अध्यायः 116

केनचिन्मुनिवरेण द्वीपिभये सति द्वीपित्वम् प्रापितस्य स्वीयशुनःपुनर्व्याघ्राद्भये सति व्याघ्रीकरणम् ॥ 1 ॥ 'युधिष्ठिर उवाच 001
न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु । 001a
अकुलीनाश्च कर्तव्या न वा भरतसत्तम ॥' 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
निदर्शनं परं लोके सज्जनाचरितं सदा ॥ 002c
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने । 003a
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥ 003c
वने महति कस्मिंश्चिदमनुष्यनिषेविते । 004a
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥ 004c
दीक्षादमपरिश्रान्तः स्वाध्यायपरमः शुचिः । 005a
उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥ 005c
तस्य सन्दृश्य सद्भावमुपविष्टस्य धीमतः । 006a
सर्वे सत्वाः समीपस्था भवन्ति वनचारिणः ॥ 006c
सिंहा व्याघ्राः सशरभा मत्ताश्चैव महागजाः । 007a
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः ॥ 007c
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः । 008a
तस्यर्षेः शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः ॥ 008c
उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम् । 009a
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम् ॥ 009c
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः । 010a
फलमूलोत्तराहारः शान्तः शिष्टाकृतिर्यथा ॥ 010c
तस्यर्षेरुपविष्टस्य पादमूले महामतेः । 011a
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम् ॥ 011c
ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः । 012a
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालइवान्तकः ॥ 012c
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः । 013a
व्यादितास्यः क्षुधा भुग्नः प्रार्थयानस्तदामिषम् ॥ 013c
दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप । 014a
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशाम्पते ॥ 014c
श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति । 015a
त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने । 015c
[तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः ॥ 015e
स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम् । 016a
रुतज्ञः सर्वसत्वानां तमैश्वर्यसमन्वितः ॥] 016c
मुनिरुवाच 017
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथञ्चन । 017a
एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥ 017c
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः । 018a
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः ॥ 018c
तं दृष्ट्वा सम्मुखे द्वीपी आत्मनः सदृशं पशुम् । 019a
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत ॥ 019c
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः । 020a
द्वीपिनं लेलिहन्वक्त्रं व्याघ्रो रुधिरलालसः ॥ 020c
व्याघ्रं दृष्ट्वा क्षुधा भुग्नं दंष्ट्रिणं वनचारिणम् । 021a
द्वीपि जीवितरक्षार्थमृषिं शरणमेयिवान् ॥ 021c
ततः संवासजं स्नेहमृषिणा कुर्वता तदा । 022a
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः ॥ 022c
ततोऽदृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशाम्पते । 023a
स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः ॥ 023c
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा । 024a
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः । 024c
तथैव स महाराज व्याघ्रः समभवत्तदा ॥ 024e

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥

12-116-2 अत्र उत्तमाधममध्यमस्थानेषु क्रमात् तएव योज्या नतु उच्चस्थाने नीचो नियोज्य इत्यस्मिन्नर्थे ॥ 12-116-3 अस्यैव वक्ष्यमाणस्य ॥ 12-116-6 सत्वाः प्राणिनः ॥ 12-116-8 सुखप्रश्नदाः सुखिनः स्थ इति प्रश्नस्योत्तरं सुखिनः स्मः इति तत्प्रदा इत्यर्थः ॥ 12-116-11 भावं चित्तम् ॥ 12-116-13 सुधामत्तः इति ड. थ. पाठः ॥ 12-116-17 द्वीपिनो द्वीपिरूपान्मृत्युतः ॥ 12-116-21 क्षुधाभुग्नं पीडितम् ॥