अध्यायः 150
शौनकेन जनमेजयप्रार्थनया तदीयब्रह्महत्यापनोदनाङ्गीकरणम् ॥ 1 ॥
भीष्म उवाच 001
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः । 001a
गर्ह्यं भवान्गर्हयते निन्द्यं निन्दति मां पुनः ॥ 001c
धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये । 002a
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम् ॥ 002c
स्वकर्माण्यभिसन्धाय नाभिनन्दति मे मनः । 003a
प्राप्तं घोरं भयं नूनं मया वैवस्वतादपि ॥ 003c
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् । 004a
सर्वं मन्युं विनीय त्वमभि मां वद शौनक ॥ 004c
[महानासं ब्राह्मणानां भूयो वक्ष्यामि साम्प्रतम् ।] 005a
'गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः ।' 005c
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥ 005e
न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति । 006a
स्तुतीरलभमानानां संविदं वेद निश्चयात् ॥ 006c
निन्दमानः स्वमात्मानं भूयो वक्ष्यामि साम्प्रतम् । 007a
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव ॥ 007c
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन । 008a
अवाक्च प्रपतिष्यन्ति पुलिन्दशबरा इव ॥ 008c
अविज्ञायैव मे प्रज्ञां बालस्येव स पण्डितः । 009a
ब्रह्मन्पितेव पुत्रस्य प्रीतिमान्भव शौनक ॥ 009c
शौनक उवाच 010
किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसाम्प्रतम् । 010a
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते ॥ 010c
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् । 011a
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति ॥ 011c
न चोपलभते कश्चिन्न चाश्चर्याणि पश्यति । 012a
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥ 012c
विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे । 013a
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते ॥ 013c
तद्वै चारित्रकं तात ब्राह्मणानामकुप्यताम् । 014a
अथवा तप्यसे पापे धर्मं चेदनुपश्यसि ॥ 014c
जनमेजय उवाच 015
अनुतप्ये च पापेन न चाधर्मं चराम्यहम् । 015a
बुभूषेद्भजमानं च प्रीतिमान्भव शौनक ॥ 015c
शौनक उवाच 016
छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप । 016a
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मरन् ॥ 016c
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये । 017a
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह ॥ 017c
सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये । 018a
क्रोशतां सर्वभूतानां हाहाधिगिति जल्पताम् ॥ 018c
वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः । 019a
ता वाचः सुहृदः श्रुत्वा सञ्ज्वरिष्यन्ति मे भृशम् ॥ 019c
केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम् । 020a
जानीहि मत्कृतं तात ब्राह्मणान्प्रति भारत ॥ 020c
यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु । 021a
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥ 021c
जनमेजय उवाच 022
नैव वाचा न मनसा पुनर्जातु न कर्मणा । 022a
द्रोग्धाऽस्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥ 022c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥
12-150-2 त्वा त्वाम् ॥ 12-150-5 ब्राह्मणानां भक्त इति शेषः ॥ 12-150-8 पुलिन्दाः शबराः म्लेच्छभेदाः ॥ 12-150-9 ब्रह्मन्ब्राह्मण ॥ 12-150-10 साधुषु निर्विण्णात्मा विरक्तः परोक्षस्तद्दृष्टिपथादपेतः तैश्च धिक्कृतः सः प्रज्ञानं चोपलभते । तत्सङ्गं विना प्रज्ञा दुर्लभैवेत्यर्थः ॥ 12-150-13 ब्रह्मा ब्राह्मणः शरणं रक्षिता । यथाशान्ति शान्तिमनतिक्रम्य ॥ 12-150-17 उपाह्वये शिष्यं करोमीत्यर्थः ॥ 12-150-18 शौनकं पापिष्ठसङ्ग्रहीतारं धिगिति जल्पतां ताननादृत्य उपाह्वये इत्यर्थः ॥