अध्यायः 126
तापसैः स्वाश्रममुपागतस्य सुमित्रस्य पूजनम् ॥ 1 ॥ ततः सुमित्रेण तापसान्प्रति आशान्तरिक्षयोर्ज्यायस्तरं किमिति प्रश्नः ॥ 2 ॥
भीष्म उवाच 001
प्रविश्य च महारण्यं तापसानामथाश्रमम् । 001a
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा ॥ 001c
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा । 002a
समेत्य ऋषयस्तस्मै पूजां चक्रुर्यथाविधि ॥ 002c
स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः । 003a
अपृच्छत्तापसान्सर्वांस्तपोवृद्धिमनुत्तमाम् ॥ 003c
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः । 004a
ऋषयो राजशार्दूलमपृच्छंस्तत्प्रयोजनम् ॥ 004c
केन भद्रमुखार्थेन तपोवनमुपागतः । 005a
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥ 005c
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद । 006a
कस्मिन्कुले तु जातस्त्वं किन्नामा चासि ब्रूहि नः ॥ 006c
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ । 007a
आचख्यौ तद्यथावृत्तं परिचर्यां च भारत ॥ 007c
हैहयानां कुले जातः सुमित्रोऽमित्रकर्शनः । 008a
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ॥ 008c
बलेन महता ब्रह्मन्सामात्यः सावरोधकः । 009a
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ॥ 009c
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया । 010a
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥ 010c
किन्नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः । 011a
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥ 011c
न राजलक्षणत्यागः पुनरस्य तपोधनाः । 012a
दुःखं करोति मे तीव्रं यथाऽऽशा विहता मम ॥ 012c
हिमवान्वा महाशैलः समुद्रो वा महोदधिः । 013a
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ॥ 013c
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः । 014a
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥ 014c
भवन्तः सुमहाभागास्तस्मात्पृच्छामि संशयम् । 015a
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ॥ 015c
किन्नु ज्यायस्तरं लोके महत्त्वे प्रतिभाति वः । 016a
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ 016c
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम् । 017a
न हि गुह्यतमं श्रोतुमिच्छामि द्विजपुङ्गवाः ॥ 017c
भवत्तपोविघातो वा येन स्याद्विरमे ततः । 018a
यदि वाऽस्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥ 018c
एतत्कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः । 019a
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ 019c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षङ्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥
12-126-5 हे भद्रमुख ॥ 12-126-12 आशा मृगाशा ॥ 12-126-13 हिमवानुच्चत्वेन महोदधिर्विततत्वेन च गगनान्तं नान्वपद्येताम् । तस्य ततोऽप्युच्चत्वाद्विततत्वाच्च ॥ 12-126-15 आशावान् आशाया महत्त्वेन तद्वतोऽपि महत्त्वमन्तरिक्षवत् ॥ 12-126-17 यद्यगुह्यं तपोनित्यं मम ब्रूतेह माचिरमिति थ. द. पाठः ॥