अध्यायः 115
भीष्मेण युधिष्ठिरम् प्रति राज्ञां सहायसम्पादनस्यावश्यकतादिप्रतिपादनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ संशयो मे महानयम् । 001a
सञ्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः ॥ 001c
पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् । 002a
कथितो वाक्यसञ्चारस्ततो विज्ञापयामि ते ॥ 002c
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् । 003a
अायत्यां च तदात्वे च क्षेमवृद्धिकरं च तत् ॥ 003c
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् । 004a
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे ॥ 004c
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत । 005a
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ॥ 005c
यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः । 006a
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ॥ 006c
तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः । 007a
न च भृत्यबलैरर्थैः स राजा सम्प्रयुज्यते ॥ 007c
एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम् । 008a
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ॥ 008c
शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः । 009a
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा ॥ 009c
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् । 010a
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ॥ 010c
कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः । 011a
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते ॥ 011c
न ह्येको भृत्यरहितो राजा भवति रक्षिता । 012a
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति ॥ 012c
भीष्म उवाच 013
न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत ॥ 013ac
असहायवता तात नैवार्थाः केचिदप्युत । 014a
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ ॥ 014c
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः । 015a
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ॥ 015c
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः । 016a
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः ॥ 016c
अनागतविधातारः कालज्ञानविशारदाः । 017a
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ॥ 017c
समदुःखसुखा यस्य सहायाः प्रियकारिणः । 018a
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते ॥ 018c
यस्य नार्तो जनपदः सन्निकर्षगतः सदा । 019a
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत् ॥ 019c
कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः । 020a
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः ॥ 020c
कोष्ठागारमसंहार्यैराप्तैः सञ्चयतत्परैः । 021a
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत् ॥ 021c
व्यवहारश्च नगरे यस्य धर्मफलोदयः । 022a
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः ॥ 022c
सङ्गृहीतमनुष्यश्च यो राजा राजधर्मवित् । 023a
षड्भागं परिगृह्णाति स धर्मफलमश्नुते ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥
12-115-2 अयं निन्दारूपः ॥ 12-115-3 हिनम् अनिन्द्यम् । आयत्याम् उत्तरकाले । तदात्वे वर्तमानाकले ॥ 12-115-5 मित्रसुहृदौ प्रत्युपकारमपेक्ष्यानपेक्ष्य चोपकर्तारौ तद्वान् । समुपेतः शौर्यादिनेति शेषः ॥ 12-115-7 भृत्यबलप्राप्यैरर्थैर्धनादिभिः ॥ 12-115-14 लब्धुं लब्धाश्च रक्षितुं शक्या इति शेषः ॥ 12-115-16 असंहार्याः उत्कोचादिना अभेद्याः ॥ 12-115-21 कोष्ठागारं धान्यादिसामग्रीगृहम् । गुणीभवेत् बहुगुणिभावं गच्छेत् ॥ 12-115-22 व्यवहारः अर्थिप्रत्यर्थिनोर्विवादे निर्णयः । शङ्खलिखित इति । यथा फलमात्रस्तेने शङ्खेन लिखितस्य हस्तच्छेदो राजानं प्रतिषेधयित्वा कारितस्तद्वदित्यर्थः ॥