अध्यायः 111
भीष्मेण युधिष्ठिरम् प्रति परीक्षायाः सौम्यासौम्यत्वनिर्धारणसाधनताप्रतिपादकव्याघ्रगोमायुचरितकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यरूपिणः । 001a
तादृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥ 002c
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः । 003a
परहिंसापरः क्रूरो बभूव पुरुषाधमः ॥ 003c
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् । 004a
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा ॥ 004c
संस्मृत्य पूर्वजातिं स्वां निर्वेदं परमं गतः । 005a
न भक्षयति मांसानि परैरुपहृतान्यपि ॥ 005c
अहिंसा सर्वभूतेषु सत्यवाक् सुदृढव्रतः । 006a
चकार च यथाकालमाहारं पतितैः फलैः ॥ 006c
'पर्णाहारः कदाचिच्च नियमव्रतवानपि । 007a
कदाचिदुदकेनापि वर्तयन्न तु यन्त्रितः ॥' 007c
श्मशाने तस्य चावासो गोमायोः सम्मतोऽभवत् । 008a
जन्मभूम्यनुरोधाच्च नान्यं वा समरोचयत् ॥ 008c
तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः । 009a
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥ 009c
वसन्पितृवने रौद्रे शौचं लम्भितुमिच्छसि । 010a
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥ 010c
तत्समानो भवास्माभिर्भक्ष्यं दास्यामहे वयम् । 011a
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥ 011c
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः । 012a
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥ 012c
अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम् । 013a
प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः ॥ 013c
श्मशाने यदि मे वासः समाधिर्मे निशाम्यताम् । 014a
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥ 014c
आश्रमे यो द्विजं हन्याद्दानं दद्यादनाश्रमे । 015a
किन्तु तत्पातकं न स्यात्तद्वा दानं वृथा भवेत् ॥ 015c
भवन्तः स्वार्थलोभेन केवलं भक्षणे रताः । 016a
अनुबन्धेषु ये दोषास्तान्न पश्यन्ति मोहिताः ॥ 016c
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् । 017a
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥ 017c
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः । 018a
कृत्वाऽऽत्मसदृशीं पूजां साचिव्येऽवरयत्स्वयम् ॥ 018c
शार्दूल उवाच 019
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह । 019a
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥ 019c
तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे । 020a
मृदुपूर्वं प्रशाधि त्वं श्रेयश्चाधिगमिष्यसि ॥ 020c
भीष्म उवाच 021
अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः । 021a
गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः ॥ 021c
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे । 022a
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥ 022c
न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम् । 023a
दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥ 023c
सहायाननुरक्तांश्च नयज्ञानुपसंहितान् । 024a
परस्परमसन्तुष्टान्विजिगीषूनलोलुपान् ॥ 024c
अनतीतोपदान्प्राज्ञान्हिते युक्तान्मनस्विनः । 025a
पूजयेथा महाभाग यथा भ्रातॄन्यथा पितॄन् ॥ 025c
न त्वेव मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप । 026a
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥ 026c
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः । 027a
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥ 027c
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् । 028a
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥ 028c
दीर्घदर्शी महोत्साहः स्थूललक्षो महाबलः । 029a
कृते चामोघकर्ताऽसि भाग्यैश्च समलङ्कृतः ॥ 029c
किन्तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता । 030a
सेवायां चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥ 030c
प्राज्ञोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् । 031a
वनचर्या तु निःसङ्गा निर्भया विरवग्रहा ॥ 031c
नृपेण ह्रियमाणस्य यत्तिष्ठति भयं हृदि । 032a
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥ 032c
पानीयं वा निरायासं स्वाद्वन्नं वा गुणोत्तरम् । 033a
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ 033c
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः । 034a
उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥ 034c
यदि वा तन्मया कार्यं मृगेन्द्र यदि मन्यसे । 035a
समयं कृतमिच्छामि वर्तितव्यं यथाविधि ॥ 035c
मदीया माननीयास्ते श्रोतव्यं च हितं वचः । 036a
कल्पिता या च मे वृत्तिः सा भवेत्त्वयि सुस्थिरा ॥ 036c
न मन्त्रणीयमन्यैस्ते सचिवैः सह कर्हिचित् । 037a
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥ 037c
एक एकेन सङ्गम्य रहो ब्रूयां हितं वचः । 038a
न च ते ज्ञातिकार्येषु प्रष्टव्योऽस्मि हिताहिते ॥ 038c
मया सम्मन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया । 039a
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥ 039c
भीष्म उवाच 040
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः । 040a
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रचोदितः ॥ 040c
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मसु । 041a
प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः ॥ 041c
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च । 042a
दोषेषु समयान्नेतुमिच्छन्त्यशुभबुद्धयः ॥ 042c
अन्यथा ह्युषिताः पूर्वं परद्रव्यापहारिणः । 043a
अशक्ताः किञ्चिदाहर्तुं द्रव्यं गोमायुयन्त्रिताः ॥ 043c
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रतिलोभ्यते । 044a
धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥ 044c
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह । 045a
अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥ 045c
ईप्सितं तु मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् । 046a
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥ 046c
यदर्थं चाप्यपहृतं येन तच्चैव मन्त्रितम् । 047a
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥ 047c
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता । 048a
नोपघातस्त्वया कार्यो राजन्मैत्रीमिहेच्छता | 048c
'इति तस्य च मन्त्रस्य स्थित्यर्थं तदुपेक्षितम् ॥' 048e
[क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च] 049a
भोजने चोपहर्तव्ये तन्मांसं नह्यदृश्यत । 049c
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥ 049e
कृतकैश्चापि तन्मांसं मृगेन्द्राय निवेदितम् । 050a
सचिवेनापनीतं ते विदुषा प्राज्ञमानिना ॥ 050c
सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् । 051a
बभूवामर्षितो राजा वधं चास्य व्यरोचयत् ॥ 051c
छिद्रं तु तस्य तदृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः । 052a
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते । 052c
निश्चित्यैवं पुनस्तस्य ते तत्कर्मण्यवर्तयन् ॥ 052e
इदं तस्येदृशं कर्म किं तेन न कृतं भवेत् । 053a
श्रुतश्च स्वामिना पूर्वं यादृशो नैव तादृशः ॥ 053c
वाङ्भात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः । 054a
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ॥ 054c
कार्यार्थं भोजनाद्येषु व्रतेषु कृतवाञ्श्रमम् । 055a
यदि विप्रत्ययो ह्येष तदिदं दर्शयाम ते ॥ 055c
तन्मांसं तैश्च गोमायोस्तत्क्षणादाशु ढौकितम् ॥ 056ac
मांसापनयनं श्रुत्वा व्याघ्रस्तेषां च तद्वचः । 057a
आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥ 057c
गोमायोर्व्यसनं श्रुत्वा शार्दूलजननी ततः । 058a
मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् ॥ 058c
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंयुतम् । 059a
कर्म सङ्घर्षजैर्दोषैर्दुष्येताशुचिभिः शुचिः ॥ 059c
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका । 060a
शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥ 060c
[मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः 061a
उत्पाद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः ॥] 061c
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः । 062a
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः । 062c
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः ॥ 062e
बहवो पण्डिता मूर्खा लुब्धा मायोपजीविनः । 063a
आहुर्दोषमदोषस्य बृहस्पतिमतेरपि ॥ 063c
सुन्यस्तं ते गृहे मांसं यदद्यापहृतं तव । 064a
नेच्छते दीयमानं च साधु तावद्विधीयताम् ॥ 064c
असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शनाः । 065a
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ 065c
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । 066a
न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः ॥ 066c
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परीक्षितुम् । 067a
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात्परितप्यते ॥ 067c
न दुष्करमिदं पुत्रं यत्प्रभुर्घातयेत्परम् । 068a
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा ॥ 068c
स्थापितोऽयं त्वया पुत्र सामन्तेष्वपि विश्रुतः । 069a
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥ 069c
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् । 070a
स्वयं सन्दूषितामात्यः क्षिप्रमेव विनश्यति ॥ 070c
एतस्मादरिसङ्घाताद्गोमायोः कश्चिदागतः । 071a
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥ 071c
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः । 072a
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥ 072c
अनुज्ञाय मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् । 073a
तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत ॥ 073c
गोमायुं तु स शार्दूलः स्नेहात्प्रसृतलोचनः । 074a
न्यवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥ 074c
तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमः । 075a
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥ 075c
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः । 076a
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥ 076c
असन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः । 077a
स्वयं चोपद्रुता भृत्या ये चाप्युपहिताः परैः ॥ 077c
परिक्षीणाश्च लुब्धाश्च क्रुद्धा भीताः प्रतारिताः । 078a
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥ 078c
संलालिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः । 079a
अन्तर्हिताः सोहपृतास्ते सर्वेऽपरसाधनाः ॥ 079c
अवमानेन युक्तस्य स्थापितस्य च मे पुनः । 080a
कथं यास्यसि विश्वासमहमेष्वामि वा कथम् ॥ 080c
समर्थ इति सङ्गृह्य स्थापयित्वा परीक्षितः । 081a
कृतं च समयं भित्त्वा त्वयाऽहमवमानितः ॥ 081c
प्रथमं यः समाख्यातः शीलवानिति संसदि । 082a
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥ 082c
एवं चावमतस्येह विश्वासं मे न यास्यसि । 083a
त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति ॥ 083c
शङ्कितस्त्वमहं भीतः परे च्छिद्रानुसारिणः । 084a
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥ 084c
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते । 085a
भिन्नश्लिष्टे तु या प्रीतिर्न सा स्नेहेन वर्धते ॥ 085c
कश्चित्तव हिते भर्तुर्दृश्यते न परात्मनः । 086a
कार्यापेक्षा हि वर्न्तते भावस्निग्धाः सुदुर्लभाः ॥ 086c
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् । 087a
समर्थो वाप्यशङ्को वा शतेष्वेकोऽधिगम्यते ॥ 087c
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् । 088a
शुभाशुभे महत्त्वं च प्रहर्तुं बुद्धिलाघवम् ॥ 088c
भीष्म उवाच 089
एवंविधं सान्त्वमुक्त्वा धर्मकामार्थहेतुमत् । 089a
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥ 089c
अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान् । 090a
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥ 090c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥
12-111-10 विप्रतिपत्तिर्विपरीता बुद्धिः ॥ 12-111-16 अनुबन्धेषु परिणामेषु ॥ 12-111-17 अप्रत्ययोऽसन्तोषस्तेन कृताम् । अर्थापनयो धर्महानिः ॥ 12-111-19 यात्रां राजकार्यं गच्छ प्राप्नुहि । परिहार्याश्चानीप्सिताः ॥ 12-111-20 ज्ञापयामहे सूचयामहे ॥ 12-111-22 मदन्तरे मन्निमित्तम् ॥ 12-111-23 न शक्यम् । राज्ञेति शेषः ॥ 12-111-26 न त्वेष मम सन्तोषादिति ट. ड. थ. द. पाठः ॥ 12-111-27 योक्ष्यति योगं प्राप्स्यति । दुःखशीला भविष्यन्ति ॥ 12-111-29 स्थूललक्षो बहुप्रदः ॥ 12-111-31 उपक्रोशो निन्दा तज्जा दोषा उपक्रोशदोषाः सन्ति ॥ 12-111-33 यत्र निर्वृतिः सुखं तत्खलु सुखं स्वर्गं पश्यामि । निर्वृतिः सुस्थितिरिति वा ॥ 12-111-34 शिष्टाः कृतदण्डाः ॥ 12-111-46 तस्य गोमायोर्वेश्मनि ॥ 12-111-47 तस्य गोमायोः । कारणार्थं स्वस्य बन्धविच्छेदो भवत्विति हेतोरित्यर्थः ॥ 12-111-51 परोक्षस्त्वथ इति ट. द. पाठः ॥ 12-111-55 विप्रत्ययोऽविश्वासः ॥ 12-111-56 गोमायोर्गृहे ढौकीतं प्रवेशितं मांसं प्रदर्शयामासुरित्यर्थः । तत्क्षणादेव दर्शितम् इति द. पाठः ॥ 12-111-58 शार्दूलस्य वचः श्रुत्वा इति झ. पाठः ॥ 12-111-59 सङ्घर्षजैः स्पर्धोत्थैः ॥ 12-111-60 प्रक्रिया प्रकृष्टं कर्म ॥ 12-111-66 तलवत् अवाङ्मुखकटाहगर्भवत् ॥ 12-111-68 प्रभवतां प्रभूणाम् ॥ 12-111-71 गोमायोश्चारः ॥ 12-111-73 प्रायं मरणार्थमुपवेशनम् आसितुम् आचरितुम् ॥ 12-111-76 वक्तुं नार्होस्म्यहं त्वया इति ट. ड. द. पाठः ॥ 12-111-79 अपरसाश्च अधनाश्चेति अपरसाधनाः । प्रीतिशून्या निर्घनाश्चेत्यर्थः ॥ 12-111-84 छिद्रानुदर्शिनः इति झ. पाठः ॥ 12-111-87 पुरुषज्ञानं सुदुःखं दुर्लभं यत एषां नृपाणां चित्तं चलाचलमस्थिरं गम्यते ज्ञायते सुपुरुषज्ञानं दुर्घटमित्यर्थः ॥ 12-111-88 प्रक्रिया महीकरणं बुद्धेर्लाघवं तुच्छत्वमेव हेतुः ॥ 12-111-89 प्रसादयित्वा प्रसाद्य ॥ 12-111-90 अगृह्य अगृहीत्वा ॥