अध्यायः 122
भीष्मेण युधिष्ठिरम् प्रति वसुहोममान्धातृसंवादानुवादपूर्वकं दण्डोत्पत्त्यादिकथनम् ॥ 1 ॥
भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥ 001c
स राजा धर्मविन्नित्यं सह पत्न्या महातपाः । 002a
मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम् || 002c
तत्र शृङ्गे हिमवतो वसतिं समुपागमत् । 003a
यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥ 003c
तदादि च महाप्राज्ञ ऋषिभिः संशितव्रतैः । 004a
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥ 004c
स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः । 005a
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥ 005c
तं कदाचिददीनात्मा सखा शक्रस्य मानितः । 006a
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥ 006c
सोपसृत्य तु मान्धाता वसुहोमं नराधिपम् । 007a
दृष्ट्वा प्रकृष्टतपसं विनयेनोपतिष्ठते ॥ 007c
वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् । 008a
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ ॥ 008c
सद्भिराचरितं पूर्वं यथावदनुयायिनम् । 009a
अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते ॥ 009c
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः । 010a
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥ 010c
बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया । 011a
तथैवौशनसं शास्त्रं विज्ञातं ते नरोत्तम ॥ 011c
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् । 012a
किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते ॥ 012c
कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः । 013a
ब्रूहि मे तद्यथातत्वं ददाम्याचार्यवेतनम् ॥ 013c
वसुहोम उवाच 014
शृणु राजन्यथा दण्डः सम्भूतो लोकसङ्ग्रहः । 014a
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥ 014c
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः । 015a
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम् ॥ 015c
स गर्भं भगवान्देवो बहुवर्षाण्यधारयत् । 016a
अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत् ॥ 016c
स क्षुपो नाम सम्भूतः प्रजापतिररिन्दमः । 017a
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः ॥ 017c
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ । 018a
इष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥ 018c
तस्मिन्नन्तर्हिते चापि प्रजानां सङ्करोऽभवत् । 019a
नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते ॥ 019c
पेयापेये कुतः सिद्धिर्हिंसन्ति च परस्परम् । 020a
गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम् ॥ 020c
परस्परं विलुम्पन्ति सारमेया यथाऽऽमिषम् । 021a
अबलान्बलिनो जघ्नुर्निर्मर्यादं प्रवर्तते ॥ 021c
ततः पितामहो विष्णुं भगवन्तं सनातनम् । 022a
सम्पूज्य वरदं देवं महादेवमथाब्रवीत् ॥ 022c
अत्र त्वमनुकम्पां वै कर्तुमर्हसि शङ्कर । 023a
अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे ॥ 023c
'त्वं हि सर्वविधानज्ञः सत्वानां त्वं गतिः परा ।' 024a
सङ्करो न भवेदत्र यथा तद्वै विधीयताम् ॥ 024c
ततः स भगवान्ध्यात्वा तदा शूलवरायुधः । 025a
'देवदेवो महादेवः कारणं जगतः परम् ॥ 025c
ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः । 026a
लोकसन्धारणार्थं च लोकसङ्करनाशनम् ।' 026c
आत्मानमात्माना दण्डं ससृजे देवसत्तमः ॥ 026e
तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम् । 027a
असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम् ॥ 027c
'यथाऽसौ नीयते दण्डः सततं पापकारिषु । 028a
दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते ॥' 028c
भूयः स भगवान्ध्यात्वा चिरं शूलधरः प्रभुः । 029a
'असृजत्सर्वशास्त्राणि महादेवो महेश्वरः ॥ 029c
दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः । 030a
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः ॥ 030c
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । 031a
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ 031c
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । 032a
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥ 032c
दश चाष्टौ च विख्याता एता धर्मस्य संहिताः । 033a
एतासामेव विद्यानां व्यासमाह महेश्वरः ॥ 033c
शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम् । 034a
व्यास एव तु विद्यानां महादेवेन कीर्तितः ॥ 034c
तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम् । 035a
योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा ॥ 035c
तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् । 036a
सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम् ॥ 036c
तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः । 037a
दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः ॥ 037c
पुराणाश्च प्रणीताश्च तावदेवेह संहिताः । 038a
धर्मशास्त्राणि तद्वच्च एकार्थानि च नान्यथा ॥ 038c
एकार्थानि पुराणानि वेदाश्चैकार्थसंहिताः । 039a
नानार्थानि च सर्वाणि ततः शास्त्राणि शङ्करः ॥ 039c
प्रोवाच भगवान्देवः कालज्ञानानि यानि च । 040a
चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् ॥ 040c
अष्टादशविकल्पां तां दण्डनीतिं च शाश्वतीम् । 041a
गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् ॥ 041c
इत्येताः शङ्करप्रोक्ता विद्याः शब्दार्थसंहिताः । 042a
पुनर्भेदसहस्रं तु तासामेव तु विस्तरः ॥ 042c
ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः । 043a
शश्वदभ्यस्यते लोके वेद एव तु सर्वशः ॥ 043c
वेदाश्चतस्रः सङ्क्षिप्ता वेदवादाश्च ते स्मृताः । 044a
एतासां पारगो यश्च स चोक्तो वेदपारगः ॥ 044c
वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः । 045a
शक्रः स्वायम्भुवश्चैव मनुः परमधर्मवित् ॥ 045c
ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः । 046a
सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः ॥ 046c
भीष्म उवाच 047
अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च । 047a
शङ्करस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह । 047c
वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः ॥ 047e
कल्पेकल्पे महाभागैर्ऋषिभिस्तत्त्वदर्शिभिः । 048a
ऋषिपुत्रैर्ऋषिगणैर्भिद्यन्ते मिश्रकैरपि ॥ 048c
शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः । 049a
आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः ॥ 049c
इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः । 050a
पूर्वजन्मानुसारेण बहुधेयं सरस्वती ॥ 050c
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः ।' 051a
तस्यतस्य निकायस्य चकारैकैकमीश्वरम् ॥ 051c
देवानामीश्वरं चक्रे दैवं दशशतेक्षणम् । 052a
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥ 052c
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् । 053a
धनानां राक्षसानां च कुबेरमपि चेश्वरम् ॥ 053c
पर्वतानां पतिं मेरुं सरितां च महोदधिम् । 054a
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥ 054c
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः । 055a
महात्मानं महादेवं विशालाक्षं सनातनम् ॥ 055c
'दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसम्भवाः । 056a
नानारूपधरो देवः स एव भगवाञ्शिवः ॥' 056c
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् । 057a
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥ 057c
वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम् । 058a
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥ 058c
कालं सर्वेशमकरोत्संहारविनयात्मकम् । 059a
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥ 059c
ईश्वरो देवदेवस्तु राजराजो नराधिपः । 060a
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥ 060c
'ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः । 061a
विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः ॥ 061c
सृजते ग्रसते चैतत्तमोभूतमिदं यथा । 062a
अप्रज्ञातं जगत्सर्वं यदा ह्येको महेश्वरः ॥' 062c
तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ । 063a
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥ 063c
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः । 064a
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥ 064c
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः । 065a
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ ॥ 065c
भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम् । 066a
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥ 066c
क्षुपस्तु मनवे प्रादादादित्यतनयाय च । 067a
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ॥ 067c
विभज्य दण्डः कर्तव्यो दण्डे तु नयमिच्छता । 068a
दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया ॥ 068c
व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात् । 069a
शरीरपीडा कार्या तु स्वदेशाच्च विवासनम् ॥ 069c
तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम् । 070a
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन् ॥ 070c
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः । 071a
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः ॥ 071c
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः । 072a
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः ॥ 072c
व्यवसायात्ततस्तेजो जागर्ति परिपालयत् । 073a
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः ॥ 073c
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा । 074a
जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतीमनु ॥ 074c
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः । 075a
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ॥ 075c
पितामहान्महादेवो जागर्ति भगवाञ्शिवः । 076a
विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा ॥ 076c
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः । 077a
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ॥ 077c
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः । 078a
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥ 078c
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च । 079a
सर्वसङ्क्षेपको दण्डः पितामहसुतः प्रभुः ॥ 079c
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत । 080a
ईशः सर्वस्य कालो हि महादेवः प्रजापतिः ॥ 080c
देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः । 081a
कपर्दी शङ्करो रुद्रो भवः स्थाणुरुमापतिः ॥ 081c
इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथापरे । 082a
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥ 082c
भीष्म उवाच 083
इतीदं वसुहोमस्य योऽऽत्मवाञ्शृणुयान्मतम् । 083a
श्रुत्वा सम्यक्प्रवर्तेत स लोकानाप्नुयान्नृपः ॥ 083c
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ । 084a
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥ 084c
'वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा । 085a
मयापि कथितं राजन्नाख्यानं प्रथितं मया ॥' 085c
इcति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥
12-122-1 अत्र दण्डोत्पत्तौ विषये ॥ 12-122-13 आचार्यवेतनं गुरुदक्षिणाम् ॥ 12-122-15 यियक्षुर्यष्टुमिच्छुः ॥ 12-122-16 सगर्भं शिरसा देवः इति झ. पाठः । क्षुवतः क्षुतवतः ॥ 12-122-18 अष्टं रूपं दीक्षापरिग्रहः प्रजानियन्ता दीक्षां प्रविष्ट इति नियमनरूपो दण्डोऽन्तर्हितोऽभवदित्यर्थः ॥ 12-122-59 कर्तुमर्हसि केशव इति झ. पाठः । विनयो विवृद्धिः । चत्वारो विभागा यस्य तस्य शस्त्रं शत्रुर्यमः कर्म च । रोगोऽपथ्याशनप्रयोजको रागो यमः कर्म चेति वा ॥ 12-122-68 विभज्य न्यायं न्यायाभासं च विविच्य । दुष्टनिग्रह एव दण्डस्य मुख्यं प्रयोजनम् । हिरण्यादिग्रहणं तु लोकानां बिभीषिकार्थं नतु कोशवृद्ध्यर्थमित्यर्थः ॥ 12-122-69 विवासनं स्वदेशाद्दूरीकरणम् ॥ 12-122-73 ओषधीभ्यश्च पादपाः इति ट. पाठः ॥ 12-122-74 पादपेभ्यश्च जागर्ति इति ट. पाठः ॥