अध्यायः 147

भर्तृशोकतप्तया कपोत्या सकरुणं विलप्याग्नौ प्रवेशः ॥ 1 ॥ ततो विमानारोहणेन स्वर्गतयोः कपोतयोस्तत्र सुखेन चिरविहारः ॥ 2 ॥ भीष्म उवाच 001
ततो गते शाकुनिके कपोती प्राह दुःखिता । 001a
संस्मृत्य सा च भर्तारं रुदती शोककर्शिता ॥ 001c
नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे । 002a
सर्वाऽपि विधवा नारी बहुपुत्राऽपि शोचते ॥ 002c
शोच्या भवति बन्धूनां पतिहीना तपस्विनी । 003a
लालिताऽहं त्वया नित्यं बहुमानाच्च पूजिता ॥ 003c
वचनैर्मधुरैः स्निग्धैरसङ्क्लिष्टमनोहरैः । 004a
कन्दरेषु च शैलानां नदीनां निर्झरेषु च ॥ 004c
द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया सह । 005a
आकाशगमने चैव विहृताऽहं त्वया सुखम् । 005c
रमामि स्म पुरा कान्त तन्मे नास्त्यद्य मे प्रिय ॥ 005e
मितं ददाति हि पिता मितं भ्राता मितं सुतः । 006a
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ 006c
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् । 007a
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥ 007c
न कार्यमिह मे नाथ जीवितेन त्वया विना । 008a
पतिहीना तु का नारी सती जीवितुमुत्सहेत् ॥ 008c
एवं विलप्य बहुधा करुणं सा सुदुःखिता । 009a
पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम् ॥ 009c
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत । 010a
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥ 010c
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् | 011a
विमानशतकोटीभिरावृतं पुण्यकर्मभिः ॥ 011c
ततः स्वर्गं गतः पक्षी विमानवरमास्थितः । 012a
कर्मणा पूजितस्तत्र रेमे स सह भार्यया ॥ 012c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥