अध्यायः 145
पत्नीचोदितेन कपोतेन शुष्कपर्णैः पावकसन्दीपनेन व्याधस्य शैत्यापनोदनपूर्वकम् पुनः स्वेन तदभीष्टकरणप्रतिज्ञा ॥ 1 ॥ तेन तस्य क्षुन्निवृत्तिप्रार्थने फलादिकं किमप्यलभमानेन कपोतेन स्वमांसेन तदीयक्षुत्परिजिहीर्षयाऽग्नौ प्रवेशनम् ॥ 2 ॥
भीष्म उवाच 001
सपत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् । 001a
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥ 001c
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा । 002a
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम् ॥ 002c
उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते । 003a
सन्तापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ 003c
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि । 004a
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥ 004c
अरावप्युचितं कार्यमातिथ्यं गृहमागते । 005a
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ 005c
शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः । 006a
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥ 006c
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी । 007a
तस्य नायं न च परो लोको भवति धर्मतः ॥ 007c
तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि । 008a
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥ 008c
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् । 009a
बाधते खलु मां शीतं सन्त्राणं हि विधीयताम् ॥ 009c
एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले । 010a
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥ 010c
स गत्वाऽङ्गारकर्मान्तं गृहीत्वाऽग्निमथागमत् । 011a
तथा शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥ 011c
स सन्दीप्तं महत्कृत्वा तमाह शरणागतम् । 012a
प्रतापय सुविस्रब्धः स्वगात्राण्यकुतोभयः ॥ 012c
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् । 013a
अग्निप्रत्यागतप्राणस्ततः प्राह विहङ्गमम् ॥ 013c
हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः । 014a
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा ॥ 014c
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् । 015a
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः ॥ 015c
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव । 016a
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥ 016c
सञ्चयो नास्ति चास्माकं मुनीनामिव कानने । 017a
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥ 017c
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा । 018a
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥ 018c
मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी पक्षिघातिनम् । 019a
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ 019c
इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम् । 020a
हर्षेण महताऽऽविष्टः कपोतः पुनरब्रबीत् ॥ 020c
ऋषीणां देवतानां च पितॄणां च महात्मनाम् । 021a
युतः पूर्वं मया धर्मो महानतिथिपूजने ॥ 021c
कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रवीमि ते । 022a
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥ 022c
ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव । 023a
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ॥ 023c
अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम् । 024a
चिन्तयामास मनसा किमिदं वै मया कृतम् ॥ 024c
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा । 025a
अधर्मः सुमहान्घोरो भविष्यति न संशयः ॥ 025c
एवं बहुविधं भूरि विललाप स लुब्धकः । 026a
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽऽगतम् ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
12-145-3 सङ्कोचश्च न कर्तव्य इति थ. पाठः ॥ 12-145-11 अङ्गारकर्मान्तं कर्मारगृहसमीपम् ॥