अध्यायः 138
भीष्मेण युधिष्ठिरम् प्रति आपदि शत्रुणापि सन्धिकरणविषये दृष्टान्ततया मार्जारमूषिकचरितकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ । 001a
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥ 001c
तदिच्छामि परां बुद्धिं श्रोतुं ते भरतर्षभ । 002a
यथा राजा न मुह्येत शत्रुभिः परिपीडितः ॥ 002c
धर्मार्थकुशलं प्राज्ञं सर्वशास्त्रविशारदम् । 003a
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि ॥ 003c
शत्रुभिर्बहुभिर्ग्रस्तो यथा मुच्येत पार्थिवः । 004a
एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि ॥ 004c
विषमस्थं हि राजानं शत्रवः परिपन्थिनः । 005a
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥ 005c
सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः । 006a
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम् ॥ 006c
कथं मित्रमरिं चापि विन्देत भरतर्षभ । 007a
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥ 007c
अजातलक्षणे राजन्नमित्रे मित्रतां गते । 008a
कथं नु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत् ॥ 008c
विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत् । 009a
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि ॥ 009c
एतद्वै सर्वकृत्यानां परं कृत्यं नराधिप । 010a
नैतस्य कश्चिद्वक्ताऽस्ति श्रोता वाऽपि सुदुर्लभः ॥ 010c
ऋते पितामहाद्भीष्मात्सत्यसन्धाज्जितेन्द्रियात् । 011a
तदन्वीक्ष्य महाभाग सर्वमेतद्ब्रवीहि मे ॥ 011c
भीष्म उवाच 012
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः । 012a
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥ 012c
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति । 013a
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः ॥ 013c
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् । 014a
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥ 014c
सन्धातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः । 015a
अमित्रैरपि सन्धेयं प्राणा रक्ष्या हि भारत ॥ 015c
यो ह्यमित्रैर्नरैर्नित्यं न सन्दध्यादपण्डितः । 016a
न सोर्थं प्राप्नुयात्किञ्चित्फलान्यपि च भारत ॥ 016c
यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते । 017a
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥ 017c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 018a
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च ॥ 018c
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् । 019a
लताजालपरिच्छन्नो नानाद्विजगणायुतः ॥ 019c
स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः । 020a
अरण्यमभितो जातस्तरुर्व्यालमृगायुतः ॥ 020c
तस्य मूलमुपाश्रित्य कृत्वा शतमुखं बिलम् । 021a
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः ॥ 021c
शाखां तस्य समाश्रित्य वसति स्म सुखं तदा । 022a
लोमशो नाम मार्जारः सर्वसत्वावसादकः ॥ 022c
तत्र त्वागत्य चण्डालो ह्यरण्यकृतकेतनः । 023a
युयोज यन्त्रमुन्माथं नित्यमस्तङ्गते रवौ ॥ 023c
तत्र स्नायुमयान्पाशान्यथावत्संविधाय सः । 024a
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥ 024c
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः । 025a
कदाचिदत्र मार्जारः सम्प्रवृत्तो व्यवध्यत ॥ 025c
तस्मिन्बद्धे महाप्राणे शत्रौ नित्याततायिनि । 026a
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः ॥ 026c
तेनानुचरता तस्मिन्वने विश्वस्तचारिणा । 027a
भक्ष्यं मृगयमाणेन नचिराद्दृष्टमामिषम् ॥ 027c
स तमुन्माथमारुह्य तदामिषमभक्षयत् । 028a
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ॥ 028c
आमिषे तु प्रसक्तः स कदाचिदवलोकयन् । 029a
अपश्यदपरं घोरमात्मनो रिपुमागतम् ॥ 029c
शरप्रसूनसङ्काशं महीविवरशायिनम् । 030a
नकुलं हरिकं नाम चपलं ताम्रलोचनम् ॥ 030c
तेन मूषिकगन्धेन त्वरमाण उपागमत् । 031a
भक्ष्यार्थं लेलिहन्वक्त्रं भूमावूर्ध्वमुखः स्थितः ॥ 031c
शाखागतमरिं चान्यमपश्यत्कोटरालयम् । 032a
उलूकं चन्द्रकं नाम वक्त्रतुण्डं दुरासदम् ॥ 032c
गतस्य विषयं तस्य नकुलोलूकयोस्तथा । 033a
अथास्यासीदियं चिन्ता तत्प्राप्तस्य महद्भयम् ॥ 033c
आपद्यस्यां सुकष्टायां मरणे समुपस्थिते । 034a
समन्ताद्भय उत्पन्ने कथं कार्यं मनीषिणा ॥ 034c
तथा सर्वतो रुद्धः सर्वत्र भयकर्शितः । 035a
अभवद्भयसन्त्रस्तश्चक्रे च परमां मतिम् ॥ 035c
आपद्विनाशभूयिष्ठं शङ्कनीयं हि जीवितम् । 036a
समन्तात्संशयः सोऽयं तस्मादापदुपस्थिता ॥ 036c
गतं हि सहसा भूमिं नकुलो मामवाप्नुयात् । 037a
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसङ्क्षयात् ॥ 037c
न त्वेवास्मद्विधः प्राज्ञः सम्मोहं गन्तुमर्हति । 038a
करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहात् ॥ 038c
न हि बुद्ध्याऽन्वितः प्राज्ञो नीतिशास्त्रविशारदः । 039a
निमज्जत्यापदं प्राप्य महतोऽर्थानवाप्य ह ॥ 039c
न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम् । 040a
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया ॥ 040c
जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः । 041a
प्राणहेतोरिमं मित्रं मार्जारं संश्रयामि वै ॥ 041c
नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये । 042a
येनेमं शत्रुसङ्घातं मतिपूर्वेण वञ्चये ॥ 042c
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः । 043a
मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते ॥ 043c
कदाजिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह ॥ 044ac
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः । 045a
कार्य इत्याहुराचार्या विषमे जीवितार्थिना ॥ 045c
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः । 046a
अमित्रे खलु मार्जारे जीवितं सम्प्रतिष्ठितम् ॥ 046c
ततोऽस्मै सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे । 047a
अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत् ॥ 047c
एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम् ॥ 048ac
ततोऽर्थगतितत्त्वज्ञः सन्धिविग्रहकालवित् । 049a
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत् ॥ 049c
सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसे । 050a
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥ 050c
न ते सौम्य भयं कार्यं जीविष्यसि यथा पुरा । 051a
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ॥ 051c
अस्ति कश्चिदुपायोऽत्र पुष्कल प्रतिभाति मे । 052a
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयस्तथा मया ॥ 052c
मयाऽप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः । 053a
आत्मार्थं च त्वदर्थं च श्रेयः साधारणां हि नौ ॥ 053c
इदं हि नकुलोलूकं पापबुद्ध्या हि संस्थितम् । 054a
न धर्षयति मार्जार तेन ते स्वस्ति साम्प्रतम् ॥ 054c
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते । 055a
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे ॥ 055c
सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः । 056a
साहाय्यकं करिष्यामि नास्ति ते प्राणतो भयम् ॥ 056c
न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना । 057a
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि ॥ 057c
त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः । 058a
चिरोषितावुभावावां वृक्षेऽस्मिन्विदितं च ते ॥ 058c
यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित् । 059a
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ ॥ 059c
तस्माद्विवर्धतां प्रीतिर्नित्यं सङ्गतमस्तु नौ । 060a
कालातीतमिहार्थं हि न प्रशंसन्ति पण्डिताः ॥ 060c
अर्थयुक्तिमिमां तत्र यथाभूतां निशामय । 061a
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥ 061c
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् । 062a
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥ 062c
ईदृशो नौ क्रियायोगो भविष्यति सुविस्तरः । 063a
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि ॥ 063c
एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम् । 064a
हेतुमद्ग्रहणीयं च कालापेक्षी व्यतिष्ठत ॥ 064c
अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः । 065a
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥ 065c
बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्तयन् । 066a
स्वामवस्थां प्रतीक्ष्यैनं साम्नैव प्रत्यपूजयत् ॥ 066c
ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः । 067a
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रबीत् ॥ 067c
नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि । 068a
श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥ 068c
अहं हि भृशमापन्नस्त्वमापन्नतरो मया । 069a
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च ॥ 069c
विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः । 070a
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥ 070c
न्यस्तमानोस्मि भक्तोस्मि शिष्यस्त्वद्धितकृत्तथा । 071a
तथा निदेशवर्ती च भवन्तं शरणं गतः ॥ 071c
इत्येवमुक्तः पलितो मार्जारं वशमागतम् । 072a
वाक्यं हितमुवाचेदमभिजातार्थमर्थवित् ॥ 072c
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे । 073a
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥ 073c
अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम् । 074a
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव रक्षणे ॥ 074c
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् । 075a
अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे ॥ 075c
तद्वचः सङ्गतं श्रुत्वा लोमशो युक्तमर्थवत् । 076a
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥ 076c
तं सम्पूज्याथ पलितं मार्जारः सौहृदे स्थितम् । 077a
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च ॥ 077c
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा । 078a
तव प्राज्ञप्रसादाद्धि प्रियं प्राप्स्यामि जीवितम् ॥ 078c
यद्यदेवङ्गतेनाद्य शक्यं कर्तुं मया तव । 079a
तदाज्ञापय कर्तास्मि सिद्धिरेवास्तु नौ सखे ॥ 079c
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः । 080a
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च ॥ 080c
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते । 081a
प्रीतिमुत्पादयेयं न प्रतिकर्तुं च शक्नुयाम् ॥ 081c
प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः । 082a
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः ॥ 082c
भीष्म उवाच 083
एवमाश्वासितो विद्वान्मार्जारेण स मूषिकः । 083a
प्रविवेश सुविस्रब्धः सम्यगङ्गीचकार ह ॥ 083c
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा । 084a
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ॥ 084c
निलीनं तस्य गात्रेषु मार्जारस्याथ मूषिकम् । 085a
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम् ॥ 085c
तथैव तौ सुसन्त्रस्तौ दृढमागततन्द्रितौ । 086a
दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ ॥ 086c
बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ । 087a
अशक्तौ तु नयात्तस्मात्सम्प्रधर्षयितुं बलात् ॥ 087c
कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषिकौ । 088a
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम् ॥ 088c
लीनः स तस्य गात्रेषु पलितो देशकालवित् । 089a
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैःशनैः ॥ 089c
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम् । 090a
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥ 090c
तमत्वरन्तं पलितं पाशानां छेदने तदा । 091a
सञ्चोदयितुमारेभे मार्जारो मूषिकं ततः ॥ 091c
किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे । 092a
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ॥ 092c
इत्युक्तस्त्वरताऽनेन मतिमान्पलितोऽब्रवीत् । 093a
मार्जारमकृतप्रज्ञं तथ्यमात्महितं वचः ॥ 093c
तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः । 094a
वयमेवात्र कालज्ञा न कालः परिहास्यते ॥ 094c
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते । 095a
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ 095c
अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत् । 096a
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥ 096c
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् । 097a
ततश्छेत्स्यामि ते पाशान्प्राप्ते साधारणे भये ॥ 097c
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे । 098a
न हि ते जीवितादन्यत्किञ्चित्कृत्यं भविष्यति ॥ 098c
'तस्मिन्कालेऽपि च तथा दिवाकीर्तिभयार्दितः । 099a
मम न ग्रहणे शक्तः पलायनपरायणः ॥' 099c
ततो भवत्यपक्रान्ते त्रस्ते भीते च लुब्धकात् । 100a
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ॥ 100c
एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम् । 101a
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥ 101c
अथात्मकृत्ये त्वरितः सम्यक्प्रार्थितमाचरन् । 102a
उवाच लोमशो वाक्यं मूषिकं चिरकारिणम् ॥ 102c
नह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः ॥ 103ac
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया । 104a
तथा हि त्वरमाणेन त्वया कार्यमिदं मम । 104c
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ॥ 104e
अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि । 105a
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयो मम ॥ 105c
यदि किञ्चिन्मयाऽज्ञानात्पुरस्ताद्दुष्कृतं कृतम् । 106a
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे ॥ 106c
तमेवंवादिनं प्राज्ञं शास्त्रविद्बुद्धिसत्तमः । 107a
उवाचेदं वचः श्रेष्ठं मार्जारं मूषिकस्तदा ॥ 107c
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः । 108a
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः ॥ 108c
यन्मित्रं भीतवत्साध्यं यस्मिन्मित्रे भयं हितम् । 109a
आरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ॥ 109c
कृत्वा बलवता सन्धिमात्मानं यो न रक्षति । 110a
अपथ्यमिव तद्भुक्तं तस्यार्थाय कल्पते ॥ 110c
कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । 111a
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा ॥ 111c
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः । 112a
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते । 112c
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ 112e
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयार्दितः । 113a
मम न ग्रहणे शक्तः पलायनपरायणः ॥ 113c
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः । 114a
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश ॥ 114c
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः । 115a
क्षयं जगाम सा रात्रिर्लोमशं त्वागमद्भयम् ॥ 115c
ततः प्रभातसमये विकटः कृष्णपिङ्गलः । 116a
स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः ॥ 116c
शङ्कुकर्णो महावक्त्रः खनित्री घोरदर्शनः । 117a
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥ 117c
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः । 118a
उवाच पलितं भीतः किमिदानीं करिष्यसि ॥ 118c
तथैव च सुसन्त्रस्तौ तं दृष्ट्वा घोरसङ्कुलम् । 119a
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः ॥ 119c
बलिनौ मतिमन्तौ च सङ्घातं चाप्युपागतौ । 120a
अशक्तौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात् ॥ 120c
कार्यार्थे कृतसन्धी तौ दृष्ट्वा मार्जारमूषिकौ । 121a
उलूकनकुलौ तूर्णं जग्मतुः स्वंस्वमालयम् ॥ 121c
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषिकः । 122a
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् ॥ 122c
स तस्मात्सम्भ्रमान्मुक्तो मुक्तो घोरेण शत्रुणा । 123a
बिलं विवेश पलितः शाखां लेभे स लोमशः ॥ 123c
उन्माथमप्युपादाय चण्डालो वीक्ष्य सर्वशः । 124a
विहताशः क्षणेनैव तस्माद्देशादपाक्रमत् । 124c
जगाम स स्वभवनं चण्डालो भरतर्षभ ॥ 124e
ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् । 125a
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥ 125c
अकृत्वा संविदं काञ्चित्सहसा त्वमपस्रुतः । 126a
कृतज्ञः कृतकल्याणः कच्चिन्मां नाभिशङ्कसे ॥ 126c
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् । 127a
मित्रोपभोगसमये किं हि मां नोपसर्पसि ॥ 127c
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति । 128a
न स मित्राणि लभते कृच्छ्रात्स्वापत्सु दुर्मतिः ॥ 128c
सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मानः सखे । 129a
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥ 129c
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः । 130a
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥ 130c
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् । 131a
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥ 131c
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च । 132a
अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥ 132c
अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम् । 133a
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥ 133c
बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम् । 134a
त्वं मन्त्रबलयुक्तो हि दद्या विजयमेव मे ॥ 134c
एवमुक्तः परं सान्त्वं मार्जारेण स मूषिकः । 135a
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ॥ 135c
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् । 136a
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे ॥ 136c
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः । 137a
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसम्मतैः ॥ 137c
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः । 138a
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥ 138c
येषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः । 139a
सान्त्वितास्ते न बुध्यन्ते रागलोभवशङ्गताः ॥ 139c
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते । 140a
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ 140c
यो यस्मिञ्जीवति स्वार्थे पश्येत्पीडां न जीवति । 141a
स तस्य मित्रं तावत्स्याद्यावन्न स्याद्विपर्ययः ॥ 141c
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् । 142a
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा ॥ 142c
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये । 143a
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥ 143c
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु । 144a
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ॥ 144c
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः । 145a
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । 145c
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति ॥ 145e
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा । 146a
मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः ॥ 146c
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् । 147a
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥ 147c
सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्समनन्तरम् । 148a
कृत्यं मृगयते कर्तुं सुखोपायमसंशयम् ॥ 148c
अस्मिन्निलय एवं त्वं न्यग्रोधादवतारितः । 149a
पूर्वं निविष्टमुन्माथं चपलन्वान्न बुद्धवान् ॥ 149c
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति । 150a
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ 150c
ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति । 151a
तन्मिथ्याकारणं सर्वं विस्तरेणापि मे शृणु ॥ 151c
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् । 152a
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥ 152c
सख्यं सोदर्ययोर्भ्रात्रोर्दम्पत्योर्वा परस्परम् । 153a
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ॥ 153c
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे । 154a
स्वभावतस्ते प्रीयन्ते नेतरः प्राकृतो जनः ॥ 154c
प्रियो भवति दानेन प्रियवादेन चापरः । 155a
मन्त्रहोमजपैरन्यः कार्यार्थे प्रीयते जनः ॥ 155c
उत्पन्ना कारणात्प्रीतिरासीन्नौ कारणान्तरे । 156a
प्रध्वस्ते कारणस्थाने सा प्रीतिर्नाभिवर्तते ॥ 156c
किन्नु तत्कारणं मन्ये येनाहं भवतः प्रियः । 157a
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ॥ 157c
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते । 158a
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते । 158c
न त्वीदृशं त्वया वाच्यं विद्यते स्वार्थपण्डितः ॥ 158e
न कालो हि समर्थस्य स्नेहहेतुरयं तव । 159a
तस्मान्नाहं चले स्वार्थात्सुस्थितः सन्धिविग्रहे ॥ 159c
अभ्राणामिव रूपाणि विकुर्वन्ति पदेपदे । 160a
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत् । 160c
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ॥ 160e
आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा । 161a
सागता सह तेनैव कालयुक्तेन हेतुना ॥ 161c
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः । 162a
तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता ॥ 162c
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः । 163a
प्राविशेयं कथं पाशं त्वत्कृते तद्ब्रवीहि मे ॥ 163c
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् । 164a
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥ 164c
त्वं हि सौम्य कृतार्थोऽद्य निवृत्तार्थास्तथा वयम् । 165a
न तेऽस्त्यद्य मया कृत्यं किञ्चिदन्यत्र भक्षणात् ॥ 165c
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली । 166a
नावयोर्विद्यते सन्धिर्वियुक्ते विषमे बले ॥ 166c
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् । 167a
भक्ष्यं मृगयते नूनं सुखोपायमसंशयम् ॥ 167c
भक्षार्थी ह्येव सुव्यक्तो विमुक्तः प्रसृतः क्षुधा । 168a
शास्त्रजां मतिमास्थाय प्रातराशमिहेच्छसि ॥ 168c
जानामि क्षुधितं च त्वामाहारसमयश्च ते । 169a
स त्वं मामभिसन्धाय भक्ष्यं मृगयसे पुनः ॥ 169c
किञ्चात्र पुत्रदारार्थं यद्वाणीं सृजसे मयि । 170a
शुश्रूषां यतसे कर्तुं सखे मम न तत्क्षमम् ॥ 170c
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये । 171a
कस्मात्ते मां न खादेयुः स्पृष्ट्वा प्रणयिनि त्वयि ॥ 171c
नाहं त्वया समेष्यामि वृत्ते हेतुसमागमे । 172a
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मरसे यदि ॥ 172c
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च । 173a
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥ 173c
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे । 174a
[विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत् ॥] 174c
नाहं त्वया समेष्यामि निवृत्तो भव लोमश । 175a
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते ॥ 175c
यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय । 176a
प्रशान्तादपि हि प्राज्ञाद्भेतव्यं बलिनः सदा ॥ 176c
यदि त्वर्थेन ते कार्यं ब्रूहि किं करवाणि ते । 177a
कामं सर्वं प्रदास्यामि न त्वात्मानं कथञ्चन ॥ 177c
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च । 178a
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मवान् ॥ 178c
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि वर्तताम् । 179a
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥ 179c
न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते । 180a
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि ॥ 180c
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम् । 181a
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥ 181c
शत्रुं सम्यगविज्ञातो विप्रियो ह्यबलीयसा । 182a
'शङ्कनीयः स सर्वत्र प्रियमप्याचरन्सदा ॥ 182c
कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम् ।' 183a
न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतनिश्चया ॥ 183c
इत्यभिव्यक्तमेवासौ पलितेनापहासितः । 184a
मार्जारो व्रीडितो भूत्वा मूषिकं वाक्यमब्रवीत् ॥ 184c
सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः । 185a
सम्मन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ॥ 185c
उक्तवानर्थतत्त्वेन मया सम्भिन्नदर्शनः । 186a
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि ॥ 186c
प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम् । 187a
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोस्मि विशेषतः ॥ 187c
मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः । 188a
त्वं मामेवङ्गते साधो न वाचयितुमर्हसि ॥ 188c
त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः । 189a
धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु । 189c
पतनं धर्मतत्त्वज्ञ न मे शङ्कितुमर्हसि ॥ 189e
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः । 190a
मनसा भावगम्भीरं मार्जारमिदमब्रवीत् ॥ 190c
साधुर्भवान्कृतार्थोऽस्मि प्रिये च न च विश्वसे । 191a
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ॥ 191c
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे । 192a
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ॥ 192c
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा । 193a
समाहितश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत् ॥ 193c
न विश्वसेदवश्वस्ते विश्वस्ते नातिविश्चसेत् । 194a
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥ 194c
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः । 195a
द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवताम् ॥ 195c
सङ्क्षेपो नीतिशास्त्राणामविश्वासः परो मतः । 196a
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ॥ 196c
वध्यन्ते न ह्यविश्वस्ताः शत्रुर्भिर्दुर्बला अपि । 197a
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि शत्रुभिः ॥ 197c
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा । 198a
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥ 198c
स तस्य ब्रुवतस्त्वेवं सन्त्रासाज्जातसाध्वसः । 199a
कथां हित्वा जवेनाशु मार्जारः प्रययौ ततः ॥ 199c
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः । 200a
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ॥ 200c
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः । 201a
एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः ॥ 201c
अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः । 202a
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥ 202c
इत्येवं क्षत्रधर्मस्य मया मार्गो निदर्शितः । 203a
विस्तरेण महाराज सङ्क्षेपमपि मे शृणु ॥ 203c
अन्योन्यं कृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् । 204a
अन्योन्यमभिसन्धातुं सम्बभूव तयोर्मतिः ॥ 204c
तत्र प्राज्ञोऽभिसन्धत्ते सम्यग्बुद्धिबलाश्रयात् । 205a
अभिसन्धीयते प्राज्ञः प्रमादादपि वा बुधैः ॥ 205c
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसेत् । 206a
न ह्यप्रमत्तश्चलति चलितोऽवा न नश्यति ॥ 206c
काले हि रिपुणा सन्धिः काले मित्रेण विग्रहः । 207a
कार्य इत्येव तत्वज्ञाः प्राहुर्नित्यं नराधिप ॥ 207c
एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च । 208a
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ॥ 208c
भीतवत्संहितः कार्यः प्रतिसन्धिस्तथैव च । 209a
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ॥ 209c
न भयं जायते राजन्भीतस्यानागते भये । 210a
अभीतस्य च विस्रम्भात्सुमहज्जायते भयम् ॥ 210c
न भीरुरिति चात्यन्तं मन्त्रो देयः कथञ्चन । 211a
अविज्ञानाद्धि विज्ञाने गच्छेदास्पददर्शनम् ॥ 211c
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् । 212a
कार्याणां गुरुतां ज्ञात्वा नादृतं किञ्चिदाचरेत् ॥ 212c
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर । 213a
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुदाचर ॥ 213c
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा । 214a
सन्धिविग्रहकालौ च मोक्षोपायं तथाऽऽपदि ॥ 214c
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा । 215a
समागतश्चरेद्बुद्ध्या कृतार्थो न च विश्वसेत् ॥ 215c
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते । 216a
अभ्युत्तिष्ठ श्रुतात्तस्माद्भूयः संरञ्जयन्प्रजाः ॥ 216c
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव । 217a
ब्राह्मणाद्धि परं श्रेयो दिवि चेह च भारत ॥ 217c
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो । 218a
पूजिताः शुभकर्तारः पूजयैनाञ्जाधिप ॥ 218c
राज्यं श्रेयः परं राजन्यशश्च महदाप्स्यसे । 219a
कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् ॥ 219c
श्रुतं च ते भारत सन्धिविग्रहं विभावितं बुद्धिविशेषकारितम् । 220a
तथा त्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डलम् ॥ 220c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥
12-138-5 उद्धर्तुमुन्मूलयितुम् ॥ 12-138-6 सर्वतः सर्वदिक्स्थैः प्रार्थ्यमानेन ग्रसितुमिति शेषः ॥ 12-138-9 प्राकृतकृत्रिममित्रयोर्मध्ये केन सन्धिः कर्तव्यः केन वा वैरम् ॥ 12-138-18 व्यवस्य निश्चित्य अत्र पूर्वश्लोकोक्तेऽर्थे ॥ 12-138-20 वैराज्यमभिते जात इति ट. ड. थ. द. पाठः ॥ 12-138-23 उन्माथं कूटयन्त्रं पशुमृगपक्षिबन्धनम् ॥ 12-138-26 पलितो मूषिकः ॥ 12-138-28 तदामिषं तस्य उन्माथे धृतमामिषम् । सपत्नस्य सपत्नं बद्धम् अनादृत्य ॥ 12-138-30 शरस्तृणविशेषस्तत्प्रसूनं पुष्पम् ॥ 12-138-51 यदि मां न जिघांससि इति झ. द. पाठः ॥ 12-138-105 स्मरन्कालं चिकीर्षसीति थ. द. पाठः ॥ 12-138-160 पुनरद्यैव सौहृदमिति थ. द. ध. पाठः ॥