अध्यायः 127
बदरिकाश्रमं गतस्य ऋषभस्य तनुनामकेन महर्षिणा सह संवादः ॥ 1 ॥ वने नष्टपुत्रान्वेषणवशात्तत्रोपागतेन वीरद्युम्नेन राज्ञा तनुम् प्रति आशाया ज्यायः किमिति प्रश्नः ॥ 2 ॥
भीष्म उवाच 001
ततस्तेषां समेतानामृषीणामृषिसत्तमः । 001a
ऋषभो नाम विप्रर्षिर्विस्मयन्निदमब्रवीत् ॥ 001c
पुराऽहं राजशार्दूल तीर्थान्यनुचरन्प्रभो । 002a
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ 002c
यत्र सा बदरी रम्या सरो वैहायसं तथा । 003a
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ 003c
तस्मिन्सरसि कृत्वाऽहं विधिवत्तर्पणं पुरा । 004a
पितॄणां देवतानां च ततोश्रममियां तदा ॥ 004c
रेमाते यत्र तौ नित्यं नरनारायणावृषी । 005a
अदूरादाश्रमात्किञ्चिद्वासार्थमगमं तदा ॥ 005c
अत्र चीराजिनधरं कृशमुच्चमतीव च । 006a
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥ 006c
अन्यैर्नरैर्महाबाहो वपुषाऽप्रतिमं तदा । 007a
कृशता चापि राजर्षे न दृष्टा तादृशी मया ॥ 007c
शरीरमपि राजेन्द्र तनु कानिष्ठिकासमम् । 008a
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ 008c
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च । 009a
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ 009c
दृष्ट्वाऽहं तं कृशं विप्रं भीतः परमदुर्मनाः । 010a
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ 010c
निवेद्य नामगोत्रे च तथा कार्यं नरर्षभ । 011a
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ 011c
ततः स कथयामास धर्मार्थसहिताः कथाः । 012a
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ 012c
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः । 013a
उपयाज्जवनैरश्वैः सबलः सावरोधनः ॥ 013c
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः । 014a
भूरिद्युम्नपिता श्रीमान्वीरद्युम्नो महायशाः ॥ 014c
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति भारत । 015a
एवमाशाकृशो राजा चरन्वनमिदं पुरा ॥ 015c
दुर्लभः स मया द्रष्टुं भूय एव च धार्मिक । 016a
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ 016c
न स शक्यो मया द्रष्टुमाशा च महती मम । 017a
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ 017c
एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः । 018a
अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ 018c
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः । 019a
उवाच वाक्यं दीनात्मा मन्दमन्दमिवासकृत् ॥ 019c
दुर्लभं किन्नु देवर्षे आशायाश्चैव किं महत् । 020a
ब्रवीतु भगवानेतद्यदि गुह्यं न चेत्तदा ॥ 020c
तनुरुवाच 021
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः । 021a
बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽऽत्मनः । 021c
अर्थयन्कुशलं राजन्काञ्चनं वल्कलानि च ॥ 021e
[अवज्ञापूर्वकेनापि न सम्पादितवांस्ततः ।] 022a
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ 022c
एवमुक्तोऽभिवाद्याथ तमृषिं लोकपूजितम् । 023a
श्रान्तोऽवसीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ 023c
अर्घ्यं ततः समानीय पाद्यं चैव महायशाः । 024a
आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत् ॥ 024c
ततस्तमृषयः सर्वे परिवार्य नरर्षभम् । 025a
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ 025c
अपृच्छंश्चैव तत्रैनं राजानमपराजितम् । 026a
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशने ॥ 026c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥
12-127-3 वैहायसं विहायसा गच्छन्त्या मन्दाकिन्या वैहायस्या इदं वैहायसम् ॥ 12-127-4 ततोश्रमं तत आश्रमं मण्डपम् इयां गतवानहम् ॥ 12-127-5 रेमाते रजसा यत्रेति थ. द. पाठः ॥ 12-127-7 वपुषाऽष्टगुणान्वितमिति झ. पाठः ॥ 12-127-21 तेन तव पुत्रेण भूरिद्युम्रेन ॥ 12-127-23 एवं मुनिना उक्तः वीरद्युम्नः अवसीदत् नष्टप्रायोऽभूदित्यर्थः ॥ 12-127-26 एवं मुनिना राजपूजानन्तरम् आगताः किमर्थं आश्रमे त्वं प्रविष्टोऽसीत्यपृच्छन् ॥