अध्यायः 112
भीष्मेण युधिष्ठिरम् प्रति अलसताया अनर्थहेतुताख्यापकोट्रचरिताभिधानम् ॥ 1 ॥
युधिष्ठिर उवाच 001
किं पार्थिवेन कर्तव्यं किञ्च कृत्वा सुखी भवेत् । 001a
तन्ममाचक्ष्व तत्त्वेन सर्वधर्मभृतां वर ॥ 001c
भीष्म उवाच 002
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् । 002a
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥ 002c
नचैवं वर्तितव्यं स्म यथेदमनुशुश्रुम । 003a
उष्ट्रस्य तु महद्वृत्तं तन्निबोध युधिष्ठिर ॥ 003c
जातिस्मरो महानुष्ट्रः प्रजापतिकुलोद्भवः । 004a
तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥ 004c
तपसस्तस्य चान्तेऽथ प्रीतिमानभवद्विभुः । 005a
वरेण च्छन्दयामास ततश्चैनं पितामहः ॥ 005c
उष्ट्र उवाच 006
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् । 006a
योजनानां शतं साग्रमिच्छेयं चरितुं विभो ॥ 006c
एवमस्विति चोक्तः स वरदेन महात्मना । 007a
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥ 007c
स चकार तदाऽऽलस्यं वरदानात्सुदुर्मतिः । 008a
न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः ॥ 008c
स कदाचित्प्रसार्यैव तां ग्रीवां शतयोजनाम् । 009a
चचार श्रान्तहृदयो वातश्चागात्ततो महान् ॥ 009c
स गुहायां शिरोग्रीवां निधाय पशुरात्मनः । 010a
आस्ते वर्षमथाभ्यागात्सुमहत्प्लावयज्जगत् ॥ 010c
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः । 011a
सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥ 011c
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः ॥ 012a
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥ 012c
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशु । 013a
तदा सङ्कोचने यत्नमकरोद्भृशदुःखितः ॥ 013c
यावदूर्ध्वमधश्चैव ग्रीवां सङ्क्षिपते पशुः । 014a
तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥ 014c
स हत्वा भक्षयित्वा च तमुष्ट्रं जम्बुकस्तदा । 015a
विगते वातवर्षे तु निश्चक्राम गुहोदरात् ॥ 015c
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा । 016a
आलस्यस्य क्रमात्पश्य महान्तं दोषमागतम् ॥ 016c
त्वमप्येवंविधं हित्वा योगेन नियतेन्द्रियः । 017a
वर्तस्व बुद्धिमूलं तु विजयं मनुरब्रवीत् ॥ 017c
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । 018a
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ 018c
राज्यं तिष्ठति दक्षस्य सङ्गृहीतेन्द्रियस्य च । 019a
[आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत् ।] 019c
गुप्तं मन्त्रं श्रुतवतः सुसहायस्य चानघ ॥ 019e
'असहायवतो ह्यर्था न तिष्ठन्ति कदाचन ।' 020a
'परीक्षितसहायस्य तिष्ठन्तीह युधिष्ठिर । 020c
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥ 020e
इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभावः । 021a
मयाऽपि चोक्तं तव शास्त्रदृष्ट्या त्वमप्रमत्तः प्रचरस्व राजन् ॥ 021c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥
12-112-8 चरितुं भक्षितुम् ॥ 12-112-17 योगेनोपायेन । एवंविधमालस्यम् ॥ 12-112-18 बाहूपलक्षितं शौर्यम् । जङ्घोपलक्षितं पादविहरणम् । भारो भारवहनम् ॥