अध्यायः 141
भीष्मेण युधिष्ठिरम् प्रति आपदि अभक्ष्यभक्षणेनाप्यात्मरक्षणकरणे दृष्टान्ततया विश्वामित्रश्वपचसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
हीने परमके धर्मे सर्वलोकविलङ्घिते । 001a
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥ 001c
मर्यादासु प्रभिन्नासु क्षुभिते लोकनिश्चये । 002a
राजभिः पीडिते लोके चोरैर्वाऽपि विशाम्पते ॥ 002c
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च । 003a
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत ॥ 003c
अविश्वस्तेषु सर्वेषु नित्यं भीतेषु भारत । 004a
नित्यं च हन्यमानेषु वञ्चयत्सु परस्परम् ॥ 004c
प्रदीप्तेषु च देशेषु ब्राह्मण्ये चातिपीडिते । 005a
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥ 005c
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने । 006a
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥ 006c
अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप । 007a
कथमापदि वर्तेत तन्मे ब्रूहि पितामह ॥ 007c
कथं च राजा वर्तेत लोके कलुषतां गते । 008a
कथमर्थाच्च धर्माच्च न हीयेत परन्तप ॥ 008c
भीष्म उवाच 009
राजमूला महाबाहो योगक्षेमसुवृष्टयः । 009a
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥ 009c
कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ । 010a
राजमूला इति मतिर्मम नास्त्यत्र संशयः ॥ 010c
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके । 011a
विज्ञानबलमास्थाय जीवितव्यं भवेत्तदा ॥ 011c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 012a
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥ 012c
त्रेताद्वापरयोः सन्धौ पुरा दैवव्यतिक्रमात् । 013a
अनावृष्टिरभूद्घोरा लोके द्वादशवार्षिकी ॥ 013c
प्रजानामतिवृद्धानां युगान्ते समुपस्थिते । 014a
त्रेतायां मोक्षसमये द्वापरप्रतिपादने ॥ 014c
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः । 015a
जगाम दक्षिणं मार्गं सोमो व्यावृत्तमण्डलः ॥ 015c
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः । 016a
नद्यः सङ्क्षिप्ततोयौघाः किञ्चिदन्तर्गताऽभवन् ॥ 016c
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च । 017a
हतत्विषो न लक्ष्यन्ते निसर्गात्पूर्वकारितात् ॥ 017c
भूमिः शुष्कजलस्थाना विनिवृत्तसभाप्रपा । 018a
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥ 018c
उत्सन्नकृषिगोरक्षा निवृत्तविपणापणा । 019a
निवृत्तपूर्वसमया सम्प्रनष्टमहोत्सवा ॥ 019c
अस्थिकङ्कालसङ्कीर्णा हाहाभूतनराकुला । 020a
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥ 020c
क्वचिच्चोरैः क्वचिच्छूरैः क्वचिद्राजभिरातुरैः । 021a
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥ 021c
गतदैवतसंस्थाना वृद्धबालविनाकृता । 022a
गोजाविमहिषीहीना परस्परपराहता ॥ 022c
हतविप्रा हतारक्षा प्रनष्टोत्सवसञ्चया । 023a
शवभूतनरप्राया बभूव वसुधा तदा ॥ 023c
तस्मिन्प्रतिभये काले क्षीणधर्मे युधिष्ठिर । 024a
बभूवुः क्षुधिता मर्त्याः खादमानाः परस्परम् ॥ 024c
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदेवताः । 025a
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ॥ 025c
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः । 026a
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ॥ 026c
त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि । 027a
भक्ष्याभक्ष्यसमो भ्रूत्वा निरग्निरनिकेतनः ॥ 027c
स कदाचित्परिपतञ्श्वपचानां निकेतनम् । 028a
हिंस्राणां प्राणिघातानामाससाद वने क्वचित् ॥ 028c
विभिन्नकलशाकीर्णं श्वमांसेन च भूषितम् । 029a
वराहखरभग्नास्थिकपालघटसङ्कुलम् ॥ 029c
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् । 030a
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमुखम् ॥ 030c
कुक्कुटारावबहुलं गर्दभध्वनिनादितम् । 031a
उद्घोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ॥ 031c
उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम् । 032a
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥ 032c
तत्प्रविश्य क्षुधाविष्टो गाधिपुत्रो महानृषिः । 033a
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥ 033c
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः । 034a
मांसमन्नं फलं मूलमन्यद्वा तत्र किञ्चन ॥ 034c
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः । 035a
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥ 035c
स चिन्तयामास मुनिः किन्नु मे सुकृतं भवेत् । 036a
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥ 036c
स ददर्श श्वमांसस्य कुतन्त्रीं पतितां मुनिः । 037a
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य वै ॥ 037c
स चिन्तयामास तदा स्तेयं कार्यमितो मया । 038a
न हीदानीमुपायो मे विद्यते प्राणधारणे ॥ 038c
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः । 039a
परस्परं भवेत्पूर्वमास्थेयमिति निश्चयः || 039c
हीनादादेयमादौ स्यात्समानात्तदनन्तरम् । 040a
असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥ 040c
सोऽहमन्तावसायीनां हराम्येनां प्रतिग्रहात् । 041a
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥ 041c
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः । 042a
तस्मिन्देशे सुसुष्वाप पतितो यत्र भारत ॥ 042c
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे । 043a
शनैरुत्थाय भगवान्प्रविवेश कुटीमुखम् ॥ 043c
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः । 044a
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः ॥ 044c
कः कुतन्त्रीं घट्टयति सुप्ते चण्डालपक्कणे । 045a
जागर्मि नैव सुप्तोऽस्मि हतोऽसीति च दारुणः ॥ 045c
विश्वामित्रोऽहमित्येव सहसा तमुवाच ह । 046a
सहसाऽभ्यागतं भूयः सोद्वेगस्तेन कर्मणा ॥ 046c
विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः । 047a
मा वधीर्मम सद्बुद्धे यदि सम्यक्प्रपश्यसि ॥ 047c
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः । 048a
शयनादुपसम्भ्रान्त उद्ययौ प्रति तं ततः ॥ 048c
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः । 049a
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥ 049c
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् । 050a
क्षुधितोऽन्तर्गतप्राणो हरिष्यामि श्वजाघनीम् ॥ 050c
क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः । 051a
क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥ 051c
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा । 052a
दुर्बलो नष्टसञ्ज्ञश्च भक्ष्याभक्ष्यविवर्जितः । 052c
सोधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥ 052e
यदा भैक्षं न विन्दामि युष्माकमहमालये । 053a
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥ 053c
अग्निर्मुखं पुरोधाश्च देवानां शुचिषाड्विभुः । 054a
यथा च सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥ 054c
तमुवाच स चण्डालो महर्षे शृणु मे वचः । 055a
श्रुत्वा तथा तमातिष्ठ यथा धर्मो न हीयते ॥ 055c
धर्मं तवापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् ॥ 056ac
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः । 057a
तस्याप्यधम उद्देशः शरीरस्य तु जाघनी ॥ 057c
नेदं सम्यग्व्यवसितं महर्षे कर्म गर्हितम् । 058a
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥ 058c
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे । 059a
श्वमांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥ 059c
जानता विहितो मार्गो न कार्यो धर्मसङ्करः । 060a
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥ 060c
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ । 061a
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥ 061c
निराहारस्य सुमहान्मम कालोऽभिधावतः । 062a
न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे ॥ 062c
येनकेन विशेषेण कर्मणा येनकेनचित् । 063a
उज्जिहीर्षे सीदमानः समर्थो धर्ममाचरेत् ॥ 063c
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः । 064a
ब्रह्मवह्निर्मम बलं भोक्ष्यामि शमयन्क्षुधाम् ॥ 064c
यथायथैव जीवेद्धि तत्कर्तव्यमहेलया । 065a
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥ 065c
सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम् । 066a
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥ 066c
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि तु । 067a
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥ 067c
श्वपच उवाच 068
नैतत्खादन्प्राप्स्यसे प्राणमद्य नायुर्दीर्घं नामृतस्येव तृप्तिम् । 068a
भिक्षामन्यां भिक्ष मा ते मनोस्तु श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम् ॥ 068c
विश्वामित्र उवाच 069
न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाकमन्ये न च मेऽस्ति वित्तम् । 069a
क्षुधार्तश्चाहमगतिर्निराशः श्वजाघनीं षड्रसात्साधु मन्ये ॥ 069c
श्वपच उवाच 070
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः । 070a
'शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।' 070c
यदि शास्त्रं प्रमाणं ते माऽभक्ष्ये वै मनः कृथाः ॥ 070e
विश्वामित्र उवाच 071
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै । 071a
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥ 071c
श्वपच उवाच 072
भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि । 072a
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥ 072c
विश्वामित्र उवाच 073
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये । 073a
परां मेध्याशनादेनां भक्ष्यां मन्ये श्वजाघनीम् ॥ 073c
श्वपच उवाच 074
असद्भिर्यः समाचीर्णो न स धर्मः सनातनः । 074a
अकार्यमिह कार्यं वा मा छलेनाशुभं कृथाः ॥ 074c
विश्वामित्र उवाच 075
न पातकं नावमतमृषिः सन्कर्तुमर्हति । 075a
समौ च श्वमृगौ मन्ये तस्माद्भोक्ष्ये श्वजाघनीम् ॥ 075c
श्वपच उवाच 076
यद्ब्राह्मणार्थे कृतमर्थिनेन तेनर्षिणा तदभक्ष्यं न कामात् । 076a
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्गुरवो हि रक्ष्याः ॥ 076c
विश्वामित्र उवाच 077
मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च लोके । 077a
तद्भोक्तुकामोऽहमिमां जिहीर्षे नृशंसानामीदृशानां न बिभ्ये ॥ 077c
श्वपच उवाच 078
कामं नरा जीवितं सन्त्यजन्ति न चाभक्ष्ये क्वचित्कुर्वन्ति बुद्धिम् । 078a
सर्वांश्च कामान्प्राप्नुवन्तीति विद्धि स्वर्गे निवासात्सहते क्षुधां वै ॥ 078c
विश्वामित्र उवाच 079
स्थाने भवेत्स यशः प्रेत्यभावे निःसंशयः कर्मणां वै विनाशः । 079a
अहं पुनर्व्रतनित्यः शमात्मा मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम् ॥ 079c
बुद्ध्यात्मके व्यक्तमस्तीति सृष्टो मोक्षात्मके त्वं यथा शिष्टचक्षुः । 080a
यद्यप्येतत्संशयाच्च त्रपामि नाहं भविष्यामि यथा न माया ॥ 080c
श्वपच उवाच 081
गोपनीयमिदं दुःखमिति मे निश्चिता मतिः । 081a
दुष्कृतं ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥ 081c
विश्वामित्र उवाच 082
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि । 082a
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥ 082c
श्वपच उवाच 083
सुहृद्भूत्वाऽनुशोचे त्वां कृपा हि त्वयि मे द्विज । 083a
तदिदं श्रेय आधत्स्व मा लोभे चेत आदधाः ॥ 083c
विश्वामित्र उवाच 084
सृहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर । 084a
जानेऽहं धर्मतोऽऽत्मानमुत्सृजेमां श्वजाघनीम् ॥ 084c
श्वपच उवाच 085
नैवोत्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् । 085a
उभौ स्यावः श्वमलेनानुलिप्तौ दाता चाहं ब्राह्मणस्त्वं प्रतीच्छन् ॥ 085c
विश्वामित्र उवाच 086
अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् । 086a
सम्पूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥ 086c
श्वपच उवाच 087
आत्मैव साक्षी किल धर्मकृत्ये त्वमेव जानासि यदत्र दुष्कृतम् । 087a
यो ह्याद्रियाद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥ 087c
विश्वामित्र उवाच 088
उपधानैः साधते नापि दोषः कार्ये सिद्धे मित्र नात्रापवादः । 088a
अस्मिन्नहिंसा नानृते वाक्यलेशो भक्ष्यक्रिया यत्र न तद्गरीयः ॥ 088c
श्वपच उवाच 089
यद्येष हेतुस्तव खादने स्यान्न ते वेदः कारणं नार्यधर्मः । 089a
तस्माद्भक्ष्ये भक्षणे वा द्विजेन्द्र दोषं न पश्यामि यथेदमत्र ॥ 089c
विश्वामित्र उवाच 090
न पातकं भक्षमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः । 090a
अन्योन्यकार्याणि यथा तथैव न लेपमात्रेण कृतं हिनस्ति ॥ 090c
श्वपच उवाच 091
'पादौ मूलं समभवद्वृन्ताकं शिर उच्यते । 091a
शेफात्तु गृञ्जरं जातं पलाण्डुस्त्वण्डसम्भवः ॥ 091c
श्वरोमजः शैव्यशाको लशुनं द्विजसम्भवम् । 092a
चुक्किनामा पर्णशाकः कर्णादजनि भूसुर ॥' 092c
अस्थानतो हीनतः कुत्सिताद्वा तद्विद्वांसं बाधते साधु वृत्तम् । 093a
श्वानं पुनर्यो लभतेऽभिषङ्गात्तेनापि दण्डः सहितव्य एव ॥ 093c
भीष्म उवाच 094
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा । 094a
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥ 094c
ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः । 095a
सदारस्तामुपाहृत्य वने भोक्तुमियेषः सः ॥ 095c
अथास्य बुद्धिरभवद्विधिनाऽहं श्वजाघनीम् । 096a
भक्षयामि यथाकालं पूर्वं सन्तर्प्य देवताः ॥ 096c
ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः । 097a
ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् ॥ 097c
ततः समारभत्कर्म दैवं पित्र्यं च भारत । 098a
आहूय देवानिन्द्रादीन्भागम्भागं विधिक्रमात् ॥ 098c
एतस्मिन्नेव काले तु प्रववर्ष स वासवः । 099a
सञ्जीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥ 099c
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः । 100a
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥ 100c
स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः । 101a
तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः ॥ 101c
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः । 102a
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥ 102c
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् । 103a
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते ॥ 103c
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये । 104a
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं कृतात्मना ॥ 104c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥
12-141-7 अतितिक्षुः त्यक्तुमनिच्छुः । अनुक्रोशात् दयातः ॥ 12-141-9 अप्राप्तप्रापणं योगः । प्राप्तसंरक्षणं क्षेमः ॥ 12-141-12 पक्कणे चण्डालागारे ॥ 12-141-15 प्रतिलोमो वक्रः । व्यावृत्तम् अन्यथाभूतं मण्डलं यस्य ॥ 12-141-16 अवश्यायो धूमिका ॥ 12-141-19 विपणो विक्रयादिः । आपणो हट्टः ॥ 12-141-23 हता आरक्षा रक्षाकर्तारो यस्यां सा ॥ 12-141-36 वृथा अन्नं विना ॥ 12-141-37 कुतन्त्रीं दण्डिकाम् ॥ 12-141-39 विप्रेण प्राणरक्षार्थं कर्तव्यमिति निश्चयः इति झ. पाठः ॥ 12-141-41 प्रतिग्रहात्तज्जदोषात् स्तैन्यदोषमधिकं न पश्यामीत्यर्थः ॥ 12-141-45 घट्टयति चालयति ॥ 12-141-47 मम माम् ॥ 12-141-51 कलुषं यातः पापं कर्मानुसृतः ॥ 12-141-54 अग्निर्देवानां मुखं च पुरोधाश्च सः । शुचिषाट् शुचि मेध्यमेव सहते नामेध्यम् तथाहं ब्रह्मा ब्राह्मणोऽपि तत्तुल्यत्वात्सर्वभुग्भविष्यामीत्यर्थः ॥ 12-141-64 ऐन्द्रः पालात्मकः । आग्निकः सर्वभुक्त्वरूपः । ब्रह्म वेदः स एव वह्निः ॥ 12-141-72 इति कर्तुं नार्हसीति योजना ॥ 12-141-73 शिष्टाः अगस्त्यादयः ॥ 12-141-75 समौ पशुत्वादिति भावः नृशंसमपि भक्षित्वा तेन वातापिना भक्ष्यमाणा ब्राह्मणा रक्षिता इति धर्म एवेत्यर्थः ॥ 12-141-77 तर्हि अयमात्मा देहो मम मित्रं एतस्य रक्षणार्थं मयाप्येतद्भुक्तं चेन्न कश्चिद्दोषोऽस्तीत्याह मित्रं चेति ॥ 12-141-79 स कामः प्रेत्यभावे मरणे सति यशः यशस्करो भवेदिति स्थाने युक्तम् । अनशनेन मरणं श्रेय इति सत्यमित्यर्थः । जीवतस्त्वनश्नतो धर्मलोपः प्रत्यक्षः । मूलं धर्मस्य शरीरं रक्ष्यं तस्य वैकल्येन धर्मविरोधो भवतीत्यर्थः ॥ 12-141-80 बुद्ध्यात्मके व्यक्तमस्तीति पुण्यं मोहात्मके यत्र यथा श्वभक्ष्ये । यद्यप्येतत्संशयात्मा चरामि नाहं भविष्यामि यथा त्वमेवेति झ. पाठः । तत्र बुद्ध्यात्मके प्रमातरि विचारिते श्वजाघनीभक्षणेऽपि पुण्यमस्तीति जाने । ज्ञानोत्पत्तियोग्यं शरीरमपथेन्नापि रक्ष्यमेवेति भावः । तथापि श्वभक्षणमात्रेण त्वादृशः श्वपचोऽहं न भविष्यामि । तपसा दोषं दूरीकर्तुं शक्तोऽस्मीति भावः ॥ 12-141-81 इदं श्वजाघनीभक्षणजं दुःखं पापं गोपनीयं गूहनीयं त्वया क्रियमाणं निरसनीयमिति मे बुद्धिर्निश्चितास्ति ॥ 12-141-82 धर्मे धर्मानुशासने ॥ 12-141-85 प्रतीच्छन् प्रतिगृह्णन् ॥ 12-141-89 हेतुः प्राणपोषणेच्छास्ति । कारणं प्रमाणम् । भक्ष्ये भक्षणे । अभक्षणे इति च्छेदः ॥ 12-141-90 पततीति शब्दः शब्दशास्त्रस्याज्ञामात्रम् । परन्तु पापहेतुर्मुख्यो हिंसाख्योऽत्र न दृश्यत इति भावः । अन्योन्यकार्याणि मैथुनानि । लेपमात्रेण कृतं पुण्यं हिनस्ति नाशयति । तेन ईषत्पापोत्पत्तिरस्तु नतु ब्राह्मण्यादिधर्महानिरस्तीति भावः ॥ 12-141-93 अस्थानतश्चाण्डालगृहात् । हीनतश्चौर्यतः । कुत्सिताददित्सतः कदर्यात् । अभिषङ्गादत्याग्रहात् । श्वानं लभते तेनापि तेनैव दण्डः सहितव्यः सोढव्यएव । ननु दातुर्मम दोषोऽस्तीति भावः । अस्थानतो हीनतः कुत्सिताद्वा यो वै द्विजं बाधते साधुवृत्तम् । स्थानं पुनर्यो लभतेतिभङ्गात्तेनापि दण्डः प्रहितः स एवेति ध. पाठः ॥ 12-141-96 यथाकाममिति झ. पाठः ॥ 12-141-100 सिद्धिमियेषेति ट. ड. द. पाठः ॥