अध्यायः 134

भीष्मेण युधिष्ठिरम् प्रति बलप्रशंसनम् ॥ 1 ॥ तथा पापकारिणां तत्परिहारोपायकथनम् ॥ 2 ॥ भीष्म उवाच 001
'अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।' 001a
अत्र कामन्दवचनं कीर्तयन्ति पुराविदः । 001c
प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ॥ 001e
तौ तु न व्यवधातव्यौ परोक्षा धर्मयातना । 002a
अधर्मो धर्म इत्येतद्यथा वृक्षफलं तथा ॥ 002c
धर्माधर्मफले जातु ददर्शेह न कश्चन । 003a
बुभूषेद्बलमेवैतत्सर्वं बलवतो वशे ॥ 003c
श्रियं बलममात्यांश्च बलवानिह विन्दति । 004a
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् ॥ 004c
बह्वपथ्ये बलवति न किञ्चित्क्रियते भयात् । 005a
उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् ॥ 005c
अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते । 006a
बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः ॥ 006c
धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते । 007a
अनीश्वरो बलं धर्मो द्रुमं वल्लीव संश्रिता ॥ 007c
वशे बलवतां धर्मः सुखं भोगवतामिव । 008a
नास्त्यसाध्यं बलवतां सर्वं बलवता जितम् ॥ 008c
दुराचारः क्षीणबलः परिमाणं न गच्छति । 009a
अथ तस्मादुद्विजते सर्वो लोको वृकादिव ॥ 009c
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् । 010a
जीवितं यदधिक्षिप्तं यथैव मरणं तथा ॥ 010c
यदेवमाहुः पापेन चारित्रेण विवक्षितम् । 011a
सुभृशं तप्यते तेन वाक्शल्येन परिक्षतः ॥ 011c
अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे । 012a
त्रयीं विद्यामुपासीत तथोपासीत वै द्विजान् ॥ 012c
प्रसादयेन्मधुरया वाचा चाप्यथ कर्मणा । 013a
महामनाश्चैव भवेद्विवहेच्च महाकुले ॥ 013c
इत्यस्तीति वदेदेव परेषां कीर्तयेद्गुणान् । 014a
जपेदुदकशीलः स्यात्पेशलो नातिजल्पकः ॥ 014c
ब्रह्म क्षत्रं सम्प्रविशेद्बहु कृत्वा सुदुष्करम् । 015a
उच्यमानो हि लोकेन बहु तत्तदचिन्तयन् ॥ 015c
उपप्राप्यैवमाचारं क्षिप्रं बहुमतो भवेत् । 016a
सुखं च वित्तं भुञ्जीत वृत्तेनैकेन गोपयेत् ॥ 016c
'अपि तेभ्यो मृगान्हत्वा नयेच्च सततं वने । 017a
यस्मिन्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।' 017c
लोके च लभते पूजां परत्रेह महत्फलम् ॥ 017e

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

12-134-2 यथा वृकपदं तथेति झ. द. पाठः ॥ 12-134-6 अति अतिशयितम् ॥ 12-134-10 अपध्वस्तः ऐश्वर्याच्च्युतः ॥ 12-134-12 अत्राधर्मेण धनार्जने कृते सति ॥