अध्यायः 136

भीष्मेण युधिष्ठिरम् प्रति कोशवृद्ध्यर्थमपहार्यानपहार्यधनविवेचनम् ॥ 1 ॥ भीष्म उवाच 001
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः । 001a
येन मार्गेण राजानः कोशं सञ्जनयन्त्युत ॥ 001c
न धनं यज्ञशीलानां हार्यं देवस्वमेव च । 002a
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥ 002c
इमाः प्रजाः क्षत्रियाणां रक्ष्या हन्याश्च भारत । 003a
धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ॥ 003c
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा । 004a
अभोज्याश्चौषधीश्छित्त्वा भोज्या एव पचन्त्युत ॥ 004c
यो वै न देवान्न पितॄन्न मर्त्यान्हविषाऽर्चति । 005a
अनर्थकं धनं तत्र प्राहुर्धर्मविदो जनाः ॥ 005c
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः । 006a
न हि न प्रीणयेल्लोकान्न लोको गर्हते नृपम् ॥ 006c
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति । 007a
आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः ॥ 007c
[तथातथा जयेल्लोकाञ्शक्त्या चैव यथायथा ।] 008a
औद्भिदा जन्तवो यद्वच्छ्रुत्वा वाजो यथातथा ॥ 008c
अनिमित्तात्सम्भवन्ति तथा यज्ञः प्रजायते । 009a
यथैव दंशमशकं यथा कीटपिपीलिकम् ॥ 009c
सैव वृत्तिर्हि यज्ञेषु यथा धर्मो विधीयते ॥ 010ac
यथा ह्यकस्माद्भवति भूमौ पांसुस्तृणोलपम् । 011a
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरः स्मृतः ॥ 011c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥

12-136-4 औषधीश्छित्त्वा ताभिरिन्धनीकृताभिर्भोज्या व्रीह्याद्याः । दुष्टान् हिंसित्वा साधून्पालयेदिति भावः ॥