अध्यायः 133
भीष्मेण युधिष्ठिरम् प्रति राज्ञा यथाकथञ्चित्कोशवृद्धेः कर्तव्यत्वोक्तिः ॥ 1 ॥ तथा दस्युभिरापद्यपि सावशेषं परस्वापहारणस्य धर्म्यत्वोक्तिः ॥ 2 ॥
भीष्म उवाच 001
स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः । 001a
कोशाद्धि धर्मः कौन्तेय राज्यमूलं प्रवर्तते ॥ 001c
तस्मात्सञ्जनयेत्कोशं सत्कृत्य परिपालयेत् । 002a
परिपाल्यानुगृह्णीयादेष धर्मः सनातनः ॥ 002c
स कोशः शुद्धभावेन न नृशंसेन जायते । 003a
मध्यमं पदमास्थाय कोशसङ्ग्रहणं चरेत् ॥ 003c
अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् । 004a
अबलस्य कुतो राज्यमराज्ये श्रीर्भवेत्कुतः ॥ 004c
उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा । 005a
तस्मात्कोशं बलं मित्रमथ राजा विवर्धयेत् ॥ 005c
हीनकोशं हि राजानमवमन्यन्ति शत्रवः । 006a
न चास्याल्पेन तुष्यन्ति कर्मणाऽप्युत्सहन्ति च ॥ 006c
श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् । 007a
साऽस्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ॥ 007c
ऋद्धिमस्यानुतप्यन्ते पुरा विप्रकृता नराः । 008a
सालावृका इवाजस्रं जिघांसूनेव विन्दति | 008c
ईदृशस्य कुतो राज्यं सुखं भरतसत्तम ॥ 008e
उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् । 009a
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥ 009c
अप्यरण्यं समाश्रित्य चरेन्मृगगणैः सह । 010a
न त्वेवोद्रिक्तमर्यादैर्दस्युभिः सहितश्चरेत् ॥ 010c
दस्यूनां सुलभा सेना रौद्रकर्मसु भारत । 011a
एकान्ततो ह्यमर्यादात्सर्वोऽप्युद्विजते जनः ॥ 011c
दस्यवोऽप्यभिशङ्कन्ते निरनुक्रोशकारिणः ॥ 012ac
स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् । 013a
अल्पाप्यर्थेषु मर्यादा लोके भवति पूजिता ॥ 013c
नायं लोकोऽस्ति न पर इति व्यवसितो जनः । 014a
नालं गन्तुमिहाश्वासं नास्तिक्यभयशङ्कितैः ॥ 014c
यथा सद्भिः परादानमहिंसा दस्युभिस्तथा । 015a
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ॥ 015c
अयुध्यमानस्यादानं दारामर्शः कृतघ्नता । 016a
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ॥ 016c
स्त्रिया मोषः पथिस्थानं साधुष्वेव विगर्हितम् । 017a
सदोष एव भवति दस्युरेतानि वर्जयेत् ॥ 017c
अभिसन्दधते ये च विनाशायास्य भारत । 018a
सशेषमेवोपलभ्य कुर्वन्तीति विनिश्चयः ॥ 018c
तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः । 019a
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ॥ 019c
सशेषकारिणस्तत्र शेषं पश्यन्ति सर्वशः । 020a
निःशेषकारिणो नित्यं निःशेषकरणाद्भयम् ॥ 020c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥
12-133-5 उच्चैर्वृत्तेः महतः ॥ 12-133-7 वासः पापमिव स्त्रिय इति ट. ड. थ. पाठः ॥ 12-133-8 विप्रकृताः सालावृकवत् जिघांसूनेव विन्दन्ति आश्रयन्ति कपटेन हन्तुम् । आर्षो वचनव्यत्ययः ॥ 12-133-10 दस्युभिः दस्युप्रायैरमात्यैः ॥ 12-133-11 अत्यन्तापन्नस्य वनस्था दस्यवोऽपि कार्यकरा इत्याह दस्यूनामिति । दस्यूनां सुलभां सेनां रौद्रकर्मसु कारयेदिति ध. पाठः । तेष्वपि सत्येन मार्दवेन च स्थेयमित्याह एकान्तत इति ॥ 12-133-14 जनः प्राकृतः । अलं पर्याप्तं युक्तमित्यर्थः ॥ 12-133-15 सद्भिर्दस्युभिः परादानं परस्वहरणमपि कृतम् अहिंसा भवति तथा वक्ष्ये इति शेषः ॥ 12-133-16 निःशेषकरणं सर्वहरणम् ॥ 12-133-17 स्त्रिया कन्यायाः मोषश्चौर्यम् ॥ 12-133-19 यस्मादेवं तस्मात् सशेषमेव परलुम्पनं कर्तव्यम् ॥ 12-133-20 यो यथा करोति तथैव प्रजाः कुर्वन्तीत्याह सशेषेति ॥