अध्यायः 140
भीष्मेण युधिष्ठिरम् प्रति शत्रुन्तपाय भारद्वाजोक्तापद्धर्मानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
युगक्षयात्परिक्षीणे धर्मे लोके च भारत । 001a
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥ 001c
भीष्म उवाच 002
हन्त ते वर्तयिष्यामि नीतिमापत्सु भारत । 002a
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
भारद्वाजस्य संवादं राज्ञः शत्रुन्तपस्य च ॥ 003c
राजात्शत्रुन्तपो नाम सौवीरेषु महारथः । 004a
भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम् ॥ 004c
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते । 005a
वर्धितं पाल्यते केन पालितं प्रणयेत्कथम् ॥ 005c
तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थनिश्चयम् । 006a
उवाच मतिमान्वाक्यमिदं हेतुमदुत्तमम् ॥ 006c
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । 007a
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥ 007c
नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः । 008a
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ 008c
एवमेव प्रशंसन्ति बुधा ये तत्त्वदर्शिनः । 009a
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥ 009c
छिन्नमूले त्वधिष्ठाने सर्वे तज्जीविनो हताः । 010a
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥ 010c
मूलमेवादितश्छिन्द्यादरिपक्षस्य पण्डितः । 011a
ततः सहायान्पक्षं च सर्वमेवानुशातयेत् ॥ 011c
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् । 012a
आपदागमकाले तु कुर्वीत न विचारयेत् ॥ 012c
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः । 013a
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥ 013c
सपत्नसहितो राज्ये कृत्वा सन्धिं न विश्वसेत् । 014a
उपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥ 014c
शत्रुं च मित्रं पूर्वेण सान्त्वेनैवानुसान्त्वयेत् । 015a
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥ 015c
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् । 016a
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥ 016c
अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् । 017a
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥ 017c
वहेदमित्रं स्कन्धेन यावदर्थस्य लम्भनम् । 018a
अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ॥ 018c
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् । 019a
मा तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥ 019c
नानार्थिकोऽर्थसम्बन्धं कृतघ्ने न समाचरेत् । 020a
अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते । 020c
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ 020e
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः । 021a
व्यालस्य भक्तचित्तस्य यच्छ्रेयस्तत्समाचरेत् ॥ 021c
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहम् । 022a
कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत् ॥ 022c
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा नातिमानिनः । 023a
न च लोकरवाद्भीता न वै शश्वत्प्रतीक्षिणः ॥ 023c
नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । 024a
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ 024c
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् । 025a
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥ 025c
पानमक्षास्तथा नार्यो मृगया गीतवादितम् । 026a
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ 026c
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् । 027a
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥ 027c
देशकालं समासाद्य विक्रमेत विचक्षणः । 028a
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥ 028c
कालाकालौ सम्प्रधार्य बलाबलमथात्मनः । 029a
परस्य च बलं ज्ञात्वा तथाऽऽत्मानं नियोजयेत् ॥ 029c
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति । 030a
स मृत्युमुपगूहेत गर्भमश्वतरी यथा ॥ 030c
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः । 031a
आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्यचित् ॥ 031c
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् । 032a
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुमत् ॥ 032c
भीतवत्संविधातव्यं यावद्भयमनागतम् । 033a
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ 033c
न साहसमनारुह्य नरो भद्राणि पश्यति । 034a
संशयं पुनरारुह्य यदि जीवति पश्यति ॥ 034c
अनागतं विजानीयात्त्यजेद्भयमुपस्थितम् । 035a
पुनर्बुद्धिक्षयात्किञ्चिदनिवृत्तिं निशामयेत् ॥ 035c
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् । 036a
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥ 036c
योऽरिणा सह सन्धाय विश्वस्तः स्वपते सुखम् । 037a
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुध्यते ॥ 037c
कर्मणा येन केनेह मृदुना दारुणेन वा । 038a
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ 038c
ये सपत्नाः सपत्नानां सर्वांस्ताननुवर्तयेत् । 039a
आत्मनश्चापि बोद्धव्याश्चाराः सुमहिताः परैः ॥ 039c
चारः सुविहितः कार्य आत्मनोऽथ परस्य च । 040a
पाषण्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥ 040c
उद्यानेषु विहारेषु प्रपास्वावसथेषु च । 041a
पानागारे प्रवेशेषु तीर्थेषु च सभासु च ॥ 041c
धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः । 042a
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयीत च ॥ 042c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । 043a
विश्वासाद्भयमभ्येति नापरीक्ष्य च विश्वसेत् ॥ 043c
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना । 044a
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ॥ 044c
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितान् । 045a
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥ 045c
अवधानेन मौनेन काषायेण जटाजिनैः । 046a
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥ 046c
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् । 047a
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥ 047c
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । 048a
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ 048c
प्रत्युत्थानाभिवादाभ्यां सम्प्रदानेन केनचित् । 049a
प्रपूजयन्निघाती स्यात्तीक्ष्णतुण्ड इव द्विजः || 049c
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् । 050a
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥ 050c
नास्ति जात्या रिपुर्नाम मित्रं वाऽपि न विद्यते । 051a
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ 051c
न प्रमुञ्चेत दायादं वदन्तं करुणं बहु । 052a
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥ 052c
सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता । 053a
निग्रहश्चापि यत्नेन कर्तव्यो हितमिच्छता ॥ 053c
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् । 054a
असिनाऽपि शिरश्छित्त्वा शोचेत च रुदेत च ॥ 054c
निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया । 055a
आशाकरणमित्येतत्कर्तव्यं भूतिमिच्छता ॥ 055c
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत् । 056a
अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् । 056c
दन्ताश्च परिमृद्यन्ते रसश्चापि न लभ्यते ॥ 056e
त्रिवर्गे त्रिविधा पीडा अनुबन्धस्तथैव च । 057a
अनुबन्धं तथा ज्ञात्वा पीडां च परिवर्जयेत् ॥ 057c
ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च । 058a
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ 058c
ऋणशेषा विवर्धन्ते परिभूताश्च शत्रवः । 059a
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥ 059c
नासम्यक्कृत्यकारी स्यादप्रमत्तः सदा भवेत् । 060a
कण्टकोपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥ 060c
वधेन च मनुष्याणां मार्गाणां दूषणेन च । 061a
आकाराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥ 061c
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः । 062a
अनुद्विग्रः काकशङ्की भुजङ्गचरितं चरेत् ॥ 062c
शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् । 063a
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥ 063c
श्रेणीमुख्योपजापेषु वल्लभानुनयेषु च । 064a
अमात्यान्परिरक्षेत भेदसङ्घातयोरपि ॥ 064c
मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च । 065a
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥ 065c
मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम् । 066a
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ॥ 066c
काले मृदुर्यो भवति काले भवति दारुणः । 067a
स साधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥ 067c
पण्डितेन विरुद्धस्तु दूरस्थोऽस्मीति नाश्वसेत् । 068a
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ 068c
न तत्तरेद्यस्य न पारमुत्तरेन्न तद्धरेद्यत्पुनराहरेत्परः । 069a
न तत्खनेद्यस्य न मूलमुद्धरेन्न तं हन्याद्यस्य शिरो न पातयेत् ॥ 069c
इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् । 070a
परप्रयुक्तस्तु कथं विभावयेदतो मयोक्तं भवतो हितार्थिना ॥ 070c
भीष्म उवाच 071
यथावदुक्तं वचनं हितार्थिना निशम्य विप्रेण सुवीरराष्ट्रपः । 071a
तथाऽकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः ॥ 071c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥
12-140-2 घृणां दयाम् । तथा वर्तेत भूमिपः इति ट. ड. थ. द. पाठः ॥ 12-140-3 शत्रुञ्जयस्य च इति झ. पाठः ॥ 12-140-20 नानार्थिकः बहुप्रयोजनवान् । कृतघ्ने पुरुषे अर्थसम्बन्धं न समाचरेत् ॥ 12-140-21 वराहस्य श्रेयोमूलोत्खननम् । तच्च राजा शत्रूणां कुर्यात् । मेरोरचञ्चलत्वमनुल्लङ्घनीयत्वं च शून्यस्य वेश्मनः सम्पदागम इष्टस्तमिच्छेत् । व्यालस्य सर्पवदन्ध्यकोपत्वमिष्टं तमङ्गीकुर्यात् । नटस्य भक्तिमित्रस्य इति झ. पाठः । तत्र नटस्य नानारूपत्वमिष्टम् । एवं राजा स्निग्धप्रसन्नादीन् गुणान् बिभृयात् । भक्तिमित्रस्य स्वाराध्योदय इष्ट एवं स्वप्रतिपाल्यानां प्रजानामुदयो राज्ञा नित्यमेष्टव्य इत्यर्थः ॥ 12-140-25 बकादीनामेकाग्रत्वं निर्भयत्वं शीघ्रकारित्वमपरावृत्तित्वं च गुणास्तान् परार्थादाने राजाश्रयेदित्यर्थः ॥ 12-140-30 अश्वतरी गर्दभजाऽश्व उदरभेदेनैव प्रसूत इति प्रसिद्धम् ॥ 12-140-34 न संशयमनारुह्य इति झ. पाठः ॥ 12-140-40 पाषण्डाद्यैरविज्ञातैर्विदित्वारिं वशं नयेत् । इति ट. ड. थ. पाठः ॥ 12-140-47 कर्तव्या भृतिमिच्छता इति ट. पाठः । त्यक्तव्या भूतिमिच्छता इति ध. पाठः ॥ 12-140-56 शुष्क्रं लाभशून्यम् ॥ 12-140-57 त्रिवर्गः धर्मार्थकामाः तत्र त्रिविधा पीडा । धर्मेणार्थस्य पीडा अर्थेन धर्मस्य कामेन तयोरिति । अनुबन्धाः फलानि । धर्मस्यार्थः अर्थस्य कामः कामस्येन्द्रियप्रीतिरिति क्षुद्राः । धर्मस्य चित्तशुद्धिरर्थस्य यज्ञः कामस्य जीवनमात्रमिति प्राज्ञाः । तत्र बलाबलं ज्ञात्वाऽनुबन्धाल्ँलिप्सेत पीडां तु पारवर्जयेदेवेत्यर्थः । पीडां विद्वान्वशं नयेदिति ड. थ. पाठः ॥ 12-140-62 गृध्रदृष्टिर्गृध्रवत् दूरदर्शी । बकवदालीनो निश्चलः । श्वचेष्टः शुनकवज्जागरूकश्चोरसूचकश्च । काकवत् शङ्की परेङ्गितज्ञः । भुजङ्गचरितं अकस्मात्परकृते दुर्गादौ प्रवेशनम् ॥ 12-140-64 श्रेणीमुख्यः नानाजातियाः सन्त एककार्ये निविष्टाः श्रेणयस्तासां मुख्यस्य उपजापो भेदः वल्लभानां मित्राणामनुनयेषु अन्यैः कियमाणेषु अमात्यान्परिरक्षेत । भेदात्सङ्घातात्सम्भूयकार्यकारित्वाच्च । संहता ह्यामात्याः सद्यो राजानमराजानं कुर्युर्विपरीतं वा कुर्युरित्यर्थः ॥ 12-140-70 वृजिनाभिसंहितं आपत्कालाभिप्रायेणैवैतदुक्तं नत्वेतदेवं पुरुषः समाचरेत् । परेणाभियोगे कृते सति । इदं मदुक्तं कथं न भावयेत् अपितु भावयेदेव । आपदि एतदनुष्ठानादधर्मो नास्तीति भावः ॥