अध्यायः 113
भीष्मेण युधिष्ठिरम् प्रति बलवच्छत्रुवशीकरणे विनयस्योपायतायां दृष्टान्ततया सरित्सागरसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ । 001a
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
सरितां चैव संवादं सागरस्य च भारत ॥ 002c
सुरारिनिलयः शश्वत्सागरः सरितां पतिः । 003a
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥ 003c
सागर उवाच 004
समूलशाखान्पश्यामि निहतान्क्वापि नो द्रुमान् । 004a
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसान् ॥ 004c
अल्पकायश्चाल्पसारो वेतसः कूलजश्च यः । 005a
अवज्ञया वा नानीतः किं च वा तेन वः कृतम् ॥ 005c
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् । 006a
यथा चेमानि कूलानि हित्वा नायाति वेतसः ॥ 006c
तत्र प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् । 007a
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् ॥ 007c
गङ्गोवाच 008
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः । 008a
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यान्न वेतसः ॥ 008c
वेतसो वेगमायान्तं दृष्ट्वा नमति नापरे । 009a
स च वेगे ह्यतिक्रान्ते स्थानमापद्यते पुनः ॥ 009c
कालज्ञः समयज्ञश्च सदावश्यश्च नो द्रुमः । 010a
अनुलोमवृत्तिरस्तब्धस्तेन त्वां नैति वेतसः ॥ 010c
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च । 011a
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥ 011c
भीष्म उवाच 012
यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने । 012a
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति ॥ 012c
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः । 013a
जानन्विचरति प्राज्ञो न स याति पराभवम् ॥ 013c
एवमेव यदा विद्वान्मन्यते विपुलं बलम् । 014a
संश्रयेद्वैतसीं वृत्तिमेतत्प्रज्ञानलक्षणम् ॥ 014c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥
12-113-4 निहतानुन्मूलितान् । कायिन इति पाठे महाशरीरान् । अन्यानल्पशरीरान्वेतसान् न हतान्पश्यामि ॥ 12-113-5 अवज्ञाय न शक्यो वा इति द. पाठः ॥ 12-113-8 एकनिकेतनाः स्तब्धा इत्यर्थः । प्रातिलोम्यादस्माकं प्रातिकूल्यात् ॥ 12-113-14 वैतसीं वृत्तिमस्तब्धत्वम् ॥