अध्यायः 119
भीष्मेण युधिष्ठिरम् प्रति भृत्यानां स्वस्वयोग्यतानुसारेणाधिकारे स्थापनादेर्भृत्यलक्षणादीनां च कथनम् ॥ 1 ॥
भीष्म उवाच 001
एवं गुणयुतान्भृत्यान्स्वेस्वे स्थाने नराधिपः । 001a
नियोजयति कृत्येषु स राज्यफलमश्नुते ॥ 001c
न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम् । 002a
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते ॥ 002c
स्वजातिगुणसम्पन्नाः स्वेषु धर्मेष्ववस्थिताः । 003a
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा ॥ 003c
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति । 004a
स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते ॥ 004c
शरभः शरभस्थाने सिंहः सिंह इवोत्थितः । 005a
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥ 005c
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि । 006a
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ॥ 006c
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः । 007a
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ॥ 007c
न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः । 008a
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा ॥ 008c
साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः । 009a
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥ 009c
उद्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजाः शुभाः । 010a
स्वेस्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः ॥ 010c
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् । 011a
असिंहः सिंहसहितः सिंहवल्लभते फलम् ॥ 011c
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः । 012a
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ॥ 012c
एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः । 013a
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुन्धरा ॥ 013c
नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो ना महायशाः । 014a
सङ्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ॥ 014c
बाणवद्विसृता यान्ति स्वामिकार्यपरा नराः । 015a
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत् ॥ 015c
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः । 016a
कोशमूला हि राजानः कोशवृद्धिकरो भवेत् ॥ 016c
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसञ्चितैः । 017a
सदा त्वं सत्सु सन्न्यस्तधनधान्यपरो भव || 017c
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः । 018a
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ॥ 018c
ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसत्कृतः । 019a
पौरकार्यहितान्वेक्षी भव कौरवनन्दन ॥ 019c
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया । 020a
श्वाते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ॥ 020c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥
12-119-1 एवं नीचाननीचे नैव योजयेत् ॥ 12-119-7 अबुद्धिरिति च्छेदः ॥ 12-119-10 बहिश्चराः प्राणा इवेति शेषः ॥ 12-119-15 विसृताः अपरावर्तिनः ॥