अध्यायः 124

भीष्मेण युधिष्ठिरम् प्रति दुर्योधनाय धृतराष्ट्रप्रोक्तेन्द्रप्रह्लादकथानुवादपूर्वकं शीलस्य धर्मादिकारणत्वप्रतिपादनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
इमे जना मनुष्येन्द्र प्रशंसन्ति सदा भुवि । 001a
धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ 001c
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर । 002a
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ 002c
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत । 003a
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ 003c
भीष्म उवाच 004
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद । 004a
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तवागताम् ॥ 004c
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह । 005a
सभायां चापहसनं तत्सर्वं शृणु भारत ॥ 005c
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् । 006a
दुर्योधनस्तदा दीनः सर्वं पित्रे न्यवेदयत् ॥ 006c
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा । 007a
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥ 007c
धृतराष्ट्र उवाच 008
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः । 008a
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यति ॥ 008c
यदा त्वां महदैश्वर्यं प्राप्तं परपुरञ्जय । 009a
किङ्करा भ्रातरः सर्वे मित्रसम्बन्धिबान्धवाः ॥ 009c
आच्छादयसि प्रावारानश्नासि पिशितौदनम् । 010a
आजानेया वहन्ति त्वां कस्माच्छेचसि पुत्रक ॥ 010c
दुर्योधन उवाच 011
दश तात सहस्राणि स्नातकानां महात्मनाम् । 011a
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ 011c
दृष्ट्वा च तां सभां दिव्यपुष्पफलान्विताम् । 012a
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ॥ 012c
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् । 013a
अमित्राणां सुमहतीमनुशोचामि मानद ॥ 013c
धृतराष्ट्र उवाच 014
यदीच्छसि श्रियं तात यादृशी सा युधिष्ठिरे । 014a
विशिष्टां वा नरश्रेष्ठ शीलवान्भव पुत्रक ॥ 014c
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः । 015a
न हि किञ्चिदसाध्यं वै लोके शीलवतां सताम् ॥ 015c
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः । 016a
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ 016c
एते हि पार्थिवाः सर्वे शीलवन्तो यशोन्विताः । 017a
ततस्तेषां गुणक्रीता वसुधा स्वयमागता ॥ 017c
दुर्योधन उवाच 018
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत । 018a
येन शीलेन सम्प्राप्ताः क्षिप्रमेव वसुन्धराम् ॥ 018c
धृतराष्ट्र उवाच 019
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 019a
नारदेन पुरा वृत्तं शीलमाश्रित्य भारत ॥ 019c
प्रह्लादेन हृतं राज्यं महेन्द्रस्य महात्मनः । 020a
शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशे कृतम् ॥ 020c
ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः । 021a
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ 021c
ततो बृहस्पतिस्तस्मै ज्ञानं नैश्रेयसं परम् । 022a
कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ 022c
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत । 023a
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति ॥ 023c
बृहस्पतिरुवाच 024
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः । 024a
तत्रागमय भद्रं ते भूय एव सुरोत्तम ॥ 024c
आत्मनस्तु ततः श्रेयो भार्गवः सुमहायशाः । 025a
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ 025c
तेनापि समनुज्ञातो भार्गवेण महात्मना । 026a
श्रेयोऽस्तीति परं भूयः शुक्रमाह शतक्रतुः ॥ 026c
भार्गवस्त्वाह सर्वज्ञः प्रह्लादस्य महात्मनः । 027a
ज्ञानमस्ति विशेषेणेत्युक्तो हृष्टश्च सोऽभवत् ॥ 027c
स तत्र ब्राह्मणो भूत्वा प्रह्लादं पाकशासनः । 028a
स्तुत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ 028c
प्रह्लादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजोत्तम । 029a
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते ॥ 029c
ब्राह्मणस्त्वब्रवीद्राजन्यस्मिन्काले क्षणो भवेत् । 030a
तदोपादेष्टुमिच्छामि यदि कार्यान्तरं भवेत् ॥ 030c
ततः प्रीतोऽभवद्राजा प्रह्लादो ब्रह्मवादिनः । 031a
तथेत्युक्त्वा ददौ काले ज्ञानतत्त्वं द्विजे तदा ॥ 031c
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् । 032a
चकार सर्वभावेन यद्यच्च मनसेच्छति ॥ 032c
पृष्टश्च तेन बहुशः प्राप्तं कथमरिन्दम । 033a
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे । 033c
[प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत् ॥] 033e
प्रह्लाद उवाच 034
नासूयामि द्विजान्विप्र राजास्मीति कथञ्चन । 034a
काम्यानि वदतां तेषां संयच्छामि वहामि च ॥ 034c
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । 035a
तेषां कार्यपथे युक्तं शुश्रूषुमनहङ्कृतम् ॥ 035c
धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम् । 036a
समासिञ्चन्ति शास्त्रज्ञाः क्षौद्रं मध्विव मक्षिकाः ॥ 036c
सोऽहं वागग्रविद्यानां रसानामवलेहिता । 037a
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ 037c
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् । 038a
यद्ब्राह्मणमुखे हव्यमेतच्छ्रुत्वा प्रवर्तते ॥ 038c
एतावच्छ्रेय इत्याह प्रह्लादो ब्रह्मवादिनम् । 039a
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ 039c
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम । 040a
वरं वृणीष्व भद्रं ते प्रदाताऽस्मि न संशयः ॥ 040c
कृतमित्येव दैत्येन्द्रमुवाच द्विजसत्तमः । 041a
प्रह्लादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ 041c
ब्राह्मण उवाच 042
यदि राजन्प्रसन्नस्त्वं मम चेदिच्छसि प्रियम् । 042a
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ 042c
ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत् । 043a
वरे प्रदिष्टे विप्रेण नाल्पचेतायमित्युत ॥ 043c
एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा । 044a
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ 044c
दत्ते वरे गते विप्रे चिन्ताऽसीन्महती तदा । 045a
प्रह्लादस्य महाराज निश्चयं न च जग्मिवान् ॥ 045c
तस्य चिन्तयतस्तावच्छायाभूतं महाद्युतेः । 046a
तेजोविग्रहवत्तात शरीरमजहात्तदा ॥ 046c
तमपृच्छन्महाराजः प्रह्लादः को भवानिति । 047a
प्रत्याह तं तु शीलोस्मि त्यक्तो गच्छाम्यहं त्वया ॥ 047c
तस्मिन्द्विजोत्तमे राजन्वत्स्याम्यहमरिन्दम । 048a
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः । 048c
इत्युक्त्वाऽन्तर्हितं तद्वै शक्रं चान्वाविशत्प्रभो ॥ 048e
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोपरः । 049a
शरीरान्निःसृतस्तस्य को भवानिति सोब्रवीत् ॥ 049c
धर्मं प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः । 050a
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ 050c
ततोऽपरो महाराज प्रज्वलन्निव तेजसा । 051a
शरीरान्निःसृतस्तस्य प्रह्लादस्य महात्मनः ॥ 051c
को भवानिति पृष्टश्च तमाह स महाद्युतिः । 052a
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम् ॥ 052c
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः । 053a
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महातपाः ॥ 053c
वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम् । 054a
तस्मिन्गते महाश्वेता शरीरात्तस्य निर्ययौ ॥ 054c
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः । 055a
इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप ॥ 055c
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ । 056a
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येनमब्रवीत् ॥ 056c
उषिताऽस्मि सुखं नित्यं त्वयि सत्यपराक्रम । 057a
त्वया त्यक्ता गमिष्यामि बलं ह्यनुगता ह्यहम् ॥ 057c
ततो भयं प्रादुरासीत्प्रह्लादस्य महात्मनः । 058a
अपृच्छत च तां भूयः क्व यासि कमलालये ॥ 058c
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी । 059a
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ 059c
श्रीरुवाच 060
स शक्तो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः । 060a
त्रैलोक्ये ते यदश्वर्यं तत्तेनापहृतं प्रभो ॥ 060c
शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः । 061a
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो ॥ 061c
धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम् । 062a
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ 062c
भीष्म उवाच 063
एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर । 063a
दुर्योधनस्तु पितरं भूय एवाब्रवीत्तदा ॥ 063c
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन । 064a
प्राप्यते च यथा शीलं तं चोपायं ब्रवीहि मे ॥ 064c
धृतराष्ट्र उवाच 065
सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना । 065a
सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नरेश्वर ॥ 065c
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । 066a
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ 066c
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् । 067a
अपत्रपेत वा येन न तत्कुर्यात्कथञ्चन ॥ 067c
तत्तु कर्म तथा कुर्याद्येन श्लाघ्येत संसदि । 068a
शीलं समासेनैतत्ते कथितं कुरुसत्तम ॥ 068c
यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित् । 069a
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ॥ 069c
धृतराष्ट्र उवाच 070
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक । 070a
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् । 070c
'अधिकां चापि राजेन्द्र ततस्त्वं शीलवान्भव ॥' 070e
भीष्म उवाच 071
एतत्कथितवान्पुत्रे धृतराष्ट्रो महीपतिः । 071a
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ 071c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्विशत्यधिकशततमोऽध्यायः ॥ 124 ॥

12-124-1 धर्मस्य कारणमिति शेषः ॥ 12-124-8 यदि सम्यग्भविष्यसीति द. पाठः ॥ 12-124-13 ऋद्धिं वैश्रवणीमिति झ. पाठः ॥ 12-124-22 नैश्रेयसं मोक्षोपयोगि ॥ 12-124-23 को विशेषः । नैश्रेयसादपि किंश्रेय इत्यर्थः ॥ 12-124-37 क्षुद्राभिर्मधुमक्षिकाभिर्निर्मितं क्षौद्रं मधु । तत्र मक्षिकामध्विव मां ते शास्त्रेण सिञ्चन्ति । वागग्रविद्यानां वागग्रे एव नतु पुस्तके विद्या येषां तेषाम् । सोऽहं वागन्त्यपुष्टानां मधूनां परिलेहितेति ड. पाठः ॥ 12-124-43 विप्रेण विप्राय । चेतायमिति सन्धिरार्षः ॥ 12-124-46 तेजोविग्रहवत् तेजोमयशरीरं शीलम् ॥ 12-124-64 शीलं समधिगच्छामीति थ. पाठः ॥