अध्यायः 117

मुनिवरेण व्याघ्रीकृतस्य स्वीयशुनो गजाद्भये सति गजत्वप्रापणम् ॥ 1 ॥ पुनः सिंहाद्भये सिंहीकृतस्य तस्यैव शरभाद्भये शरभीकरणम् ॥ 2 ॥ दुष्टभावेनात्मजिघांसोस्तस्य पुनः श्वभावप्रापणम् ॥ 3 ॥ भीष्म उवाच 001
व्याघ्रश्चोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः । 001a
नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः ॥ 001c
प्रभिन्नकरटः प्रांशुः पद्मी विततकुम्भकः । 002a
सुविषाणो महाकायो मेघगम्भीरनिःस्वनः ॥ 002c
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम् । 003a
व्याघ्रो हस्तिभयान्त्रस्तस्तमृषिं शरणं ययौ ॥ 003c
ततोऽनयत्कुञ्जरत्वं व्याघ्रं तमृषिसत्तमः । 004a
महमेघोपमं दृष्ट्वा स भीतो ह्यभवद्गजः ॥ 004c
ततः कमलषण्डानि सल्लकीगहनानि च । 005a
व्यचरत्स मुदायुक्तः पद्मरेणुविभूषितः ॥ 005c
कदचिद्भ्रममाणस्य हस्तिनः सम्मुखं तदा । 006a
ऋषेस्तस्योटजस्थस्य कालोऽगच्छद्दिवानिशम् ॥ 006c
अथाजगाम तं देशं केसरी केसरारुणः । 007a
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः ॥ 007c
तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयार्दितः । 008a
ऋषिं शरणमापेदे वेपमानो भयातुरः ॥ 008c
स ततः सिंहतां नीतो गजेन्द्रो मुनिना तदा । 009a
तं च नागणयत्सिंहं तुल्यजातिसमन्वयात् ॥ 009c
दृष्ट्वा च सोऽभवत्सिंहो वन्यो हिंसन्नवाग्बलः । 010a
स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव सुखी वने ॥ 010c
न चान्ये क्षुद्रपशवस्तपोवनसमीपतः । 011a
व्यदृश्यन्त तदा त्रस्ता जीविताकाङ्क्षिणस्तथा ॥ 011c
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः । 012a
बलवान्क्षतजाहारो नानासत्वभयङ्करः ॥ 012c
अष्टपादूर्ध्वनयनः शरभो वनगोचरः । 013a
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशने ॥ 013c
'तं दृष्ट्वा शरभं यान्तं सिंहः परभयान्वितः । 014a
ऋषिं शरणमापेदे वेपमानः कृताञ्जलिः ॥' 014c
तं मुनिः शरभं चक्रे बलोत्कटमरिन्दम । 015a
ततः स शरभो वन्यो मुनेः शरभमग्रतः । 015c
दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्वनम् ॥ 015e
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा । 016a
मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान् ॥ 016c
ततः शरभसन्त्रस्ताः सर्वे मृगगणा वनात् । 017a
दिशः सम्प्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः ॥ 017c
शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः । 018a
फलमूलाशनं कर्तुं नैच्छत्स पिशिताशनः ॥ 018c
ततः क्षुद्रसमाचारो बलेन च समन्वितः । 019a
इयेष तं मुनिं हन्तुमकृतज्ञः कृतान्वयः ॥ 019c
'चिन्तयामास च तदा शरभः श्वानपूर्वकः ॥ 020ac
अस्य प्रभावात्सम्प्राप्तो वाङ्मात्रेणैव केवलम् । 021a
शरभत्वं सुदुष्प्रापं सर्वभूतभयङ्करम् ॥ 021c
अन्येऽप्यत्र भयत्रस्ताः सन्ति सत्वा भयार्दिताः । 022a
मुनिमाश्रित्य जीवन्तो मृगाः पक्षिगणास्तथा ॥ 022c
तेषामपि कदाचिच्च शरभत्वं प्रयच्छति । 023a
सर्वसत्वोत्तमं लोके बलं यत्र प्रतिष्ठितम् ॥ 023c
पक्षिणामप्ययं दद्यात्कदाचिद्गारुडं बलम् ॥ 024ac
यावदन्यस्य सम्प्रीतः कारुण्यं तु समाश्रितः । 025a
न ददाति बलं तुष्टः सत्वस्यान्यस्य कस्यचित् ॥ 025c
तावदेनमहं विप्रं वधिष्यामि च शीघ्रतः । 026a
स्थातुं मया शक्यमिह मुनिघातान्न संशयः ॥' 026c
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा । 027a
विज्ञाय च मुनिः प्राज्ञस्ततः शापं प्रयुक्तवान् ॥ 027c
'अहमग्निप्रभो नाम मुनिर्भृगुकुलान्वयः । 028a
मनसा निर्दहेयं च जगत्सन्धारयामि च ॥ 028c
मम वश्यं जगत्सर्वं देवा यच्च चराचरम् । 029a
सन्ति देवाश्च ये भीताः स्वधर्मं न त्यजन्ति ये । 029c
स्वधर्माच्चलितान्सर्वान्वाङ्मात्रेणापि निर्दहे ॥ 029e
किमङ्ग त्वं मया नीतः शरभत्वमनामयम् । 030a
क्रूरः स सर्वभूतेषु हीनश्चाशुचिरेव च ॥' 030c
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः । 031a
व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः ॥ 031c
सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः । 032a
मया स्नेहपरीतेन विसृष्टो न कुलान्वयः ॥ 032c
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि । 033a
तस्मात्स्वयोनिमापन्नः पुनः श्वानो भविष्यसि ॥ 033c
ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः । 034a
ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान् ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

12-117-1 मृगैस्तृप्तः ॥ 12-117-9 समन्वयात्सम्बन्धात् ॥ 12-117-19 ततो रुधिरतर्षेण बलिना शरभोऽन्वितः इति झ. पाठः ॥ 12-117-31 मदपटुः प्रवहन्मदः ॥ 12-117-32 विसृष्टो विविधेन रूपेण त्वं सृष्टः । न तु त्वं कुलान्वयः । तेन तेन कुलेनान्वयः सम्बन्धो यस्य स कुलान्वयस्तादृशस्त्वं न भवसि ॥ 12-117-33 श्वैव त्वं हि भविष्यसीति झ. पाठः ॥