अध्यायः 151
शौनके जनमेजयस्याश्वमेधयाजनेन तदीयब्रह्महत्यापनोदनपूर्वकं राज्ये प्रतिष्ठापनम् ॥ 1 ॥
शौनक उवाच 001
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे । 001a
श्रीमान्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे ॥ 001c
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् । 002a
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः ॥ 002c
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति । 003a
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि || 003c
दर्पं हित्वा पुनश्चापि भोगांश्च तप आस्थितः । 004a
इत्येतदभिभूतानामद्भुतं जनमेजय ॥ 004c
योऽदुर्बलो भवेद्दाता कृपणो वा तपोधनः । 005a
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते ॥ 005c
तप एव हि कार्पण्यं समग्रमसमीक्षितम् । 006a
तच्चेत्समीक्षयैव स्याद्भवेत्तस्मिंस्तपो गुणः ॥ 006c
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते । 007a
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥ 007c
तदेव राज्ञां परमं पवित्रं जनमेजय । 008a
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥ 008c
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् । 009a
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना ॥ 009c
यो मर्त्यः प्रतिपद्येत आयुर्जीवेन वा पुनः । 010a
यज्ञमेकं ततः कृत्वा तत्सन्न्यस्य तपश्चरेत् ॥ 010c
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् । 011a
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥ 011c
यत्रावगाह्य स्थित्वा च नैनं श्वोमरणं तपेत् । 012a
महासरः पुष्कराणि प्रभासोत्तरमानसे ॥ 012c
कालोदकं च गन्तासि लब्धायुर्जीविते पुनः । 013a
सरस्वतीदृषद्वत्योः सेवमानोऽनुसञ्ज्वरेत् । 013c
स्वाध्यायशील एतेषु सर्वेष्वेवमुपस्पृशेत् ॥ 013e
त्यागधर्मं पवित्राणां सन्न्यासं मनुरब्रवीत् ॥ 014ac
अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः । 015a
यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत् । 015c
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥ 015e
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् । 016a
त्यजतां जीवितं प्रायो निवृत्ते पुण्यपापके || 016c
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते ॥ 017ac
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च । 018a
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः ॥ 018c
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् । 019a
यथैवैतान्पुरा क्षेप्सीस्तथैवैतान्प्रसादय ॥ 019c
अपि धिक्क्रियमाणोऽपि तर्ज्यमानोऽप्यनेकधा । 020a
आत्मनो दर्शनं विद्वान्नाहर्ताऽस्मीति मा क्रुधः । 020c
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम् ॥ 020e
हिमाग्निघोरसदृशो राजा भवति कश्चन । 021a
लाङ्गलाशनिकल्पो वा भवेदन्यः परन्तपः ॥ 021c
न विशेषेण गन्तव्यमचिकित्सेन वा पुनः । 022a
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥ 022c
विकर्मणा तप्यमानः पापात्पापः प्रमुच्यते । 023a
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ 023c
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते । 024a
शुचिस्तीर्थान्यनुचरन्बहुत्वात्परिमुच्यते ॥ 024c
कल्याणमनुकर्तव्यं पुरुषेण बुभूषता । 025a
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥ 025c
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते । 026a
तपश्चर्यापरः सत्यं पापाद्विपरिमुच्यते ॥ 026c
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते । 027a
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥ 027c
महासरः पुष्कराणि प्रभासोत्तरमानसे । 028a
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते ॥ 028c
यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः । 029a
प्रमीयमाणानुन्मोच्य प्राणिहा विप्रमुच्यते ॥ 029c
अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम् । 030a
यथाऽश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥ 030c
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा । 031a
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥ 031c
बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपते त्वयुज्जत । 032a
धर्मे फलं हेतुकृते महर्षे तथेतरस्मिन्नरके पापलोक्ये ॥ 032c
उभे तु यस्य सुकृते भवेतां किं तत्तयोस्तत्र जयोत्तरं स्यात् । 033a
आचक्ष्व तत्कर्मफलं महर्षे कथं पापं नुदते धर्मशीलः ॥ 033c
बृहस्पतिरुवाच 034
कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि चेत्कुरुते बुद्धिपूर्वम् । 034a
स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्त्या ॥ 034c
पापं कृत्वा हि मन्येत नाहमस्तीति पूरुषः । 035a
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ 035c
छिद्राणि वसनस्येव साधुना संवृणोति सः । 036a
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥ 036c
आदित्यः पुनरुद्यन्वा तमः सर्वं व्यपोहति । 037a
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति ॥ 037c
भीष्म उवाच 038
एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम् । 038a
याजयामास विधिवद्वाजिमेधेन शौनकः ॥ 038c
ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलितोऽनुरूपया । 039a
विवेश राज्यं स्वममित्रकर्शनो यथा दिवं पूर्णवपुर्निशाकरः ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥
12-151-4 अभिभूतानामधर्मेणेति शेषः ॥ 12-151-12 अत्रावगाह्य पीत्वा चेति झ. थ. पाठः ॥ 12-151-14 पवित्राणां पावनानां मध्ये त्यागधर्मं दानात्मकं धर्मं पवित्रतरं सन्न्यासं तु परं धर्मं ततोऽप्यधिकं मनुरब्रवीत् ॥ 12-151-15 कुमारो बालः सत्यो रागद्वेषशून्यत्वात् । तथा तिष्ठेदित्यर्थः ॥ 12-151-18 बलेन धैर्येण । संविभागैर्दानैः । ओज इन्द्रियपाटवम् ॥ 12-151-21 हिमवच्छीतलः । अग्निवत्क्रूरः । घोरो यमस्तद्वद्गुणदोषविचारकः । लाङ्गवद्दुष्टमूलोन्मूलनपरः । अशनिवदाकस्मिकपातो दुष्टेषु हिमाग्निघोषसदृश इति द. पाठः ॥ 12-151-23 सकृत्कृतात्पापात्पश्चात्तापमात्रेण मुच्यते । द्विरावृत्तात्पुनर्न करिष्यामीति नियमग्रहणमात्रेण । त्रिरावृत्ताद्यत्किञ्चिद्धर्मस्वीकारमात्रेण । बहुकृत्वेति तदभ्यस्तात्तु तीर्थादिना मुच्यत इति श्लोकद्वयार्थः । पादात्पापस्य मुच्यत इति ट. पाठः ॥ 12-151-30 अघमर्षणमृतं च सत्यं चेति ऋक्त्रयम् ॥ 12-151-32 फलं दुःखम् ॥ 12-151-33 यस्य योगिन उभे अपि सुखदुःखे ॥ 12-151-35 कर्तृत्वाभिमानशून्यः पापं कुर्वन्नपि न करोत्येवेत्यर्धस्यार्थः ॥ 12-151-36 संवृणोति विधत्ते ॥