अध्यायः 139

भीष्मेण युधिष्ठिरम् प्रति पूजनीब्रह्मदत्तसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु । 001a
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥ 001c
विश्वासाद्धि परं राजन्राज्ञामुत्पद्यते भयम् । 002a
कथं हि नाश्वसन्राजा शत्रूञ्जयति पार्थिवः ॥ 002c
एतन्मे संशयं छिन्धि मनो मे सम्प्रमुह्यति । 003a
अविश्वासे कथामेतामुपाश्रित्य पितामह ॥ 003c
भीष्म उवाच 004
शृणुष्व राजन्यो वृत्तो ब्रह्मदत्तनिवेशने । 004a
पूजन्या सह संवादो ब्रह्मदत्तस्य भूपतेः ॥ 004c
काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी । 005a
पूजनी नाम शकुनिर्दीर्घकालं सहोषिता || 005c
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः । 006a
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि सा ॥ 006c
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् । 007a
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत ॥ 007c
तयोरर्थे कृतज्ञा तु खेचरी पूजनी सदा । 008a
समुद्रतीरं सा गत्वा आजहार फलद्वयम् ॥ 008c
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह । 009a
फलमेकं सुतायादाद्राजपुत्राय चापरम् ॥ 009c
अमृतास्वादसदृशं बलतेजोभिवर्धनम् । 010a
[आदायादाय सैवाशु तयोः प्रादात्पुनःपुनः ॥] 010c
ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात् । 011a
ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः ॥ 011c
ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः । 012a
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा ॥ 012c
शून्ये च तमुपादाय पक्षिणं समजातकम् । 013a
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः ॥ 013c
अथ सा पूजनी राजन्नागमत्फलहारिणी । 014a
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥ 014c
बाष्पपूर्णमुखी दीना दृष्ट्वा तं पतितं सुतम् । 015a
पूजनी दुःखसन्तप्ता रुदन्ती वाक्यमब्रवीत् ॥ 015c
क्षत्रिये सङ्गतं नास्ति न प्रीतिर्न च सौहृदम् । 016a
कारणे सान्त्वयन्त्येते कृतार्थाः सन्त्यजन्ति च ॥ 016c
क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु । 017a
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥ 017c
इयमस्य करोम्यद्य सदृशीं वैरयातनाम् । 018a
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥ 018c
सहसञ्जातवृद्धस्य तथैव सहभोजिनः । 019a
शरण्यस्य वधश्चैव त्रिविधं तस्य किल्बिषम् ॥ 019c
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा । 020a
हृत्वा खस्था तत इदं पूजनी वाक्यमब्रवीत् ॥ 020c
इच्छयेह कृतं पापं सद्य एवोपसर्पति । 021a
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम् ॥ 021c
पापं कर्म कृतं किञ्चिद्यदि तस्मिन्न दृश्यते । 022a
निपात्यतेऽस्य पुत्रेषु पौत्रेष्वपि च नप्तृषु ॥ 022c
ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम् । 023a
कृतप्रतिकृतं मत्वा पूजनीमिदमब्रवीत् ॥ 023c
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया । 024a
उभयं तत्समीभूतं वस पूजनि मा गमः ॥ 024c
पूजन्युवाच 025
सकृत्कृतापराधस्य तत्रैव परिलम्बतः । 025a
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥ 025c
सान्त्वे प्रयुक्ते विवृते वैरे चैव न विश्वसेत् । 026a
क्षिप्रं स हन्यते मूढो न हि वैरं प्रशाम्यति ॥ 026c
अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति । 027a
पुत्रपौत्रविनाशे च परलोकं नियच्छति ॥ 027c
सर्वेषां कृतवैराणामविश्वासः सुखावहः । 028a
एकान्ततो न विश्वासः कार्यो विश्वासघातके ॥ 028c
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । 029a
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति । 029c
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत् ॥ 029e
माता पिता बान्धवानां वरिष्ठौ भार्या क्षेत्रं बीजमात्रं तु पुत्रः । 030a
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य भोक्ता ॥ 030c
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते । 031a
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥ 031c
पूजितस्यार्थमानाभ्यां सान्त्वं पूर्वापकारिणः । 032a
हृदयं भवत्यविश्वस्तं कर्म त्रासयते बलात् ॥ 032c
पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना । 033a
जह्यात्स सत्ववान्वासं सम्मानितविमानितः ॥ 033c
उषिताऽस्मि तवागारे दीर्घकालमहिंसिता । 034a
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ॥ 034c
ब्रह्मदत्त उवाच 035
यः कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् । 035a
अनृणस्तेन भवति वस पूजनि मागमः ॥ 035c
पूजन्युवाच 036
न कृतस्य तु कर्तुश्च सख्यं सन्धीयते पुनः । 036a
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥ 036c
ब्रह्मदत्त उवाच 037
कृतस्य चैव कर्तुश्च सख्यं सन्धीयते पुनः । 037a
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥ 037c
पूजन्युवाच 038
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् । 038a
विश्वासाद्बध्यते लोकस्तस्माच्छ्रेयोप्यदर्शनम् ॥ 038c
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि । 039a
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥ 039c
ब्रह्मदत्त उवाच 040
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि । 040a
अन्योन्यस्य हि विश्वासः श्वानश्वपचयोरिव ॥ 040c
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् । 041a
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥ 041c
पूजन्युवाच 042
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः । 042a
स्त्रीकृतं वास्तुजं वाग्जं स्वसपत्नापराधजम् ॥ 042c
तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः । 043a
प्रकाशं वाऽप्रकाशं वा बुद्ध्वा दोषबलाबलम् ॥ 043c
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । 044a
प्रच्छन्नं तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥ 044c
न वित्तेन न पारुष्यैर्न च सान्त्वेन च श्रुतैः । 045a
वैराग्निः शाम्यते राजन्निमग्नोऽग्निरिवार्णवे ॥ 045c
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम् । 046a
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥ 046c
सत्कृतस्यार्थमानाभ्यां तत्र पूर्वापकारिणः । 047a
नैव शान्तिर्न विश्वासः कर्मणा जायते बलात् ॥ 047c
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् । 048a
उषितावाऽपि चक्रितं नेदानीं विश्वसाम्यहम् ॥ 048c
ब्रह्मदत्त उवाच 049
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः | 049a
कालेनैव प्रवर्तन्ते कः कस्येत्यपराध्यति ॥ 049c
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव हि । 050a
कार्यते चैव कालेन तन्निमित्तं न जीवति ॥ 050c
बध्यन्ते युगपत्केचिदेकैकं चापरे तथा । 051a
कालो दहति भूतानि सम्प्राप्तोऽग्निरिवेन्धनम् ॥ 051c
नाहं प्रमाणं नैव त्वमन्योन्यं कारणं शुभे । 052a
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम् ॥ 052c
एवं वसेह सस्नेहा यथाकाममहिंसिता । 053a
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि ॥ 053c
पूजन्युवाच 054
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् । 054a
कस्मादपचितिं यान्ति बान्धवा बान्धवे हते ॥ 054c
कस्माद्देवासुराः सर्वे अन्योन्यमभिजघ्निरे । 055a
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥ 055c
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः । 056a
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ 056c
प्रलापः सुमहान्कस्मात्क्रियते शोकमूर्च्छितैः । 057a
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥ 057c
तव पुत्रो ममापत्यं हतवान्हिंसितो मया । 058a
अनन्तरं त्वयाहं च बाधितव्या महीपते ॥ 058c
अहं हि पुत्रशोकेन कृतपापा तवात्मजे । 059a
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥ 059c
भक्षार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः । 060a
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥ 060c
वधबन्धभयादेके मोक्षतन्त्रमुपाश्रिताः । 061a
जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः ॥ 061c
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः । 062a
दुःखादुद्विजते सर्वं सर्वस्य सुखमीप्सितम् ॥ 062c
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः । 063a
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम् ॥ 063c
वैरबन्धकृतं दुःखं स्त्रीकृतं सहजं तथा । 064a
दुःखं दुःखेन सततं विवर्धति नराधिप ॥ 064c
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः । 065a
यो दुःखं नाभिजानाति स जल्पति महाजने ॥ 065c
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् । 066a
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे ॥ 066c
'भिन्ना श्लिष्टा न सज्यन्ते शस्त्रैः सुनिशितैरपि । 067a
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥' 067c
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् । 068a
न तद्वर्षशतैः शक्यं व्यपोहितुमरिन्दम ॥ 068c
आवयोः कृतमन्योन्यं तस्य सन्धिर्न विद्यते । 069a
स्मृत्वास्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥ 069c
वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति । 070a
मृण्मयस्येव भग्नस्य तस्य सन्धिर्न विद्यते ॥ 070c
निश्चयः स्वार्थशास्त्रेषु न विश्वासः सुखोदयः । 071a
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा ॥ 071c
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा । 072a
वध्यन्ते श्रद्दधाना हि मधु शुष्कतृणैरिव ॥ 072c
न हि वैराणि शाम्यन्ति कुलेष्वादशमाद्युगात् । 073a
आख्यातारश्च विद्यन्ते कुले चेज्जायते पुमान् ॥ 073c
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिपाः । 074a
अथैनं प्रतिहिंसन्ति पूर्णं घटमिवाश्मनि ॥ 074c
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् । 075a
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥ 075c
ब्रह्मदत्त उवाच 076
नाविश्वासाच्चिनोत्यर्थमीहते चापि किञ्चन । 076a
भयात्त्वेकतरं मित्रं कृतकृत्या भवत्विह ॥ 076c
पूजन्युवाच 077
यस्येह व्रणिनौ पादौ पद्भ्यां च परिधावतः । 077a
क्षिण्येते तस्य तौ पादौ सुगुप्तमपि धावतः ॥ 077c
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते । 078a
तस्य वायुरुजाऽत्यर्थं नेत्रयोर्भवति ध्रुवम् ॥ 078c
दुष्टं पन्थानमासाद्य यो मोहादभिपद्यते । 079a
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥ 079c
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः । 080a
हीनः पुरुषकारेण तस्य वै नाप्नुते फलम् ॥ 080c
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम् । 081a
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥ 081c
पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम् । 082a
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥ 082c
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् । 083a
उदात्तं कर्म वै तत्र दैवं क्लीबा उपासते ॥ 083c
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु । 084a
ग्रस्यतेऽकर्मशीलस्तु सदाऽनर्थैरकिञ्चनः ॥ 084c
तस्मात्संशयितव्येऽर्थे कार्य एव पराक्रमः । 085a
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ॥ 085c
विद्या शौचं च दाक्ष्यं च बलं शौर्यं च पञ्चमम् । 086a
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥ 086c
निवेशनं च कुप्यं च क्षेत्रं भार्यां सुहृज्जनम् । 087a
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥ 087c
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते । 088a
न विभीषयते किञ्चिद्भीषितो न बिभेति च ॥ 088c
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते । 089a
दाक्ष्येण कुर्वतां कर्मं संयमात्प्रतितिष्ठति ॥ 089c
गृहस्नेहावबद्धानां नराणामल्पमेधसाम् । 090a
कुस्त्री खादति मांसानि माघमां सेगवा इव ॥ 090c
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे । 091a
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥ 091c
उत्पथाच्च विमानाच्च देशाद्दुर्भिक्षपीडितात् । 092a
अन्यत्र वसतिं गच्छेद्वसेद्वा नित्यमानितः ॥ 092c
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे । 093a
कृतमेतदनाहार्यं तव पुत्रे च पार्थिव ॥ 093c
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् । 094a
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥ 094c
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः । 095a
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका ॥ 095c
कुपुत्रे सौहृदं नास्ति नित्यमस्थिरसौहृदम् । 096a
अवमानः कुस्बन्धे भवत्यर्थविपर्यये ॥ 096c
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः । 097a
तन्मित्रं यत्र विश्वासः स देशो यत्र जीवति ॥ 097c
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः । 098a
स च यौनाभिसम्बन्धो यः सतोऽपि बुभूषति ॥ 098c
भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः । 099a
एते सर्वे गुणवति धर्मनेत्रे महीपतौ ॥ 099c
अधर्मज्ञस्य विषये प्रजा नश्यन्ति निग्रहात् । 100a
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥ 100c
बलिषड्भागमुद्धृत्य फलं समुपयोजयेत् । 101a
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥ 101c
दत्वाऽभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् । 102a
स सर्वलोकादुपलभ्य पापमधर्मबुद्धिर्निरयं प्रयाति ॥ 102c
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि । 103a
स सर्वं सुखमाप्नोति प्रजा धर्मेण पालयन् ॥ 103c
पिता भ्राता गुरुः शास्ता वह्निर्वैश्रवणो यमः । 104a
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥ 104c
पिता हि राजा लोकस्य प्रजानां योऽनुकम्पिता । 105a
तस्मिन्मिथ्यापनीते हि तिर्यग्भवति मानवः ॥ 105c
सम्भावयति मातेव दीनमप्युपपद्यते । 106a
दहत्यग्निरिवानिष्टान्यमयत्यहितांस्तदा ॥ 106c
इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः । 107a
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् ॥ 107c
यस्तु रञ्जयते राजा पौरजानपदान्गुणैः । 108a
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् ॥ 108c
यः सम्यक्प्रतिगृह्णाति पौरजानपदार्चनम् । 109a
स सुखं प्रेक्षते राजा इह लोके परत्र च ॥ 109c
नित्योद्विग्नाः प्रजा यस्य करुभारप्रपीडिताः । 110a
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥ 110c
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् । 111a
स राजा सर्वसुखदः स्वर्गलोके महीयते ॥ 111c
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते । 112a
बलिना विग्रही तस्य कुतो राज्यं कुतः सुखम् ॥ 112c
भीष्म उवाच 113
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् । 113a
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम् ॥ 113c
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् । 114a
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ 114c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

12-139-6 जीवजीवकः शाकुनिकः । जीवजीवक इति पक्षिविशेष इत्यन्ये ॥ 12-139-7 अभिप्रजाता प्रसूतवती । देव्यां राजभार्यायाम् ॥ 12-139-13 समजातकं समानवयसम् ॥ 12-139-21 इच्छया बुद्धिपूर्वकम् । उपसर्पति फलरूपेण कर्तारम् ॥ 12-139-22 पापमपराधकृतमेनः ॥ 12-139-24 मागमः मास्मगमः ॥ 12-139-25 परिलम्बतः विश्वासं कुर्वतः ॥ 12-139-27 नियच्छति मृत्युर्नाशयति । ततो नष्टसन्ततित्वात्परलोकं च नियच्छति ॥ 12-139-30 भार्या जरेति झ. पाठः । जरा वीर्यहरत्वात् । बीजमात्रं प्रसवरूपत्वात् । शत्रुः रिक्थहरत्वात् । क्लिन्नपाणिः उपक्रियमाणः । धनादिना पूज्यमानमेव मित्रं नान्यदित्यर्थः ॥ 12-139-31 हेतुः पुत्ररक्षा स्नेहो वा ॥ 12-139-32 कर्म स्वकृतम् ॥ 12-139-36 अन्योन्यस्यापकारमुभावपि नित्यं स्मरत इत्यर्थः ॥ 12-139-39 न शक्यन्ते जेतुमिति शेषः ॥ 12-139-40 श्वपचश्चण्डालः । श्वमांसाहारोऽपि शुना सह सख्यमेति ॥ 12-139-42 वैरं स्त्रीकृतं कृष्णशिशुपालयोः वास्तु गृहादिकं स्थानं तज्जं कौरवपाण्डवानाम् । वाग्जं द्रोणद्रुपदयोः । सापत्नं जातिवैरं मूषकमार्जारयोः । अपराधजम् आवयोः ॥ 12-139-43 कृतवैरोऽपि दाताऽर्थादिना मानयिता अर्थाशावता राज्ञा न हन्तव्यः ॥ 12-139-46 वैराग्निः अदग्ध्वा न शाम्यत्यपराधजं कर्म एकतरक्षयाद्विना न शाम्यतीति योजना ॥ 12-139-50 कार्यते जायते । तन्निमित्तं कालनिमित्तम् । न जीवति म्रियते ॥ 12-139-53 क्षम क्षमस्व ॥ 12-139-57 कस्माद्धर्मोऽस्ति कर्तृषु । तदा विधिनिषेधकथा व्यर्था स्यादिति भावः ॥ 12-139-67 भिन्नक्रमा न सज्यन्त इति ध. पाठः ॥ 12-139-72 वैरिणो वाक्ये इति शेषः । शत्रुणा दर्शितं पुरःस्थितं मधु श्रद्दधानाः शुष्कतृणैश्छन्ने प्रपाते यथा पतन्ति तद्वदेते इत्यर्थः ॥ 12-139-76 सर्वथाऽनाश्वासे नृणां जीवनमेव न स्यादित्याह नेति ॥ 12-139-82 परिमाणमविज्ञाय इति ड. थ. पाठः ॥ 12-139-85 तस्मात्सर्वं व्यपोह्यार्थमिति झ. पाठः ॥ 12-139-87 कुप्यं ताम्रादि । चादकुप्यं स्वर्णरत्नादि । उपहितान्याहुरिति झ. पाठः । तत्र उपहितानि उपधिमित्राणीत्यर्थः ॥ 12-139-88 किञ्चित्तमिति शेषः ॥ 12-139-90 खादति । स्वापराधैस्तं सन्तापयति शुष्कं करोति । माघमां कर्कटीम् । सेगवास्तदपत्यानि । कर्कट्या नाशहेतुर्गर्भ एवेति प्रसिद्धम् ॥ 12-139-92 उत्पतेत्सहजाद्देशाद्द्व्याधिदुर्भिक्षपीडितादिति झ. पाठः ॥ 12-139-93 मे मया । अनाहार्यम् अपरिहार्यमित्यर्थः ॥ 12-139-98 भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषति इति झ. पाठः | तत्र यत्र देशे बलात्कारो नास्ति तत्र भीरे वनास्ति । यो राजा दरिद्रं जनं बुभूषति पालयितुमिच्छति स एव तेन सह पाल्यपालकभावलक्षणः सम्बन्ध इति योज्यम् । यं जनोऽपि बुभूषति इति ड. थ. पाठः ॥ 12-139-99 धर्मनेत्रो धर्मनेता ॥ 12-139-101 समुपयोजयेत् भक्षयेत् ॥ 12-139-102 अभयमिति च्छेदः ॥ 12-139-106 सम्भावयति इष्टं चिन्तयति । उपपद्यते पालयति ॥