अध्यायः 125
आशानिरूपणं प्रार्थितेन भीष्मेण तदुपोद्घाततया ऋषभसुमित्रचरित्रकीर्तनारम्भः ॥ 1 ॥ मृगयासक्तेन सुमित्रेण निजशरानुवेधे शरेण सह वनं प्रविष्टं मृगं प्रत्यनुधावनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
शीलं प्रधानं पुरुषे कथितं ते पितामह । 001a
कथमाशा समुत्पन्ना का च सा तद्वदस्व मे ॥ 001c
संशयो मे महानेष समुत्पन्नः पितामह । 002a
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥ 002c
पितामहाशा महती ममासीद्धि सुयोधने । 003a
प्राप्ते युद्धे तु तद्युक्तं तत्कर्ताऽयमिति प्रभो ॥ 003c
सर्वस्याशा सुमहती पुरुषस्योपजायते । 004a
तस्यां विहन्यमानायां दुःखो मृत्युर्न संशयः ॥ 004c
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना । 005a
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ 005c
आशां बृहत्तरीं मन्ये पर्वतादपि सद्रुमात् । 006a
आकाशादपि वा राजन्नप्रमेयाऽथवा पुनः ॥ 006c
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा । 007a
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ 007c
भीष्म उवाच 008
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध मे । 008a
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ 008c
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः । 009a
ससार च मृगं विद्ध्वा बाणेनानतपर्वणा ॥ 009c
स मृगो बाणमादाय ययावतिपराक्रमः । 010a
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ 010c
ततो निम्नं स्थलं चैव समृगोऽद्रवदाशुगः । 011a
मुहूर्तमिव राजेन्द्र समेन स पथाऽगमत् ॥ 011c
ततः स राजा तारुण्यादौरसेन बलेन च । 012a
चचार बाणासनभृत्सखड्गो हंसवत्तदा ॥ 012c
ततो नदान्नदीश्चैव पल्वलानि वनानि च । 013a
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः ॥ 013c
स तु तावन्मृगो राजन्नासाद्यासाद्य पार्थिवम् । 014a
पुनरभ्येति जवनो जवेन महता ततः ॥ 014c
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः । 015a
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ 015c
पुनश्च जवमास्थाय जवनो मृगयूथपः । 016a
[अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥] 016c
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः । 017a
समादाय शरं श्रेष्ठं कार्मुकान्निरवासयत् ॥ 017c
[ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।] 018a
तस्य बाणपथं मुक्त्वा तस्थिवान्प्रहसन्निव ॥ 018c
तस्मिन्निपतिते बाणे भूमौ ज्वलिततेजसि । 019a
प्रविवेश मृगोऽरण्यं मृगं राजाऽप्यभिद्रवत् ॥ 019c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥
12-125-3 युक्तं युद्धं विनैव राज्यार्धदानम् । कर्ता करिष्यति ॥ 12-125-7 दुर्लभा दुर्जया ॥ 12-125-12 बाणासनभृद्धनुर्धरः ॥ 12-125-15 समभ्यस्तो विद्धः ॥