अध्यायः 118

भीष्मेण युधिष्ठिरम् प्रति सचिवादिगुणवर्णनम् ॥ 1 ॥ भीष्म उवाच 001
स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् । 001a
ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः ॥ 001c
एवं राज्ञा मतिमता विदित्वा शीलशौचताम् । 002a
आर्जवं प्रकृतिं सत्वं श्रुतं वृत्तं कुलं दमम् ॥ 002c
अनुक्रोशं बलं वीर्यं प्रभावं प्रशमं क्षमाम् । 003a
भृत्या ये मन्त्रिणो योग्यास्तत्र स्थाप्याः सुरक्षिताः ॥ 003c
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति । 004a
अकुलीननराकीर्णो न राजा सुखमेधते ॥ 004c
कुलजः प्राकृतो राजंस्तत्कुलीनतया सदा । 005a
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ॥ 005c
अकुलीनस्तु पुरुषः प्राकृतः साधुसङ्क्षयात् । 006a
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ॥ 006c
'काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च । 007a
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ॥ 007c
लोकपालाः सदोद्विग्नाः पश्यन्त्यकुलजान्यथा । 008a
नारीं वा पुरुषं वाऽथ शीलं तत्रापि कारणम् ॥ 008c
दुष्कुलीना च या स्त्री स्याद्दुष्कुलीनश्च यः पुमान् । 009a
अहिंसाशीलसंयोगाद्धर्मश्चाऽऽकुलतां व्रजेत् ॥ 009c
धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः । 010a
शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि ॥ 010c
असितं सितकर्माणं यथा दान्तं तपस्विनम् । 011a
वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः ॥ 011c
यदि घातयते कश्चित्पापसत्वं प्रजाहितः । 012a
सर्वसत्वहितार्थाय न तेनासौ विहिंसकः ॥ 012c
द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च । 013a
महिषं च वराहं च सूकरं श्वानपन्नगान् ॥ 013c
गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च । 014a
वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित् ॥ 014c
ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शुचिः । 015a
श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकृत्तमः ॥ 015c
दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः । 016a
प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वाऽस्थिराम् ॥ 016c
शीलं वाऽनुत्तमं कर्म कुर्याद्राजा समाहितः । 017a
नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु ॥' 017c
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् । 018a
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ॥ 018c
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् । 019a
अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम् ॥ 019c
सचिवं देशकालज्ञं सर्वसङ्ग्रहणे रतम् । 020a
संस्कृतं युक्तवचनं हितैषिणमतन्द्रितम् ॥ 020c
युक्ताचारं स्वविषये सन्धिविग्रहकोविदम् । 021a
शस्तं त्रिवर्गवेत्तारं पौरजानपदप्रियम् ॥ 021c
सेनाव्यूहनतत्त्वज्ञं बलहर्षणकोविदम् । 022a
इङ्गिताकारतत्त्वज्ञं यात्रासेनाविशारदम् ॥ 022c
हस्तिशिक्षाश्वतत्त्वज्ञमहङ्कारविवर्जितम् । 023a
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तमन्त्रिणम् ॥ 023c
चौक्षं चौक्षजनाकीर्णं सुवेषं सुखदर्शनम् । 024a
नायकं नीतिकुशलं गुणैः षड्भिः समन्वितम् ॥ 024c
अस्तब्धं प्रश्रितं श्लक्ष्णं मृदुवादिनमेव च । 025a
धीरं शूरं महर्द्धिं च देशकालोपपादकम् ॥ 025c
सचिवं यः प्रकुरुते न चैनमवमन्यते । 026a
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥ 026c
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः । 027a
एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥ 027c
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् । 028a
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ॥ 028c
मेधावी धारणायुक्तो यथान्यायोपपादकः । 029a
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥ 029c
नातिच्छेत्ता स्वयङ्कारी श्रद्धालुः सुखदर्शनः । 030a
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः ॥ 030c
नाहंवादी ननिर्द्वन्द्वो नयत्किञ्चनकारकः । 031a
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ॥ 031c
सङ्गृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा । 032a
त्राता भृत्यजनापेक्षी न क्रोधी सुमहामनाः ॥ 032c
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः । 033a
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा ॥ 033c
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् । 034a
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगणैर्वृताः ॥ 034c
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे । 035a
न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता ॥ 035c
योधाः समरशौण्डीराः कृतज्ञाः शास्त्रकोविदाः । 036a
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः ॥ 036c
अर्थमानविवृद्धाश्च रथचर्याविशारदाः । 037a
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ॥ 037c
'ज्ञातीनामनवज्ञानं भृत्येष्वशठता तथा । 038a
नैपुणं चार्थचर्यासु यस्यैते तस्य सा मही ॥ 038c
आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता । 039a
यस्तैतानि न विद्यन्ते तस्यैव सुचिरं मही ॥ 039c
वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता । 040a
धर्मचर्याः सदा यस्य तस्येयं सुचिरं मही ॥ 040c
नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च । 041a
रिपूणामनवज्ञानं तस्येयं सुचिरं मही ॥ 041c
उत्थानं चैव दैवं च तयोर्नानात्वमेव च ॥ 042a
मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि ॥ 042c
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत । 043a
नयानयविधानज्ञः सदा भव कुरूद्वह ॥ 043c
दुर्हृदां छिद्रदर्शी यः सुहृदामुपकारवान् । 044a
विशेषविच्च भृत्यानां स राज्यफलमश्नुते ॥' 044c
सर्वसङ्ग्रहणे युक्तो नृपो भवति यः सदा । 045a
उत्थानशीलो मन्त्राढ्यः स राजा राजसत्तमः ॥ 045c
शक्या चाश्वसहस्रेण वीरारोहेण भारत । 046a
सङ्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा ॥ 046c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

12-118-6 अकुलीनस्तु निन्दामात्रेण शत्रुतां व्रजेत् । साधुसंश्रयादिति झ. पाठः ॥ 12-118-19 स्वामिनो मित्राणां बुभूषकम् ऐश्वर्यलिप्सुम् ॥ 12-118-20 सर्वसङ्ग्रहणे प्राणिमात्ररञ्जने ॥ 12-118-24 चौक्षं शुद्धम् ॥ 12-118-28 मर्षी क्षमी ॥ 12-118-29 विपर्ययेऽक्षमावति अपकारिणि क्षमावान् ॥ 12-118-31 ननिर्द्वन्द्वो ननिष्परिग्रहः ॥ 12-118-33 चारनेत्रः परापेक्षी इति ट. ड. थ. पाठः ॥ 12-118-37 अभया गजपृष्ठस्थाः इति झ. पाठः ॥