अध्यायः 132
भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणानामापदि राज्ञा असाधुजनधनापहारेणापि तद्रक्षणस्य करणीयत्वोक्तिः ॥ 1 ॥
युधिष्ठिर उवाच 001
हीने परमके धर्मे सर्वलोकातिलङ्घने । 001a
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ॥ 001c
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते । 002a
असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह ॥ 002c
भीष्म उवाच 003
विज्ञानबलमास्थाय जीवितव्यं तथा गते । 003a
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन ॥ 003c
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति । 004a
आत्मानं सङ्क्रमं कृत्वा कृच्छ्रधर्मकृदेव सः ॥ 004c
अरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् । 005a
अदत्तमप्याददीत भ्रातुर्वित्तं ममेति वा ॥ 005c
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि । 006a
वृत्तिविज्ञानवान्धीरः कस्तं वक्तुमिहार्हति ॥ 006c
येषां बहुकृता बुद्धिस्तेषामन्या न रोचते । 007a
तेजसा ते प्रवर्तन्ते बलवन्तो युधिष्ठिर ॥ 007c
यदैव प्रकृतं शास्त्रं जनस्तदनुवर्तते । 008a
तदैवमध्यासेवन्ते मेधावी वाऽप्यथोत्तरम् ॥ 008c
ऋत्विक्पुरोहिताचार्यान्सत्कृतानभिसत्कृतान् । 009a
न ब्राह्मणान्घातयीत दोषान्प्राप्नोति घातयन् ॥ 009c
एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् । 010a
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥ 010c
बहवो ग्रामवास्तव्या दोषान्ब्रूयुः परस्परम् । 011a
न तेषां वचनाद्राजा सत्कुर्याद्घातयीत वा ॥ 011c
न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन । 012a
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ 012c
न सतां शीलमेतद्वै परिवादो न पैशुनम् । 013a
गुणानामेव वक्तारः सन्तो नित्यं युधिष्ठिर ॥ 013c
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ । 014a
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ॥ 014c
यथायथाऽस्य बहवः सहायाः स्युस्तथा चरेत् । 015a
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् ॥ 015c
अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः । 016a
अर्थे क्षीणेऽथवा लुब्धास्ते ब्रूयुर्वाक्यमीदृशम् ॥ 016c
आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य पातनम् । 017a
न चार्षात्सदृशं किञ्चित्प्रमाणं दृश्यते क्वचित् ॥ 017c
देवा ह्यपि विकर्मस्थं घातयन्ति नराधमम् । 018a
व्याजेन विन्दन्वित्तं हि धर्मतः परिहीयते ॥ 018c
सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः । 019a
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥ 019c
यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित् । 020a
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥ 020c
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् । 021a
लक्षेद्रुधिरपातेन तथा धर्मपदं नयेत् ॥ 021c
यथा सम्यग्वितेन पथा गन्तव्यमप्युत । 022a
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर ॥ 022c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥
12-132-1 हीने धर्मे राज्ञामिति शेषः । परमके सर्वोपायेन ब्राह्मणा रक्ष्या इत्यस्मिन् ॥ 12-132-2 जघन्ये आपद्बहुले ब्राह्मणः केन जीवेदित्यस्य ब्राह्मणं कथं रक्षेदित्यर्थः ॥ 12-132-3 साध्वर्थं सनातनम् ॥ 12-132-4 सङ्क्रममागमनमार्गम् ॥ 12-132-5 स्थितिं पालनधर्मम् । स्थानभ्रष्टस्य राज्ञो ब्राह्मणपालनार्थं सर्वस्वहरणेऽपि दोषो नास्तीत्यर्थः ॥ 12-132-6 वक्तुं निन्दितुम् ॥ 12-132-9 अत्यन्तापद्यपि ऋत्विगादीन् धनवतोऽपि न घातयीत धनहरणेन न हिंस्यादित्यर्थः । पुरोहिताचार्यैः सत्कृतैरपि सत्कृतः । नाऽब्राह्मणान्याजयीत दोषान्प्राप्नोति याजयन्निति ट. थ. द. पाठः ॥ 12-132-11 ग्रामवास्तव्या ग्रामवासिनः ॥ 12-132-16 एवं ऋत्विगादीनामदण्डनं शङ्खेन लिखितस्य भ्रातुरपि हस्तच्छेदः कृतस्तादृशधर्मपराः ॥ 12-132-19 सद्भिर्मन्वादिभिः सत्कृतः । भूतिप्रवरकारणैः भूतिप्रवरा ईश्वराः कारणानि पारम्पर्यागतानि कुलदेशग्रामादिपरिगृहीतानि तैरपि निमित्तैः सत्कृतः । मन्वादिभिरनुक्तोऽपि शिष्टैरादृत इत्यर्थः । हृदयेनाभ्यनुज्ञातः हेतुद्वयाभावेऽपि स्वयं च यो धर्मत्वेन निश्चितः ॥ 12-132-20 चत्वारो गुणाः आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति । य एषामविरुद्धश्चतुर्गुणसम्पन्नः ॥ 12-132-21 पदं स्थानं लक्षेल्लक्षयेत् । नयेत् अन्यान्प्रापयेत् । युक्त्येति शेषः ॥