अध्यायः 110

भीष्मेण युधिष्ठिरम् प्रति दुर्गातितरणोपायकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक् । 001a
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः । 002a
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥ 002c
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता । 003a
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ 003c
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः । 004a
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते ॥ 004c
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः । 005a
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥ 005c
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः । 006a
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥ 006c
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा । 007a
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥ 007c
ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः । 008a
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते ॥ 008c
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ । 009a
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥ 009c
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम् । 010a
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥ 010c
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते । 011a
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥ 011c
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः । 012a
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते || 012c
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते । 013a
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते ॥ 013c
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः । 014a
विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ 014c
ये च संशान्तरजसः संशान्ततमसश्च ये । 015a
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते ॥ 015c
येषां न कश्चित्त्रसति न त्रसन्ति हि कस्यचित् । 016a
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥ 016c
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः । 017a
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥ 017c
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते । 018a
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते ॥ 018c
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान् । 019a
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥ 019c
ये च श्राद्धानि कुर्वन्ति तिथ्यान्तिथ्यां प्रजार्थिनः । 020a
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥ 020c
ये क्रोधं सन्नियच्छन्ति क्रुद्धान्संशमयन्ति च । 021a
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते ॥ 021c
मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः । 022a
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥ 022c
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् । 023a
वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते ॥ 023c
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् । 024a
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते ॥ 024c
य एष पद्मरक्ताक्षः पीतवासा महाभुजः । 025a
सुहृद्धाता च मित्रं च सम्बन्धी च तवाच्युत ॥ 025c
य इमान्सकलाल्ँलोकांश्चर्मवत्परिवेष्टयेत् । 026a
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥ 026c
स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः । 027a
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः ॥ 027c
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । 028a
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा ॥ 028c
' अस्मिन्नर्पितकर्माणः सर्वभावेन भारत । 029a
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते || 029c
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् । 030a
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥ 030c
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् । 031a
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते ॥ 031c
यं विष्णुरिन्द्रः शम्भुश्च ब्रह्मा लोकपितामहः । 032a
स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् । 032c
समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते ॥' 032e
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च । 033a
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥ 033c
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ । 034a
तरते येन दुर्गाणि परत्रेह च मानवः ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥

12-110-1 भूतेषु प्राणिषु । दुर्गाणि दुस्तराणि ॥ 12-110-3 विषयान्विषयार्थानि इन्द्रियाणि ॥ 12-110-4 उच्यमानाः निन्द्यमानाः ॥ 12-110-8 रजसान्विताः सन्तोऽर्थान्न नयन्ति न हरन्ति ॥ 12-110-23 यात्रार्थं जीवनार्थम् ॥ 12-110-34 कृत्यसमुद्देशः कर्तव्यलेशः ॥