अध्यायः 131
भीष्मेण युधिष्ठिरम् प्रति आपदि राज्ञा सर्वस्वत्यागेनाप्यात्मनो रक्षणीयत्वकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु । 001a
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत ॥ 001c
विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च । 002a
असम्भावितमित्रस्य भिन्नामात्यस्य सर्वतः ॥ 002c
परचक्राभियातस्य दुर्बलस्य बलीयसा । 003a
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥ 003c
भीष्म उवाच 004
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः । 004a
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत् ॥ 004c
[योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः ।] 005a
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥ 005c
अपास्य राजधानीं वा तरेदन्येन वाऽऽपदम् । 006a
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥ 006c
यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः । 007a
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥ 007c
अपराधाज्जुगुप्सेत का सपत्नधने दया । 008a
न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ॥ 008c
युधिष्ठिर उवाच 009
आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते । 009a
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते ॥ 009c
भीष्म उवाच 010
क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रम । 010a
यदाऽपनयनं क्षिप्रमेतद्वै साम्परायिकम् ॥ 010c
अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः । 011a
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥ 011c
हतो वा दिवमारोहेद्धत्वा वा सुखमावहेत् । 012a
युद्धे हि सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥ 012c
सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च । 013a
विश्वासाद्विनयं कुर्यात्सञ्जह्याद्वाऽप्युपानहौ ॥ 013c
अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन् । 014a
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥ 014c
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥
12-131-1 सानुक्रोशस्य बन्धुक्षयभयात् योद्धुमनिच्छतः । परिशङ्कितमुख्यस्य अमात्येषु शङ्कावतः ॥ 12-131-2 द्रव्याभावादेव न सम्भावितानि आवर्जितानि मित्राणि येन तस्य भिन्नाः शत्रुभिर्वशीकृता अमात्या यस्य ॥ 12-131-3 बलीयसा शत्रुणा आपन्नं व्याकुलीकृतं चेतो यस्य ॥ 12-131-4 मोक्षयेत् साम्नैवेत्यर्थः ॥ 12-131-5 अधर्मप्रधानो विजिगीषुरधर्मविजिगीषुः ॥ 12-131-7 दुष्टतमे तु राज्यधनं त्यक्त्वा आत्मानं रक्षेदित्याह यास्त्विति । यास्तु स्युः केवलत्यागादिति ड. थ. पाठः ॥ 12-131-9 आभ्यन्तरेऽमात्यादौ बाह्ये दुर्गराष्ट्रादौ ॥ 12-131-10 धर्मिष्ठे बाह्ये क्षिप्रं सन्धिः । अधर्मिष्ठे तु तीक्ष्णः पराक्रमः कर्तव्यः । यदा त्वेवं तदा अपनयनं शत्रोर्दूरीकरणं भवति । अथवा साम्परायिकं धर्मयुद्धेन मरणे परलोकहितं भवति ॥ 12-131-13 विश्वासात् विश्वासं प्रापय्य विक्यं कुर्यात् मृदुर्भवेत् । नतु युद्धमेव हठेन श्रयेत् ॥