अध्यायः 129
यमेन गौतमम् प्रति मातापित्रोः परिचर्यायास्तदृणापनोदनोपायत्वकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि । 001a
[यथाहि स्वात्मवृत्तिस्थस्तथा तृप्तोऽस्मि भारत ॥] 001c
तस्मात्कथय भूयोऽपि त्वं ममेह पितामह । 002a
[न हि तृप्तिमहं यामि पिबन्धर्मामृतं हि ते ॥] 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
गौतमस्य च संवादं यमस्य च महात्मनः ॥ 003c
पारियात्रं गिरिं प्राप्य गौतमस्याश्रमो महान् । 004a
वसते गौतमो यत्र तपसा दग्धकिल्बिषः ॥ 004c
पृष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः । 005a
तमुग्रतपसा युक्तं भावितं सुमहामुनिम् ॥ 005c
उपयातो नरव्याघ्र लोकपालो यमस्तदा । 006a
तमपश्यत्सुतपसमृषिं वै गौतमं तदा ॥ 006c
स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा । 007a
प्राञ्जलिः प्रणतो भूत्वा उपसृप्तस्तपोधनः ॥ 007c
तं धर्मराजो दृष्ट्वैव नमस्कृत्य द्विजोत्तमम् । 008a
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् ॥ 008c
गौतम उवाच 009
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् । 009a
कथं च लोकानाप्नोति पुरुषो दुर्लभाञ्शुभान् ॥ 009c
यम उवाच 010
तपः शौचवता नित्यं सत्यधर्मरतेन च । 010a
मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥ 010c
अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः । 011a
तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान् ॥ 011c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥
12-129-1 पर्याप्तिरलम्भावस्तृप्तिरिति यावत् ॥ 12-129-8 न्यमन्त्रयत तं सम्मुखीकृतवान् ॥ 12-129-11 अश्वमेधैरिति स्वधर्ममात्रस्योपलक्षणम् ॥