अध्यायः 144
महावृक्षनिवासिना कपोतेनाहारार्थं गतायां निजपत्न्यां रात्रावनागतायां तद्गुणानुवर्णनपूर्वकं ताम् प्रति शोचनम् ॥ 1 ॥ भर्तृविलापं श्रुतवत्या व्याधपञ्जरस्थया कपोत्या धर्मोपन्यासपूर्वकम् पतिम् प्रति व्याधसत्कारचोदना ॥ 2 ॥
भीष्म उवाच 001
अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः । 001a
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥ 001c
तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत । 002a
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥ 002c
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया । 003a
किन्नु तत्कारणं येन साऽद्यापि न निवर्तते ॥ 003c
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ॥ 004ac
तया विरहितं हीदं शून्यमद्य गृहं मम । 005a
पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः । 005c
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् ॥ 005e
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । 006a
गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥ 006c
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा । 007a
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥ 007c
न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता । 008a
नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि ॥ 008c
हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता । 009a
प्रोषिते दीनवदना क्रुद्धे च प्रियवादिनी ॥ 009c
पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी । 010a
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि ॥ 010c
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी । 011a
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी ॥ 011c
वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम् । 012a
प्रासादोपि तया हीनः कान्तार इति निश्चितम् ॥ 012c
धर्मार्थकामकालेषु भार्या पुंसः सहायिनी । 013a
विदेशगमने चास्य सैव विश्वासकारिका ॥ 013c
भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते । 014a
असहायस्य लोकेऽस्मिल्ँलोकयात्रासहायिनी ॥ 014c
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च । 015a
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ 015c
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः । 016a
नास्ति भार्यासमो लोके सहायो धर्मसङ्ग्रहे ॥ 016c
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी । 017a
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ 017c
भीष्म उवाच 018
एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा । 018a
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम् ॥ 018c
कपोत्युवाच 019
अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः । 019a
असतो वा सतो वाऽपि गुणानेवं प्रभाषते ॥ 019c
सा हि स्त्रीत्यवगन्तव्या यस्या भर्ता तु तुष्यति । 020a
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः । 020c
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम् ॥ 020e
दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता । 021a
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति ॥ 021c
इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा । 022a
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत् ॥ 022c
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा । 023a
शरणागतसन्त्राता भव कान्त विशेषतः ॥ 023c
एष शाकुनिकः शेते तव वासं समाश्रितः । 024a
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥ 024c
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् । 025a
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥ 025c
अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः । 026a
सा न्याय्याऽऽत्मवता नित्यं त्वद्विधेनानुवर्तितुम् ॥ 026c
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते । 027a
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥ 027c
स त्वं सन्तानवानद्य पुत्रवानपि च द्विज । 028a
त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य य । 028c
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥ 028e
शरीरे मा च सन्तापं कुर्वीथास्त्वं विहङ्गम । 029a
शरीरयात्रावृत्त्यर्थमन्यान्दारानुपैष्यसि ॥ 029c
इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी । 030a
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत ॥ 030c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥
12-144-10 पतिव्रता पतिगतिः पतिप्रियहिते रता हि झ. पाठः ॥ 12-144-14 भार्या हि परमो नाथ इति ड. थ. पाठः ॥ 12-144-21 न सा स्त्रीत्यवगन्तव्या यस्यां भर्ता न तुष्यतीति झ. पाठः ॥