अध्यायः 109

भीष्मेण युधिष्ठिरम् प्रति सत्यानृतविवेचनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत । 001a
तत्त्वं जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ 001c
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः । 002a
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥ 002c
किंस्वित्सत्यं किमनृतं किंस्विद्धर्म्यं सनातनम् । 003a
कस्मिन्काले वदेत्सत्यं कस्मिन्वाऽप्यनृतं वदेत् ॥ 003c
भीष्म उवाच 004
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् । 004a
यत्तु लोके सुदुर्ज्ञेयं तत्ते वक्ष्यामि भारत ॥ 004c
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् । 005a
यत्रानृतं भवेत्सत्यं सत्यं वाऽप्यनृतं भवेत् ॥ 005c
तादृशो वर्धते पापो यत्र सत्यमनिश्चितम् । 006a
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ 006c
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः । 007a
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ 007c
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् । 008a
सुमहत्प्राप्नुयात्पुण्यं गङ्गायामिव कौशिकः ॥ 008c
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्विदः । 009a
दुष्करं चापि सङ्ख्यातुं तर्केणात्र व्यवस्यति ॥ 009c
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् । 010a
यः स्यात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥ 010c
'अहिंसा सत्यमक्रोधस्तपो दानं दमो मतिः । 011a
अनसूयाऽप्यसामर्थ्यमनीर्ष्या शीलमेव च ॥ 011c
एष धर्मः कुरुश्रेष्ठ कथितं परमेष्ठिना । 012a
ब्रह्मणा देवदेवेन अयं चैव सनातनः ॥ 012c
अस्मिन्धर्मे स्थितो राजन्नरो भद्राणि पश्यति । 013a
श्रौतो वधात्मको धर्म अहिंसापरमार्थिकः ॥' 013c
धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः । 014a
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ॥ 014c
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् । 015a
यः स्यादहिंसासंयुक्तः स धर्म इति निश्चयः ॥ 015c
श्रुतिं धर्मं वदन्त्यन्ये मानान्याहुः परे जनाः । 016a
न च तं स्वभ्यसूयामो न हि सर्वं विधीयते ॥ 016c
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् । 017a
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः ॥ 017c
अकूजनेन चेन्मोक्षो नावकूजेत्कथञ्चन । 018a
अवश्यं कूजितव्यं वा शङ्केरन्वाऽप्यकूजनात् ॥ 018c
'येऽन्ये वाऽप्यनृतं कुर्युः कुर्यादेव विचारणम् । 019a
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥ 019c
अक्षयाद्यो वधं राजन्कुर्यादेवाविचारयन् । 020a
अबुध्वाऽनुशये दोषं श्रेयस्तच्चानृतं भवेत् ॥ 020c
न स्तेनैः सह सम्बन्धान्मुच्यते शपथादपि ।' 021a
श्रेयस्तत्रानृतं वक्तुं सत्यादिति हि धारणा ॥ 021c
यः पापैः सह सम्बन्धान्मुच्यते शपथादपि । 022a
न च तेभ्यो धनं दद्याच्छक्ये सति कथञ्चन । 022c
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥ 022e
स्वशरीरोपरोधेन धनमादातुमिच्छतः । 023a
सत्यसम्प्रतिपत्त्यर्थं यद्ब्रूयुः साक्षिणः क्वचित् । 023c
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥ 023e
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् । 024a
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ॥ 024c
परेषां सिद्धिमाकाङ्क्षन्न च स्याद्धर्मभिक्षुकः । 025a
प्रतिश्रुत्य न दातव्यं श्वः कार्यस्तु बलात्कृतः ॥ 025c
यः कश्चिद्धर्मसमयात्प्रच्युतो धर्मजीवनः । 026a
दण्डेनैव स हन्तव्यस्तं पन्थानं समाश्रितः ॥ 026c
च्युतः सदैव धर्मेभ्यो धनवान्धर्ममाश्रितः । 027a
कथं स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् ॥ 027c
सर्वोपायैर्नियन्तव्यः पापो निकृतिजीवनः । 028a
धनमित्येव पापानां सर्वेषामिह निश्चयः ॥ 028c
अविवाह्या ह्यसम्भोज्या निकृत्या निरयं गताः । 029a
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते । 029c
[निर्यज्ञास्तपसा हीना मा स्म तैः सह सङ्गमः ॥] 029e
धनादानाद्दुःखतरं जीविता धिक्प्रयोजनम् । 030a
इदं ते रोचतां धर्म इति वाच्यं प्रयत्नतः ॥ 030c
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः । 031a
तथाविधं च यो हन्यान्न स पापेन लिप्यते ॥ 031c
स्वकर्मणा हतं हन्ति हत एव स हन्यते । 032a
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥ 032c
यथा काकास्तथैव श्वा तथैवोपधिजीवनः । 033a
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥ 033c
यस्मिन्यथा वर्तति यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः । 034a
मायाचारो मायया बाधितव्यः साध्वाचारः साधुनैवाभ्युपेयः ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

12-109-6 तादृशः सत्यानृतयोस्तत्त्वमजानन् । तादृशो बध्यते बाल इति झ. पाठः ॥ 12-109-7 अन्धस्य घ्राणचक्षुषः सर्वप्राणिवधायोद्यतस्य वधाद्बलाको व्याधो हिंस्रस्वभावोऽपि स्वर्गं जगामेति कर्णपर्वकथानुसन्धेया ॥ 12-109-8 मूढः कर्णपर्वोक्तः सत्यवादी चोरेभ्यः सत्यवचनाभिमानित्वान्मार्गमुपदिश्य कार्पटिकान्घातितवान् । असौ धर्मविन्नेत्यर्थः । कौशिक उलूको गङ्गातीरे सहस्रशः सर्पिण्या स्थापितान्यण्डानि भित्त्वा महत्पुण्यं प्राप । तदभेदने तु तीक्ष्णविषाणां सर्पाणां वृद्ध्या सद्यो लोकनाशः सम्भवेत् । सुमहत्प्राप्नुयात्पापम् इति ड. थ. द. पाठः ॥ 12-109-9 अत्र धर्मलक्षणे । व्यवस्यति निश्चिनोति ॥ 12-109-10 प्रभवोऽभ्युदयः ॥ 12-109-16 श्रुत्युक्तोऽर्थः सर्वो धर्म इत्यपि न । श्येनादेर्धर्मत्वाभावात् सर्वं श्येनाद्यपि नहि विधीयते धर्मत्वेन न चोद्यते ॥ 12-109-17 धनमिच्छन्ति कस्यचिदिति झ. पाठः ॥ 12-109-21 चोरेषु धनिकं पृच्छत्सु न वदेत् । अवदतो मोक्षाभावे न वेद्मीति शपथपूर्वकमपि वदेत् । तादृशस्थलेऽनृते दोषो नास्तीत्यर्थः ॥ 12-109-22 तेभ्यः स्तेनेभ्यः ॥ 12-109-29 मा सङ्गमः सङ्गं मा कार्षीः ॥ 12-109-32 समयं एतान्हनिष्यामीति व्रतं यश्चिकीर्षेत् स कुर्वीत । तादृशानां वधे पुण्यमस्तीति भावः ॥