अध्यायः 143

भीष्मेण युधिष्ठिरम् प्रति शरणागतरक्षणे मुचुकुन्दम् प्रति भार्गवोक्तव्याधकपोतोपाख्यानानुवादारम्भः ॥ 1 ॥ वनमध्ये महावृष्टिनिपीडितेन केनचिद्व्याधेन वर्षपीडयाऽधःपतितां काञ्चन कपोतीम् पञ्जरे निरुद्ध्य वृष्ट्युपरमे कस्यचिन्महावृक्षस्याधोदेशे शयनम् ॥ 2 ॥ युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । 001a
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे ॥ 001c
भीष्म उवाच 002
महान्धर्मो महाराज शरणागतपालने । 002a
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम ॥ 002c
शिबिप्रभृतयो राजन्राजानः शरणं गतान् । 003a
परिपाल्य महात्मानः संसिद्धिं परमां गताः ॥ 003c
श्रूयते च कपोतेन शत्रुः शरणमागतः । 004a
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ 004c
युधिष्ठिर उवाच 005
कथं कपोतेन पुरा शत्रुः शरणमागतः । 005a
स्वमांसं भोजितः कां च गतिं लेभे स भारत ॥ 005c
भीष्म उवाच 006
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् । 006a
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै ॥ 006c
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः । 007a
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ ॥ 007c
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् । 008a
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥ 008c
उशनोवाच 009
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् । 009a
शृणुष्वावहितो राजन्गदतो मे महाभुज ॥ 009c
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसम्मितः । 010a
चचार पृथिवीपाल घोरः शकुनिलुब्धकः ॥ 010c
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः । 011a
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥ 011c
नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवाः । 012a
बान्धवैः सम्परित्यक्तस्तेन रौद्रेण कर्मणा ॥ 012c
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः । 013a
आत्मानं यो न सन्धत्ते सोन्यस्य स्यात्कथं हितः ॥ 013c
ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः । 014a
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ 014c
स वै क्षारकमादाय वने हत्वा च पक्षिणः । 015a
चकार विक्रयं तेषां पतङ्गानां जनाधिपः ॥ 015c
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः । 016a
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥ 016c
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् । 017a
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥ 017c
ततः कदाचित्तस्याथ वनस्थस्य समन्ततः । 018a
पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः ॥ 018c
मेघसङ्कुलमाकाशं विद्युन्मण्डलमण्डितम् । 019a
सञ्छन्नस्तु मुहूर्तेन नौसार्थैरिव सागरः ॥ 019c
वारिधारासमूहेन सम्प्रहृष्टः शतक्रतुः । 020a
क्षणेन पूरयामास सलिलेन वसुन्धराम् ॥ 020c
ततो धाराकुले लोके सम्भ्रमन्नष्टचेतनः । 021a
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥ 021c
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहङ्गहा । 022a
पूरितो हि जलौघेन तस्य मार्गो वनस्य तु ॥ 022c
पक्षिणो वर्षवेगेन हता लीनास्तु पादपात् । 023a
मृगसिंहवराहाश्च ये चान्ये तत्र पक्षिणः ॥ 023c
महता वातवर्षेण त्रासितास्ते वनौकसः । 024a
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥ 024c
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् । 025a
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् ॥ 025c
दृष्ट्वाऽऽर्तोपि हि पापात्मा स तां पञ्जरकेऽक्षिपत् । 026a
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे ॥ 026c
पापात्मा पापकारित्वात्पापमेव चकार सः । 027a
सोऽपश्यत्तरुषण्डेषु मेघनीलं वनस्पतिम् ॥ 027c
सेव्यमानं विहङ्गौघैश्छायावासफलार्थिभिः । 028a
धात्रा परोपकाराय स साधुरिव निर्मितः ॥ 028c
अथाभवत्क्षणेनैव वियद्विमलतारकम् । 029a
महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम् | 029c
कुसुमाकारताराढ्यमाकाशं निर्मलं बहु ॥ 029e
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः । 030a
दिशो विलोकयामास वेलां च सुदुरात्मवान् ॥ 030c
दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो । 031a
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः ॥ 031c
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम् । 032a
शरणं यामि यान्यस्मिन्दैवतानीति भारत ॥ 032c
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले । 033a
दुःखेन महताऽऽविष्टस्ततः सुष्वाप पक्षिहा ॥ 033c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

12-143-11 काकोलः काकविशेषः ॥ 12-143-15 क्षारकं जालम् ॥ 12-143-23 येचान्ये तत्र वर्तिन इति ट. द. पाठः ॥