अध्यायः 114
भीष्मेण युधिष्ठिरम् प्रति सभायां दुष्टदुर्भाषणे तत्तितिक्षाया गुणत्वप्रतिपादनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
विद्वान्मूढप्रगल्भेन मृदुस्तीक्ष्णेन भारत । 001a
आक्रुश्यमानः सदसि कथं कुर्यादरिन्दम ॥ 001c
भीष्म उवाच 002
श्रूयतां पृथिवीपाल यथैऽषोर्थोऽवगम्यते । 002a
सदा सचेताः सहते नरस्येहाल्पचेतसः ॥ 002c
आक्रुश्य दूष्यमाणश्च सुकृतं तस्य विन्दति । 003a
दुष्कृतं चात्मनो मर्षी तस्मिन्नेव प्रमार्जति ॥ 003c
गर्हितं तमुपेक्षेत वाश्यमानमिवातुरम् । 004a
लोके विद्वेषमापन्नो निष्फलं प्रतिपद्यते ॥ 004c
इति संश्लाघते नित्यं तेन पापेन कर्मणा । 005a
इदमुक्तो मया कश्चित्सर्वतो जनसंसदि । 005c
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठते ॥ 005e
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः । 006a
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ॥ 006c
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्तदा ॥ 007ac
प्रकृत्या हि प्रशंसन्वा निन्दन्वा किं करिष्यति । 008a
वने काक इवाबुद्धिर्वाश्यमानो निरर्थकम् ॥ 008c
यदि वाग्भिः प्रयोगः स्यात्प्रयोज्यः पापकर्मणा । 009a
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥ 009c
निषेकं वै परस्यासावाचष्टे वृत्तचेष्टया । 010a
मयूर इव कौपीनं नृत्यं सन्दर्शयन्निव ॥ 010c
यस्यावाच्यं न लोकेऽस्मिन्नाकार्यं चापि किञ्चन । 011a
वाचं तेन न सन्दध्याच्छुचिः संश्लिष्टकर्मणा ॥ 011c
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः । 012a
स मानवः श्ववल्लोके नष्टलोकपरायणः ॥ 012c
तादृग्दिनशतं चापि यद्ददाति जुहोति च । 013a
परोक्षेणापवादेन तं नाशयति तत्क्षणात् ॥ 013c
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् । 014a
वर्जयेन्मतिमान्वर्ज्यं सारमेयामिषं यथा ॥ 014c
परिवादं ब्रुवाणो हि दुरात्मा वै महाजने । 015a
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोन्नतम् ॥ 015c
तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति । 016a
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥ 016c
मनुष्यसालावृकमप्रशान्तं जनापवादे सततं निविष्टम् । 017a
मातङ्गमुन्मत्तमिवोन्नदन्तं त्यजेत तं श्वानमिवातिरौद्रम् ॥ 017c
अनार्यजुष्टे पथि वर्तमानं दमादपेतं विनयाच्च पापम् । 018a
अरिव्रतं नित्यमभूतिकामं धिगस्तु तं पापमतिं मनुष्यम् ॥ 018c
प्रत्युच्यमानस्त्वथ भूय एव निशाम्य माभूस्त्वमथार्तरूपः । 019a
उच्चस्य नीचेन हि सम्प्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये ॥ 019c
क्रुद्धो दशेद्वाऽपि च ताडयेद्वा स पांसुभिर्वा विकिरेत्तुषैर्वा । 020a
विवृत्य दन्तांश्च विभीषयेद्वा सिद्धं हि मूढे कुपिते नृशंसे ॥ 020c
विगर्हणां नाऽपि दुरात्मना कृतां सहेत यः संसदि दुर्जनानाम् । 021a
पठेदिदं चापि निदर्शनं सदा न वाङ्मयं स लभति किञ्चिदप्रियम् ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
12-114-1 मूढश्चासौ प्रगल्भश्च तेन ॥ 12-114-2 सहते दुरुक्तम् ॥ 12-114-3 मर्षी तितिक्षुः ॥ 12-114-4 वाश्यमानं रटन्तम् ॥ 12-114-9 यथा वाचा हतो न हन्यते एवं वाचा दूषितो न दुष्यतीत्यर्थः ॥ 12-114-10 स एवं वदन्वृत्तेन क्रियया चेष्टया वागादिव्यापारेण च लिङ्गेन निषेकं स्वमातरि रेतःसेकं परस्य परेण पितुरन्येन कृतमित्याचष्टे व्यक्तं कथयति । कौपीनं गुह्यप्रदेशं सन्दर्शयन्निव नृत्यं कुर्वन्मयूरो यथा श्लाघते सम्यङ्नृत्यामीति मन्यते नतु मम गुह्यं लोकाः पश्यन्तीति त्रपते एवं खलोपि मया स महानमुकसभायां दुरुक्तमुक्त इति श्लाघते नत्वनेन मम मातुर्दोषः स्पष्टीक्रियते मयैवेति न त्रपते इत्यर्थः ॥ 12-114-11 मयूर इव कालीनम् इति थ. द. पाठः । संश्लिष्टजन्मना इति ट. थ. द. पाठः ॥ 12-114-13 तादृक्पुमान् ॥ 12-114-14 सारमेयामिषं शुनोमांसम् ॥ 12-114-15 दोषान् जारजत्वादीन् ॥ 12-114-16 भस्मकूटे भस्मराशौ स्वर इवाबुद्धिः रजसि दुःखे निमज्जति ॥ 12-114-17 सालावृकं श्वानमेव मनुष्यत्वेन लोके गृहीतमित्यर्थः ॥ 12-114-20 क्रुद्धो दशार्धेन हि ताडयेद्वा इति झ. पाठः । तत्र दशार्धेन संवृताङ्गुलिपञ्चकेन पाणिनेत्यर्थः । इदं सर्वं कुपितमूढे सिद्धमेव ॥