अध्यायः 128
कृशेन मुनिना वीरद्युम्ननृपम् प्रति दुर्लभवस्तुनः कृशतराशायाश्च प्रतिपादनम् ॥ 1 ॥
राजोवाच 001
वीरद्युम्न इति ख्यातो राजाऽहं दिक्षु विश्रुतः । 001a
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ 001c
एकः पुत्रः स विप्राग्र्य बाल एव च सोऽनघः । 002a
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ 002c
ऋषभ उवाच 003
इत्युक्ते तेन वचने राज्ञा मुनिरधोमुखः । 003a
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ 003c
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः । 004a
आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः ॥ 004c
प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन । 005a
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ 005c
आशा हि पुरुषं बालमालापयति तस्थुषी । 006a
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः । 006c
[वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम् ॥] 006e
राजोवाच 007
आशायाः किञ्च वृत्तं वै किञ्चेह भुवि दुर्लभम् । 007a
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ 007c
ऋषभ उवाच 008
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् । 008a
राजानं भगवान्विप्रस्ततः कृशतनुस्तदा ॥ 008c
ऋषिरुवाच 009
कृशत्वेन समं राजन्नाशाया विद्यते नृप । 009a
तस्या वै दुर्लभत्वाच्च प्रार्थितः पार्थिवो मया ॥ 009c
राजोवाच 010
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव । 010a
दुर्लभत्वं च तस्यैव वेदवाक्यमिवाद्विजे ॥ 010c
संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम । 011a
तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ 011c
त्वत्तः कृशतरं किन्नु ब्रवीतु भगवानिदम् । 012a
यदि गुह्यं न ते विप्र लोके किञ्चेह दुर्लभम् ॥ 012c
कृश उवाच 013
दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात् । 013a
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ 013c
सत्कृत्य नोपक्रियते परं शक्त्या यथार्थतः । 014a
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया ॥ 014c
कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च । 015a
अपकारिषु चासक्ता साऽऽशा कृशतरी मया ॥ 015c
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा । 016a
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मता ॥ 016c
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता । 017a
तथा नरेन्द्र धनिनां साऽशा कृशतरी मता ॥ 017c
प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते । 018a
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मता ॥ 018c
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः । 019a
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ 019c
राजोवाच 020
प्रसादये त्वां भगवन्पुत्रेणेच्छामि सङ्गमम् । 020a
यदेतदुक्तं भवता सम्प्रति द्विजसत्तम || 020c
वृणीष्व च वरान्विप्र यानिच्छसि यथाविधि । 021a
अब्रवीच्चैव तद्वाक्यं राजा राजीवलोचनः ॥ 021c
सत्यमेतत्त्वया विप्र यथोक्तं नान्यथा मृषा ॥ 022ac
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः । 023a
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ 023c
स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम् । 024a
आत्मानं दर्शयामास धर्मं धर्मभृतांवरः ॥ 024c
स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् । 025a
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ 025c
एतदृष्टं मया राजंस्त्वत्तश्च वचनं श्रुतम् । 026a
आशामपनय त्वाशु ततः कृषतरीमिमाम् ॥ 026c
भीष्म उवाच 027
स तथोक्तस्तदा राजन्नृषभेण महात्मना । 027a
सुमित्रोऽपानयत्क्षिप्रमाशां कृशतरीं ततः ॥ 027c
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम । 028a
स्थिरो भव महाराज हिमवानिव निश्चलः ॥ 028c
त्वं हि श्रुत्वा च पृष्ट्वा च कृच्छ्रेष्वर्थेषु तेष्विह । 029a
श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ॥ 029c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥
12-128-4 आशया कृतः हतः । कृ हिंसायामित्यस्य रूपम् ॥ 12-128-9 आशायाः आशावतः समम् अन्यत् कृशत्वेन समं किमपि नास्ति तस्याः तद्गृहीतार्थस्य ॥ 12-128-10 कृशाकृशे य आशाजितः स कृशः । येनाशा जिता स पुष्ट इत्यर्थः । तस्यैव आशाविषयस्यैव ॥ 12-128-14 आदरेणाशां प्रदर्श्य योऽर्थिनं नोपकुरुते तत्र या आशा सा अतिकृशा । मया मत्तः । दीनत्वसम्पादकत्वात् ॥ 12-128-18 तथायुक्ताः प्रदानं स्थितमिति शब्दयुक्ताः ॥ 12-128-23 उपालभ्य तत्रापराधं स्थापयित्वा ॥ 12-128-28 मम मत्तः ॥