अध्यायः 135
भीष्मेण युधिष्ठिरम् प्रति दस्युभावेऽपि शास्त्रमर्यादानुसारिणः परलोकप्राप्तौ दृष्टान्ततया कापच्यचरितोपन्यासः ॥ 1 ॥
भीष्म उवाच 001
अत्राप्युदाहन्तीममितिहासं पुरातनम् । 001a
यथा दस्युः समर्यादो दस्युत्वात्सिद्धिमाप्तवान् ॥ 001c
प्रहर्ता मतिमाञ्शूरः श्रुतवान्सुनृशंसवान् । 002a
अक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः ॥ 002c
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः । 003a
कापच्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥ 003c
अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता । 004a
विधिज्ञो मृगजातीनां नैषादानां च कोविदः ॥ 004c
सर्वकाननदेशज्ञः पारियात्रचरः सदा । 005a
धर्मज्ञः सर्ववर्णानाममोघेषुर्दृढायुधः ॥ 005c
अप्यनेकशतां सेनामेक एव जिगाय सः । 006a
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत् ॥ 006c
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि । 007a
सत्कृत्य भोजयामास सम्यक्परिचचार ह ॥ 007c
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् । 008a
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने ॥ 008c
येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया । 009a
तेषामासज्य गेहेषु कल्य एव स गच्छति ॥ 009c
तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे । 010a
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम् ॥ 010c
दस्यव ऊचुः 011
मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः । 011a
ग्रामणीर्भव नो मुख्यः सर्वेषामेव सम्मतः ॥ 011c
यथायथा वक्ष्यसि नः करिष्यामस्तथातथा । 012a
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥ 012c
कापच्य उवाच 013
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् । 013a
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥ 013c
सर्वथा स्त्री न हन्तव्या सर्वसत्वेषु बुध्यत । 014a
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥ 014c
सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः । 015a
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह ॥ 015c
सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति । 016a
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत् ॥ 016c
यस्य त्वेते सम्प्रदुष्टास्तस्य विद्यात्पराभवम् । 017a
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ॥ 017c
यो ब्राह्मणान्परिभवेद्विनाशं चापि रोचयेत् । 018a
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः ॥ 018c
इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः । 019a
येये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि ॥ 019c
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विधीयते । 020a
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥ 020c
ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन । 021a
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा ॥ 021c
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः । 022a
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः || 022c
भीष्म उवाच 023
ते सर्वमेवानुचक्रुः कापच्यस्यानुशासनम् । 023a
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥ 023c
कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् । 024a
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥ 024c
इदं कापच्यचरितं यो नित्यमनुचिन्तयेत् । 025a
नारण्येभ्योऽपि भूतेभ्यो भयमृच्छेत्कथञ्चन ॥ 025c
न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन । 026a
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥
12-135-3 कायव्यो नामेति झ. पाठः । कापव्यो नामेति ट. पाठः । काश्यपो नामेति ध. पाठः ॥ 12-135-4 निपातानां च कोविद इति ड. थ. ध. पाठः ॥ 12-135-5 पारियात्रः पर्वतविशेषः ॥ 12-135-9 आसज्य क्वचिन्निधाय । कल्ये प्रातः ॥ 12-135-13 मावधीस्त्वमित्येकवचनं गणाभिप्रायेण ॥ 12-135-14 स्वस्ति कल्याणं चिन्तनीयम् ॥ 12-135-15 सारो विवाहादिकार्यं तत्र विघ्नं मा कृथाः । सस्यं च नोपहन्तव्यं सीरविघ्नं च मा कृथाः इति ट. ड. थ. पाठः ॥ 12-135-16 अपचितिः पूजा ॥ 12-135-18 ध्वान्ते ध्वान्तस्य ॥ 12-135-19 ये ये वणिजः । नः अस्मभ्यम् ॥ 12-135-20 शिष्ट्यर्थं दुष्टानां शासनार्थम् ॥