्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे ॥ 055c
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि । 056a
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते ॥ 056c
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा । 057a
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः ॥ 057c
अनिष्टानां सहस्राणि तथेष्टानां शतानि च । 058a
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥ 058c
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः । 059a
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ ॥ 059c
त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छत । 060a
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः ॥ 060c
न चक्षुर्भ्यां न कर्णाभ्यां स शृणोति स पश्यति । 061a
कस्मादेनं समुत्सृज्य न गृहान्गच्छताशु वै ॥ 061c
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः । 062a
मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥ 062c
प्रज्ञाविज्ञानयुक्तेन बुद्धिसञ्ज्ञाप्रदायिना । 063a
वचनं श्राविता नूनं मानुषाः सन्निवर्तथ ॥ 063c
[शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् । 064a
इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः । 064c
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः ॥] 064a
जम्बुक उवाच 065
इमं कनकवर्णाभं भूषणैः समलङ्कृतम् । 065a
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम् ॥ 065c
न स्नेहस्य च विच्छेदो विलापरुदितस्य च । 066a
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥ 066c
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः । 067a
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥ 067c
तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः । 068a
मुनिना धर्मनिष्ठेन मृतः सञ्जीवितः पुनः ॥ 068c
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा । 069a
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥ 069c
इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः । 070a
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् । 070c
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ॥ 070e
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः । 071a
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः ॥ 071c
'तपसाऽपि हि संयुक्तो जनः कालेन हन्यते । 072a
सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम् ॥' 072c
बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः । 073a
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥ 073c
अलं निर्बन्धमागत्य शोकस्य परिवारणम् । 074a
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥ 074c
'नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् ।' 075a
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥ 075c
नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि । 076a
न स जीवयितुं शक्यो बालो वर्षशतैरपि ॥ 076c
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च । 077a
वरमस्मै प्रयच्छन्ति ततो जीवेदयं शिशुः ॥ 077c
नैव बाष्पविमोक्षेण न वा श्वासकृतेन च । 078a
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति ॥ 078c
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः । 079a
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥ 079c
अप्रियं परुषं चापि परद्रोहं परस्त्रियम् । 080a
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ॥ 080c
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम् । 081a
अजिह्नत्वमशाठ्यं च यत्नतः परिमार्गत ॥ 081c
मातरं पितरं वाऽपि बान्धवान्सुहृदस्तथा । 082a
जीवतो ये न पश्यति तेषां धर्मविपर्ययः ॥ 082c
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन । 083a
तस्य निष्ठावसानान्ते रुदन्ताः किं करिष्यथ ॥ 083c
इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः । 084a
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम् ॥ 084c
जम्बुक उवाच 085
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः । 085a
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम् ॥ 085c
बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम् । 086a
इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम् । 086c
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ॥ 086e
अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा । 087a
कथं गच्छथ निःस्नेहाः सुतस्नेहं विसृज्य च ॥ 087c
प्रदीप्ताः पुत्रशोकेन सन्निवर्तथ मानुषाः । 088a
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥ 088c
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । 089a
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम् ॥ 089c
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम् । 090a
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥ 090c
रूपयौवनसम्पन्नं द्योतमानमिव श्रिया । 091a
जीवन्तमेव पश्यामि मनसा नात्र संशयः ॥ 091c
विनाशेनास्य न हि वै सुखं प्राप्स्यथ मानुषाः । 092a
पुत्रशोकाभितप्तानां मृतमप्यद्य वः क्षमम् ॥ 092c
दुःखसम्भावनं कृत्वा धारयित्वा सुखं स्वयम् । 093a
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥ 093c
भीष्म उवाच 094
तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम् । 094a
श्मशानवासिना नित्यं रात्रिं मृगयता नृप ॥ 094c
ततो मध्यस्थतां नीता वचनैरमृतोपमैः । 095a
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः ॥ 095c
गृध्र उवाच 096
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः । 096a
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥ 096c
भीमः सुघोरश्च तथा नीलमेघसमप्रभः । 097a
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥ 097c
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः । 098a
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥ 098c
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम् । 099a
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति ॥ 099c
चिता धूमेन नीलेन संरज्यन्ते च पादपाः । 100a
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः ॥ 100c
सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे । 101a
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः ॥ 101c
क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति । 102a
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः ॥ 102c
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च । 103a
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥ 103c
जम्बुक उवाच 104
स्थीयतां वो न भेतव्यं यावत्तपति भास्करः । 104a
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत ॥ 104c
स्वैरं रुदन्तो विस्रब्धाश्चिरं स्नेहेन पश्यत । 105a
'दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति ॥ 105c
अयं सौम्यो वनोद्देशः पितॄणां निधनाकरः ।' 106a
स्थीयतां यावदादित्यः किंवः क्रव्यादभाषितैः ॥ 106c
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च । 107a
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥ 107c
भीष्म उवाच 108
गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः । 108a
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥ 108c
स्वकार्यबद्धकक्षौ तौ राजन्गृध्रोऽथ जम्बुकः । 109a
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥ 109c
तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः । 110a
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ते व्रजन्ति च ॥ 110c
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा । 111a
स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात् ॥ 111c
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः । 112a
बान्धवानां स्थितानां चाप्युपातिष्ठत शङ्करः ॥ 112c
देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः । 113a
ततस्तानाह मनुजान्वरदोऽस्मीति शङ्करः ॥ 113c
ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः । 114a
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् । 114c
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥ 114e
एवमुक्तः स भगवान्वारिपूर्णेन पाणिना । 115a
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै ॥ 115c
तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम् । 116a
वरं पिनाकी भगवान्सर्वभूतहिते रतः ॥ 116c
ततः प्रणम्य ते देवं श्रेयोहर्षसमन्विताः । 117a
कृतकृत्याः सुसंहृष्टाः प्रातिष्ठन्त तदा विभो ॥ 117c
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च । 118a
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥ 118c
पश्य दैवस्य संयोगं बान्धवानां च निश्चयम् । 119a
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम् ॥ 119c
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च । 120a
प्रसादं शङ्करात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥ 120c
ते विस्मिताः प्रहृष्टाश्च पुत्रसञ्जीवनात्पुनः । 121a
बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै ॥ 121c
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम् । 122a
विविशुः पुत्रमादाय नगरं हृष्टमानसाः ॥ 122c
एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता ॥ 123ac
धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम् । 124a
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते ॥ 124c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥

12-152-2 यो वृत्तो नैमिषे पुरेति झ. पाठः ॥ 12-152-5 अङ्केनाङ्कं समाक्रम्येति ड. थ. पाठः ॥ 12-152-7 एकात्मकमिदं लोके इति थ. ध. पाठः ॥ 12-152-8 किं तैर्वैयातबान्धवा इति थ. ध. पाठः ॥ 12-152-12 न पुनर्जीवते कश्चिदिति ड. थ. द. पाठः ॥ 12-152-13 जीवलोके प्रसूयतेति थ. द. पाठः ॥ 12-152-14 दिशान्तोपरते काले चास्तं गच्छति भास्कर इति ध. पाठः ॥ 12-152-22 न मे सन्धारयित्वा तु इति ध. पाठः ॥ 12-152-47 यद्गच्छति जनश्चायमिति झ. पाठः ॥ 12-152-69 कश्चिल्लभेत्सिद्ध इति झ. पाठः ॥ 12-152-72 तपसा पि हि संयुक्ता धनवन्तो महाधियः । सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनमिति झ. पाठः ॥ 12-152-77 वरमस्मै प्रयच्छेयुस्तत इति झ. पाठः ॥ 12-152-95 बान्धवास्तस्य धारिता इति थ. पाठः ॥ 12-152-104 वः युष्माभिः ॥ 12-152-108 गृध्रोऽस्तमित्याह गतो गतो नेति च जम्बुकः इति झ. पाठः ॥ 12-152-119 बान्धवानां च सत्यतामिति द. पाठः ॥