अध्यायः 137
भीष्मेण युधिष्ठिरम् प्रति अनागतापत्प्रतिविधाने दृष्टान्ततया मत्स्योपाख्यानकथनम् ॥ 1 ॥
भीष्म उवाच 001
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः । 001a
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥ 001c
अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम् । 002a
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये ॥ 002c
नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः । 003a
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥ 003c
तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः । 004a
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥ 004c
क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः । 005a
स्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥ 005c
प्रक्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे । 006a
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥ 006c
इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् । 007a
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति ॥ 007c
अनागतमनर्थं हि सुनयैर्यः प्रबाधते । 008a
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे ॥ 008c
दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम् । 009a
न तु कार्या त्वरा तावदिति मे निश्चिता मतिः ॥ 009c
अथ सम्प्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम् । 010a
प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते ॥ 010c
एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः । 011a
जगाम स्रोतसैकेन गम्भीरं सलिलाशयम् ॥ 011c
ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम् । 012a
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥ 012c
विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये । 013a
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः ॥ 013c
उद्दानं क्रियमाणं तु मत्स्यानां वीक्ष्य रज्जुभिः । 014a
प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् ॥ 014c
ग्रस्तमेव तदुद्दानं गृहीत्वा तत्तथैव सः । 015a
सर्वानेव च तांस्तत्र ते विदुर्ग्रथिता इति ॥ 015c
ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले । 016a
त्यक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं सम्प्रतिपत्तिमान् ॥ 016c
दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः । 017a
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥ 017c
एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते । 018a
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥ 018c
आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् । 019a
स हि संशयमाप्नोति यथा सम्प्रतिपत्तिमान् ॥ 019c
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः । 020a
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥ 020c
काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः । 021a
मासाः पक्षाः षडृतवः कालः संवत्सराणि च ॥ 021c
पृथिवी देश इत्युक्तः स च कालो न दृश्यते । 022a
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा ॥ 022c
एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः । 023a
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम् ॥ 023c
परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत् । 024a
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात् ॥ 024c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥
12-137-4 तत्रैको दीर्घकालज्ञ उत्पन्नप्रतिभोऽपरः इति झ. पाठः ॥ 12-137-5 विविधैर्मुखैर्जलनिर्गमनमार्गैः ॥ 12-137-11 सलिलाशयं जलाशयान्तरम् ॥ 12-137-14 उद्दानं ग्रथनम् अग्रसत् ग्रथनसूत्रं मुखेन जग्राहेत्यर्थः ॥ 12-137-15 सच मत्स्यः तथैव गृहीतवदेव तत्रास्ते इति शेषः ॥ 12-137-21 कालस्य देशस्य च सूक्ष्मताम् अवहितो जानीयादिति श्लोकद्वयार्थः ॥ 12-137-23 एतौ देशकालौ ॥