अध्यायः 149

युधिष्ठिरेण भीष्मम् प्रति अबुद्धिपूर्वकब्रह्महत्याप्रायश्चित्तप्रश्नः ॥ 1 ॥ भीष्मेण जनमेजयस्याबुद्धिपूर्वकब्रह्महत्याप्राप्तिकथनपूर्वकं तत्कथाकथनारम्भः ॥ 2 ॥ शौनकेन स्वपादयोः प्रणमतो जनमेजयस्य गर्हणम् ॥ 3 ॥ युधिष्ठिर उवाच 001
अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम । 001a
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम् । 002a
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥ 002c
आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः । 003a
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम् ॥ 003c
ब्राह्मणाः सर्व एवैनं तत्यजुः सपुरोहिताः । 004a
स जगाम वनं राजा दह्यमानो दिवानिशम् ॥ 004c
प्रजाभिः स परित्यक्तश्चकार कुशलं महत् । 005a
अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥ 005c
ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून् । 006a
पर्यटन्पृथिवीं कृत्स्नां देशेदेशे नराधिपः ॥ 006c
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् । 007a
दह्यमानः पापकृत्या जगाम जनमेजयः ॥ 007c
चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् । 008a
समासाद्योपजग्राह पादयोः परिपीडयन् ॥ 008c
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा । 009a
कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥ 009c
किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथञ्चन । 010a
गच्छगच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन् ॥ 010c
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् । 011a
अशिवः शिवसङ्काशो मृतो जीवन्निवाटसि ॥ 011c
अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन् । 012a
प्रबुध्यसे प्रस्वपिषि वर्तसे परमे सुखे ॥ 012c
मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि । 013a
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे ॥ 013c
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् । 014a
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया ॥ 014c
पितृवंशमिमं पश्य त्वत्कृते निधनं गतम् । 015a
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥ 015c
यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः । 016a
तेषु ते सन्ततं द्वेषो ब्राह्मणेषु निरर्थकः ॥ 016c
इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि । 017a
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥ 017c
खाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः । 018a
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि ॥ 018c
यदिदं मन्यसे राजन्नायमस्ति कुतः परः । 019a
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ॥ 019c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

12-149-3 पारिक्षित् पारिक्षितः ॥ 12-149-7 पापकृत्या पापक्रियया ॥ 12-149-10 मा मां स्प्राक्षीः कथञ्चनेति झ. पाठः ॥ 12-149-12 ब्रह्ममृत्युरशुद्धात्मेति झ. पाठः ॥ 12-149-13 यवीयसे हीनाय ॥ 12-149-15 त्वत्कृते नरकं गतमिति झ. पाठः ॥ 12-149-17 अशाश्वतीः सर्वस्यापि कर्मणोऽन्तवत्त्वात् । शाश्वतीः बहुत्वात् ॥