अध्यायः 130

भीष्मेण युधिष्ठिरम् प्रति राज्ञा ब्रह्मस्ववर्जम् आपदि प्रजापीडनेनापि कोशवृद्धेरवश्यं कर्तव्यत्वोक्तिः ॥ 1 ॥ युधिष्ठिर उवाच 001
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः । 001a
राज्ञः सङ्क्षीणकोशस्य बलहीनस्य भारत ॥ 001c
दुष्टामात्यसहायस्य श्रुतमन्त्रस्य सर्वतः । 002a
राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ॥ 002c
परचक्राभियातस्य परराष्ट्राणि मृद्नतः । 003a
विग्रहे वर्तमानस्य दुर्बलस्य बलीयसा ॥ 003c
असंविहितराष्ट्रस्य देशकालावजानतः । 004a
अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात् । 004c
जीवितं त्वर्थहेतोर्वा तत्र किं सुकृतं भवेत् ॥ 004e
भीष्म उवाच 005
गुह्यां मा धर्ममप्राक्षीरतीव भरतर्षभ । 005a
प्रवक्तुं नोत्सहे पृष्टो धर्ममेतं युधिष्ठिर ॥ 005c
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ । 006a
श्रुत्वौपम्यं सदाचारैः साधुर्भवति स क्वचित् ॥ 006c
कर्मणा बुद्धिपूर्वेण भवत्याढ्ये न वा पुनः । 007a
तादृशोऽयमनुप्रश्नस्तद्ध्यायस्व स्वया धिया ॥ 007c
उपायं धर्मबहुलं यात्रार्थं शृणु भारत । 008a
नाहमेतादृशे धर्मे बुभूषे धर्मकारणात् ॥ 008c
दुःखादान इह ह्येष स्यात्तु पश्चात्क्षमो मम । 009a
अभिगम्य मतीनां हि सर्वासामेव निश्चयम् ॥ 009c
यथायथा हि पुरुषो नित्यं शास्त्रमवेक्षते । 010a
तथातथा विजानाति विज्ञानं चास्य रोचते ॥ 010c
अविज्ञानादयोगो हि पुरुषस्योपजायते । 011a
विज्ञानादपि योगश्च योगो भूतिकरः परः ॥ 011c
अशङ्कमानो वचनमनसूयुरिदं शृणु । 012a
राज्ञः कोशक्षयादेव जायते बलसङ्क्षयः ॥ 012c
कोशं सञ्जनयेद्राजा नित्यमेभ्यो यथाबलम् । 013a
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम् ॥ 013c
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः । 014a
अन्यो धर्मः समर्थानामापत्स्वल्पश्च भारत ॥ 014c
प्रकार्यं प्रोच्यते धर्मो वृत्तिर्धर्मे गरीयसी । 015a
धर्मं प्राप्य यथान्यायं न बलीयान्निषीदति ॥ 015c
यस्माद्धर्मस्योपचितिरेकान्तेन न विद्यते । 016a
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ॥ 016c
अधर्मो जायते तस्मिन्निति वै कवयो विदुः । 017a
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते ॥ 017c
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा । 018a
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥ 018c
सर्वात्मनैव धर्मस्य न परस्य न चात्मनः । 019a
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥ 019c
तत्र धर्मविदस्तात निश्चयो धर्मनैपुणैः । 020a
उद्यमं जीवनं क्षात्रे बाहुवीर्यादिति श्रुतिः ॥ 020c
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति । 021a
अन्यत्र तापसस्वाच्च श्रोत्रियस्वाच्च भारत ॥ 021c
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् । 022a
अभोज्यमपि चाश्नीयात्तत्रेदं नात्र संशयः ॥ 022c
पीडितस्य किमद्वारमुत्पथेनार्दितस्य च । 023a
अद्वारतः प्रद्रवति यथा भवति पीडितः ॥ 023c
तस्य कोशबलग्लान्यां सर्वलोकपराभवः । 024a
भैक्षचर्या न विहिता न च विट्शूद्रजीविका ॥ 024c
स्वधर्मानन्तरावृत्तिर्याऽन्यामनुपजीवतः । 025a
जहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥ 025c
आपद्गतेन धर्माणामन्यायेनोपजीवनम् । 026a
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥ 026c
क्षत्रिये संशयः कस्मादित्येन्निश्चितं सदा । 027a
आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन ॥ 027c
आर्तानां रक्षितारं च प्रजानां क्षत्रियं विदुः । 028a
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥ 028c
अन्यत्रापि विहिंसाया वृत्तिर्नेहास्ति कस्यचित् । 029a
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥ 029c
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् । 030a
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ॥ 030c
परस्पराभिहरणं राज्ञा राष्ट्रेण चापदि । 031a
नित्यमेव हि कर्तव्यमेष धर्मः सनातनः ॥ 031c
राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति । 032a
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ॥ 032c
कोशं दण्डं बलं मित्रं यदन्यदपि सञ्चितम् । 033a
न कुर्वीतान्तरं राष्ट्रे राजा परिगतः क्षुधा ॥ 033c
बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः । 034a
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ॥ 034c
धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति । 035a
अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि ॥ 035c
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् । 036a
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ॥ 036c
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् । 037a
तदर्थं पीडयित्वा च न दोषं प्राप्तुमर्हति ॥ 037c
अकार्यमपि कार्यार्थं क्रियते यज्ञकर्मसु । 038a
एतस्मिन्कारणे राजा न दोषं प्राप्तुमर्हति ॥ 038c
अर्थार्थमन्यद्भवति विपरीतमथापरम् । 039a
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम् । 039c
एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् ॥ 039e
यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथाः परः । 040a
यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधकम् ॥ 040c
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् ॥ 041ac
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः । 042a
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि ॥ 042c
ते चापि निपतन्तोऽन्यान्निघ्नन्त्यपि वनस्पतीन् । 043a
एवं कोशस्य महतो ये नराः परिपन्थिनः । 043c
तानहत्वा न पश्यामि सिद्धिमत्र परन्तप ॥ 043e
धनेन जयते लोकमिमं चामुं च भारत । 044a
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥ 044c
सर्वोपायैराददीत धनं यज्ञप्रयोजनम् । 045a
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥ 045c
नोभौ सम्भवतो राजन्कथञ्चिदपि भारत । 046a
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥ 046c
यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन । 047a
ममेदं स्यान्ममेदं स्यादित्येवं मन्यते जनः ॥ 047c
न च राज्ञः समो धर्मः कश्चिदस्ति कथञ्चन । 048a
धर्मः संशब्दितो राज्ञामापदर्थस्ततोऽन्यथा ॥ 048c
ज्ञानेन कर्मणा चान्ये तपन्त्यन्ये तपस्विनः । 049a
बुद्ध्या दाक्ष्येण चैवान्ये चिन्वन्ति धनसञ्चयान् ॥ 049c
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् । 050a
सर्वं बलवतः प्राप्यं सर्वं तरति कोशवान् ॥ 050c
कोशो धर्मश्च कामश्च परलोकस्तथा ह्ययम् । 051a
तं धर्मेण विलिप्सेत नाधर्मेण कदाचन ॥ 051c

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां शान्तिपर्वणि राजधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥ समाप्तं च राजधर्मपर्व ॥ 1 ॥

12-130-2 सर्वतः सर्वैः ॥ 12-130-3 परस्य चक्रं राष्ट्रं प्रत्यभियातस्य । बलीयसा सार्धम् ॥ 12-130-4 असंविहितमसम्यग्रक्षितं राष्ट्रं येन तस्य । अतिपीडनात् परकीयामात्यादीनां भेदोऽप्यप्राप्यः ॥ 12-130-5 मा मामप्राक्षीः पृष्टवानसि । गुह्यं धर्मज मा प्राक्षीरतीव भरतर्षभ । अपृष्टो नोत्सहे वक्तुं धर्ममेतं युधिष्ठिरेति झ. पाठः ॥ 12-130-6 वचनाच्छास्त्रात् ॥ 12-130-8 यात्रार्थं राज्ञां व्यवहारनिर्वाहार्थम् । बुभूषे प्राप्तुमिच्छामि ॥ 12-130-9 एष उपायो दुःखादानः प्रजानां दुःखेनाऽऽदीयतेङ्गीक्रियते ॥ 12-130-11 अयोग उपायाभावः ॥ 12-130-13 अनुगृह्णीयात् प्राक्कर्षिताः प्रजा इति शेषः ॥ 12-130-14 उपायधर्ममुपधर्मम् । अमुख्यधर्ममितियावत् ॥ 12-130-17 अनन्तरम् आपन्निवृत्त्युत्तरं तत्र पूर्वोक्ताधर्मे किं विचिकित्स्यते प्रायश्चित्तादिकं कराग्रहणादिकं च विधीयते दोषपरिहारार्थमित्यर्थः ॥ 12-130-19 धर्मस्येति कर्मणिषष्ठी । परस्य धर्मं नोज्जिहीर्षेत्राप्यात्मनो धर्ममुज्जिहीर्षेदपि तु आत्मानमेव उज्जिहीर्षेत् । स्वपरधर्मलोपेऽप्यात्मानमेवोद्धर्तुमिच्छेदित्यर्थः ॥ 12-130-30 शङ्खे ललाटास्थ्नि छिखितां वृत्तिम् । दिष्टमात्रालम्बिना राज्ञा जीवितुं न शक्यम् ॥ 12-130-33 अन्तरं दूरतः ॥ 12-130-34 बीजभक्तेन सम्पादितं चेदग्रे भक्तदौर्बल्यं यथाभवति एवमल्पधनो राजा प्रजाभिर्न रक्षितो नश्यति । नष्टे च तस्मिन्सर्वाः प्रजा अपि नश्यन्तीत्यर्थः । एतत्पूर्वार्धोक्तं दर्शनं शास्त्रम् ॥ 12-130-35 अवृत्त्या जीविकाया अभावेन यस्य राष्ट्रम् अवसीदति यो वा अमनुष्यः यो वा वैदेशिको देशान्तरोपजीवी तस्य राज्ञो जीवीतं धिक् ॥ 12-130-36 राज्ञो मूलं कोशो बलं च । कोशो बलस्य मूलं तद्बलं धर्माणां मूलम् । अतः सर्वस्य मूलभूतं कोशं वर्धयेत् ॥ 12-130-39 अन्यत् आपदि प्रजापीडनमप्यर्थार्थं भवति । अपरम् अपीडनं विपरीतम् अनर्थार्थं भवति । यदप्यन्यत् अनर्थार्थम् अर्थाभावार्थं कुञ्जरपालनादि भवति तदेवेहार्थस्य कारणम् उत्पादकं भवति ॥ 12-130-40 यथा पश्वादिकं यज्ञार्थं यज्ञश्च चित्तसंस्कारार्थः । पश्वादिकं यज्ञः संस्कारश्चेति त्रयम् अर्थार्थं मोक्षार्थं भवति । एवं दण्डः कोशार्थं कोशो बलार्थं बलं शत्रुपराभवार्थम् । कोशो बलं जयश्चेति त्रयं राष्ट्रपुष्ट्यर्थमिति भावः ॥ 12-130-42 सामन्ताः प्रतिपक्षभूताः ॥ 12-130-44 यथा नास्त्यधनस्तथेति जीवन्मृतत्वमधनस्योक्तम् ॥ 12-130-45 कार्याकार्येषु विहितनिषिद्धेषु आपदि प्रजापीडनं विहितं तदेवानापदि निषिद्धम् । तथाभूतेष्वर्थेषु तुल्यदोषो न स्याद्देशकालानुसारेण कार्यमप्यकार्यं भवत्यकार्यमपि कार्यं भवति तत्र विपरीतं न प्रतिपद्येतेति भावः ॥ 12-130-46 उभौ धनसङ्ग्रहत्यागावेकस्मिन्पुरुषे न सम्भवतः ॥ 12-130-47 अन्येषु त्यागार्थसम्भवमाह यदिदमिति ॥ 12-130-48 न च राज्यसमो धर्म इति झ. पाठः । अनापद्येव राज्ञो बहुकरादानं पापमूलमापदि तु न तत्तथा भवतीत्यर्थः ॥