अध्यायः 148
व्याधेन विमानस्थयोर्दर्शनम् ॥ 1 ॥ ततो व्याधेन दावाग्नौ शरीरत्यागेन स्वर्गगमनम् ॥ 2 ॥
भीष्म उवाच 001
विमानस्थौ तु तौ राजंल्लुब्धकः खे ददर्श ह । 001a
दृष्ट्वा तौ दम्पती राजन्व्यचिन्तयत तां गतिम् ॥ 001c
कीदृशेनेह तपसा गच्छेयं परमां गतिम् । 002a
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥ 002c
महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवकः । 003a
निश्चेष्टो मरुदाहारो निर्ममः स्वर्गकाङ्क्षया ॥ 003c
ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्माभिभूषितम् । 004a
नानापक्षिगणाकीर्णं सरः शीतजलं शिवम् ॥ 004c
पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः ॥ 005ac
उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः । 006a
उपसृत्य तु तद्धृष्टः श्वापदाध्युषितं वनम् ॥ 006c
महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह । 007a
प्रविशन्नेव स वनं निगृहीतः स कण्टकैः ॥ 007c
स कण्टकैर्विभिन्नाङ्गो लोहितार्द्रीकृतच्छविः । 008a
बभ्राम तस्मिन्विजने नानामृगसमाकुले ॥ 008c
ततो द्रुमाणां महतां पवनेन वने तदा । 009a
उदतिष्ठत सङ्घर्षान्सुमहान्हव्यवाहनः ॥ 009c
तद्वनं वृक्षसङ्कीर्णं लताविटपसङ्कुलम् । 010a
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ॥ 010c
स ज्वालैः पवनोद्भूतैर्विस्फुलिङ्गैः समन्ततः । 011a
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ॥ 011c
ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा । 012a
अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा ॥ 012c
ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मषः । 013a
जगाम परमां सिद्धिं ततो भरतसत्तम ॥ 013c
ततः स्वर्गस्थमात्मानमपश्यद्विगतज्वरः । 014a
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् ॥ 014c
एवं खलु कपोतश्च कपोती च पतिव्रता । 015a
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ॥ 015c
याऽन्या चैवंविधा नारी भर्तारमनुवर्तते । 016a
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता ॥ 016c
एवमेतत्पुरावृत्तं लुब्धकस्य महात्मनः । 017a
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ॥ 017c
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् । 018a
नाशुभं विद्यते तस्य मनसाऽपि प्रमादतः ॥ 018c
युधिष्ठिर महानेष धर्मो धर्मभृतां वर । 019a
गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ॥ 019c
न निष्कृतिर्भवेत्तस्य यो हन्याच्छरणागतम् । 020a
इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम् । 020c
न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ॥ 020e
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥