अध्यायः 120
भीष्मेण युधिष्ठिरम् प्रति प्रजापालनप्रकारादिकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत । 001a
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥ 001c
तदेव विस्तरेणोक्तं पूर्ववृत्तं सतां मतम् । 002a
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ ॥ 002c
भीष्म उवाच 003
रक्षणं सर्वभूतानामिति क्षात्रं परं मतम् । 003a
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥ 003c
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः । 004a
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् ॥ 004c
तैक्ष्ण्यं जिह्मत्वमादानं सत्यमार्जवमेव च । 005a
मध्यस्थः सत्वमातिष्ठंस्तथा वै सुखमृच्छति ॥ 005c
यस्मिन्नर्थे यथैव स्यात्तदूर्णं रूपमादिशेत् । 006a
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ॥ 006c
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी । 007a
श्लक्ष्णाक्षरगतः श्रीमान्भवेच्छास्त्रविशारदः ॥ 007c
आयव्ययेषु युक्तः स्याज्जलप्रस्रवणेष्विव । 008a
शैलाद्वर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् । 008c
आत्मार्थं हि सदा राजा कुर्याद्धर्मध्वजोत्तमम् ॥ 008e
नित्यमुद्यतदण्डः स्यादाचारे चाप्रमादवान् । 009a
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाव्रजेत् ॥ 009c
आज्ञावान्स्यात्स्वयूथ्येषु भौमानि चरणैः किरन् । 010a
जातपक्षः परिस्पन्देत्प्रेक्षेद्वैकल्यमात्मनः ॥ 010c
दोषान्विवृणुयाच्छत्रोः परपक्षांश्च सूदयेत् । 011a
काननेष्विव पुष्पाणि बहिरर्थान्समाचरेत् ॥ 011c
उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् । 012a
श्रयेच्छायामिव ज्ञातिं गुप्तं शरणमाश्रयेत् ॥ 012c
प्रावृषीवासितग्रीवो माद्येत निशि निर्जने । 013a
मायूरेण गुणेनैव स्त्रीभिरारक्षितश्चरेत् ॥ 013c
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना । 014a
चारभूमिष्विव ततान्पाशांश्च परिवर्जयेत् ॥ 014c
प्रणयेद्वाऽपि तां भूमिं प्रणश्येद्ग्रहणे पुनः । 015a
'एवं मयूरधर्मेण वर्तयन्सततं नरः ।' 015c
हन्यात्क्रुद्धानतिविषांस्ताञ्जिह्मगतयोऽहिताः ॥ 015e
नासूयेच्चावगर्ह्याणि सन्निवासान्निवासयेत् । 016a
सदा बर्हिसमं कामं प्रशस्तं कृतमाचरेत् । 016c
सर्वतश्चाददेत्प्रज्ञां पतङ्गं गहनेष्विव ॥ 016e
एवं मयूरवद्राजा स्वराज्यं परिपालयेत् । 017a
आत्मबुद्धिकरीं नीतिं विदधीत विचक्षणः ॥ 017c
आत्मसंयमनं बुद्ध्या परबुद्ध्या विचारणम् । 018a
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥ 018c
परं विश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् । 019a
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ॥ 019c
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजकः । 020a
निगूढबुद्धेर्धीरस्य वक्तव्ये वक्ष्यते तथा ॥ 020c
सन्निकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः । 021a
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥ 021c
अनुयुञ्जीत सत्यानि सर्वाण्येव महीपतिः । 022a
आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥ 022c
मृदुं क्रूरं तथा प्राज्ञं शूरं चार्थविधानवित् । 023a
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥ 023c
अप्यदृष्टानि युक्तानि स्वानुरूपेषु कर्मसु । 024a
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायताः ॥ 024c
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् । 025a
ममायमिति राजा यः सपर्वत इवाचलः ॥ 025c
व्यवहारं समाधाय सूर्यो रश्मीनिवायतान् । 026a
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥ 026c
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः । 027a
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितक्लमान् ॥ 027c
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् । 028a
स्थापयेत्सर्वकार्येषु राजा सर्वार्थरक्षिणः ॥ 028c
एतेन च प्रकारेण कृत्यानामागतिं गतिम् । 029a
युक्त्या समनुतिष्ठेत तुष्टश्चारैः पुरस्कृतः ॥ 029c
अमोघक्रोधहर्षस्य स्वयं कृत्याऽनुदर्शिनः । 030a
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥ 030c
व्यक्तश्चानुग्रहो यस्य यथोक्तश्चापि निग्रहः । 031a
गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् ॥ 031c
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवातपन् । 032a
चारांश्चानुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत् ॥ 032c
कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् । 033a
अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ॥ 033c
यथाक्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः । 034a
तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम् ॥ 034c
यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः । 035a
सञ्चयान्न विसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥ 035c
नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् । 036a
बुद्ध्याऽनुबुद्ध्या चात्मानं न चाबुद्धेषु विश्वसेत् ॥ 036c
धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा धैर्यं शौर्यं देशकालाप्रमादः । 037a
अल्पस्य वा महतो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि ॥ 037c
अग्निस्तोको वर्धतेऽप्याज्यसिक्तो बीजं चैकं बहुसहस्रमेति । 038a
क्षयोदयौ विपुलौ सन्नियम्यौ तस्मादल्पं नावमन्येत वित्तम् ॥ 038c
बालोऽप्यबालः स्थविरो रिपुर्यः सदा प्रमत्तं पुरुषं निहन्यात् । 039a
कालेनान्यस्तस्य मूलं हरेत कालज्ञानं पार्थिवानां वरिष्ठम् ॥ 039c
हरेत्कीर्तिं धर्ममस्योपरुन्ध्यादर्थे विघ्नं वीर्यमस्योपहन्यात् । 040a
रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रोर्नैव बिभ्येद्यथात्मा ॥ 040c
क्षयं शत्रोः सञ्चयं पालनं वा उभावर्थौ सहितौ धर्मकामौ । 041a
ततश्चान्यन्मतिमान्सन्दधीत तस्माद्राजा बुद्धिमन्तं श्रयेत ॥ 041c
बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम् । 042a
शत्रुर्बुद्ध्या सीदते पीड्यमानो बुद्धिपूर्वं कर्म यत्तत्प्रशस्तम् ॥ 042c
सर्वान्कामान्कामयानो हि धीरः सत्वेनाल्पेनाप्नुते हीनदोषः । 043a
यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः श्रेयःपात्रं पूरयते च नाल्पम् ॥ 043c
तस्माद्राजा प्रगृहीतः प्रजासु मूलं लक्ष्म्याः सर्वशो ह्याददीत । 044a
दीर्घं कालं ह्यपि सम्पीड्यमानो व्युष्यात्सम्पद्व्यवसायेन शक्त्या ॥ 044c
विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद्व्यवसायेन शक्यम् । 045a
ब्रह्मायत्तं निवसति देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥ 045c
यत्रासते मतिमन्तो मनस्विनः शक्रो विष्णुर्यत्र सरस्वती च । 046a
वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम् ॥ 046c
लुब्धं हन्यात्सम्प्रदानाद्धि नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति । 047a
सर्वो लुब्धः सर्वगुणोपभोगो योऽर्थैर्हीनो धर्मकामौ जहाति ॥ 047c
धनं भोगं पुत्रदारं समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम् । 048a
लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत लुब्धम् ॥ 048c
सन्दर्शनेन पुरुषं जघन्यमपि चोदयेत् । 049a
आरम्भान्द्विषतां प्राज्ञः सर्वार्थांश्च प्रसूदयेत् ॥ 049c
धर्मान्वितेषु विज्ञाता मन्त्रगुप्तिश्च पाण्डव । 050a
आप्तो राजन्कुलीनश्च पर्याप्तो राष्ट्रसङ्ग्रहे ॥ 050c
विधिप्रयुक्तान्नरदेवधर्मानुक्तान्समासेन निबोध बुद्ध्या । 051a
इमान्विदध्यादनुसृत्य यो वै राजा महीं पालयितुं स शक्तः ॥ 051c
सुनीतिजं यस्य विधानजं सुखं धर्मप्रणीतं विधिवत्प्रसिद्ध्यति । 052a
न निन्द्यते तस्य गतिर्महीपते स विन्दते राज्यसुखं ह्यनुत्तमम् ॥ 052c
धनैर्विशिष्टान्मतिशीलपूजितान्गुणोपपन्नान्युधि दृष्टविक्रमान् । 053a
गुणेषु युक्तानचिरादिवात्मवांस्ततोऽभिसन्धाय निहन्ति शात्रवान् ॥ 053c
पश्येदुपायान्विविधेषु कर्मसु न चानुपायेन मतिं निवेशयेत् । 054a
श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समश्नुते ॥ 054c
प्रीतिप्रवृत्तिं विनिवर्तनं च सुहृसु विज्ञाय विचार्य चोभयोः । 055a
यदेव मित्रं गुरुभारमावहेत्तदेव सुस्निग्धमुदाहरेद्बुधः ॥ 055c
एतान्मयोक्तांश्चर राजधर्मान्नृणां च गुप्तौ मतिमादधत्स्व । 056a
अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोको नृप धर्ममूलः ॥ 056c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥
12-120-2 राजधर्माणां राजधर्मविदां मतं यद्विस्तरेणोक्तं तदेव प्रणेयं प्रकर्षेण नेतुं वोढुं शक्यं सङ्क्षिप्तमित्यर्थः । प्रणयं राजधर्माणामिति थ. द. पाठः ॥ 12-120-4 बर्हाणि पक्षान् । भुजगाशनो मयूरः ॥ 12-120-5 तैक्ष्ण्यं क्रूरत्वम् । जिह्मत्वं कौटिल्यम् ॥ 12-120-6 यस्मिन्नर्थे दण्डेऽनुग्रहे वा । रूपमादिशेद्दर्शयेत् ॥ 12-120-7 शरच्छिखी शरत्कालमयूरः ॥ 12-120-8 युक्तोऽवहितः स्यात् । वर्षोदकानि वृष्ट्या जनितानि महानदीजलानि । अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् इति झ. पाठः । तत्र शिखां योग्यलिङ्गं क्रूरत्वादिकं कुर्यात् प्रकाशयेदित्यर्थः ॥ 12-120-9 लोके चायव्ययौ दृष्ट्वा बृहद्वृक्षमिवास्रवदिति झ. पाठः । तत्र बृहन्तो वृक्षा यत्र तद्बृहद्वृक्षं तालवनम् । आस्रवत् रसं प्रस्रवत् । यथा रसग्राही प्रदेशविशेषे एव प्रहृत्य रसं गृह्णाति नतु कृत्स्नवृक्षच्छेदेनेक्षुकाण्डादिवत्ततो रसं जिघृक्षति । एवं प्रजानामायव्ययौ ज्ञात्वा ता जीवयंस्ताभ्यो धनरसमादद्यादित्यर्थः ॥ 12-120-10 भौमानि परेषां सस्यानि चरणैरश्वादिगमनैः किरन् नाशयन्नित्यर्थः ॥ 12-120-13 असितग्रीवो मयूरः ॥ 12-120-14 चारैर्दर्शितासु भूमिषु धात्रीसौविदल्लसूपकारादिषु परैर्भेदितेषु ततान्विषादीन्पाशान् ॥ 12-120-15 पाशज्ञाने सति तां कपटभूमिं प्रतिपद्यात्मानं प्रणयेत्प्रापयेत्तदा नश्येदेव । वाशब्द एवार्थे ॥ 12-120-16 सन्निवासान्दृढमूलान्पक्षानमात्यादीन् शूरांश्च वासयेत्स्थापयेत् । बर्हिसमं मयूरतुल्यं कामं यथेष्टं प्रशस्तं कृतं प्रशस्तां क्रियां पक्षाणां विस्फारणमाचरेत् । पतङ्गं शलभसमूहो यथा गहनेषु पतति गहनं च निष्पत्रं करोति एवं सम्भूय शत्रुराष्ट्रे पतितव्यमित्यर्थः ॥ 12-120-18 बुद्ध्या आत्मनः संयमनम् इत्थमेव कर्तुं युक्तं नियमं कुर्यात् । परबुद्ध्या च तत्रैवार्थे संवादितया तस्यार्थस्य विचारणं दृढतरो निश्चयः कार्यः । बुद्ध्या शास्त्रोत्थधिया आत्मगुणस्य पूर्वोक्तनिश्चयहेतोः प्राप्तिर्भवति । एतदेव शास्त्रस्य निदर्शनं प्रयोजनं यत्कार्यक्षोदक्षमता बुद्धेरित्यर्थः ॥ 12-120-19 आत्मनः स्वस्य परिमर्शेन सर्वतोऽतीतानागतविचारेण बुद्धिं कार्यनिश्चयं बुद्ध्या ऊहापोहकौशलरूपया मेधया विचारयेत्साधकबाधकभूमौ सञ्चारयेत् ॥ 12-120-21 प्राज्ञो बुद्ध्या बृहस्पतिसमोऽपि सन् यदि निकृष्टां कथां निर्बुद्धित्ववादं प्राप्नुयात्तर्हि सद्यएव युक्त्या स्वभावं स्वास्थ्यम् एष्यते । उदके प्रक्षिप्तं तप्तायसं शैत्यमिव ॥ 12-120-33 न अर्थं प्रसूचयेत् अर्थवृत्तां न ज्ञापयेत् ॥ 12-120-35 सञ्चयान्न विसर्गी स्यात् । कोशाद्धनं न दद्यादपितूपर्याहृतमेवेत्यर्थः ॥ 12-120-37 आत्मा देहः । देशे काले वाऽप्रमाद इत्येकम् ॥ 12-120-39 अबालः अहीनः । अन्यः सम्पन्नः ॥ 12-120-41 धर्मकामौ बुद्ध्या सन्दधीत सन्धिं वा कुर्यात् । अन्यत् विग्रहादिकं कुर्यात् ॥ 12-120-42 वर्धमानं क्षीयमाणम् ॥ 12-120-43 अल्पेनापि सत्वेन बलेन । अर्थ्यमानैर्युक्तम् । आत्मानं प्रार्थयते । लुब्धो दृप्तश्च भवतीत्यर्थः । श्रेयःपात्रं न पूरयते ततः श्रेयोऽपसर्पतीत्यर्थः ॥ 12-120-44 प्रगृहीतः स्निग्धः । लक्ष्म्याः मूलम् अर्थं सर्वशः सर्वाभ्यः सम्पीढ्यमानः सम्पीडयन् ॥ 12-120-45 व्यवसायेन उद्योगेन विद्यात् लभेत् ॥ 12-120-46 अनुद्योगेन जन्म न नाशयेदित्याह यत्रेति ॥ 12-120-47 समृद्धिं च प्राप्यापीति शेषः । धनम् उत्कोचरूपम् ॥ 12-120-52 विधानजं दैवप्राप्तम् ॥ 12-120-53 गुणोपपन्नाञ्शौर्यादियुक्तान् । गुणेषु सन्धिविग्रहादिषु आत्मवानप्रमत्तः ॥ 12-120-54 दोषदर्शी निर्दोषेष्वपीति शेषः ॥ 12-120-55 उदाहरेत्प्रशंसेत् ॥ 12-120-56 चरानुतिष्ठ । आदधत्स्व आधत्स्व । दध धारणे इत्यस्य रूपम् ॥