अध्यायः 108
भीष्मेण युधिष्ठिरम् प्रति मातृपितृगुरुमहिमानुवर्णनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
महानयं धर्मपथो बहुशाखश्च भारत । 001a
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ 001c
किं कार्यं सर्वभूतानां गरीयो भवतो मतम् । 002a
यथाऽहं परमं धर्ममिह च प्रेत्य चाप्नुयाम् ॥ 002c
भीष्म उवाच 003
मातापित्रोर्गुरूणां च पूजा बहुमता मम । 003a
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते ॥ 003c
यदेते ह्यनुजानीयुः कर्म तात सुपूजिताः । 004a
धर्मं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ॥ 004c
न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् । 005a
यं मे तेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥ 005c
एत एव त्रयो लोका एत एवाश्रमास्त्रयः । 006a
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥ 006c
पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षणः स्मृतः । 007a
गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ 007c
त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्ँलोकानपि जेष्यसि । 008a
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम् ॥ 008c
ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि । 009a
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत ॥ 009c
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् । 010a
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः ॥ 010c
नित्यं परिचरेश्चैव तद्वै सुकृतमुत्तमम् । 011a
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप ॥ 011c
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः । 012a
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ 012c
न चायं न परो लोको न यशस्तस्य भारत । 013a
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ॥ 013c
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते । 014a
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम् ॥ 014c
तेभ्य एव हि यत्सर्वं कृत्यं यन्निसृजाम्यहम् । 015a
तदासीन्मे शतगुणं सहस्रगुणमेव च । 015c
तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर ॥ 015e
दशैव तु सदाऽऽचार्यः श्रोत्रियानधितिष्ठति । 016a
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥ 016c
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि । 017a
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ॥ 017c
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः । 018a
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः ॥ 018c
शरीरमेतौ सृजतः पिता माता च भारत । 019a
आचार्यशिष्टा या जातिः सासम्यगजरामरा ॥ 019c
अवध्या हि सदा माता पिता चाप्युपचारिणौ ॥ 020ac
न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम् । 021a
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ॥ 021c
य आवृणोत्यवितथेन कर्मणा ऋतं ब्रुवन्नमृतं सम्प्रयच्छन् । 022a
तं मन्येथाः पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ 022c
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्युत्पन्ना मनसा कर्मणा वा । 023a
तेषां पापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यः पापकृदस्ति लोके । 023c
यथैव ते गुरुभिर्भावनीयास्तथैव तेषां गुरवोऽभ्यर्चनीयाः ॥ 023e
तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः । 024a
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ॥ 024c
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः । 025a
प्रीणाति जननी येन पृथिवी तेन पूजिता ॥ 025c
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् । 026a
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ॥ 026c
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह । 027a
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः ॥ 027c
केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् । 028a
न च माता न च पितो तादृशो यादृशो गुरुः ॥ 028c
न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम् । 029a
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ॥ 029c
उपाध्यायं पितरं मातरं च ये विद्रुह्यन्ते मनसा कर्मणा वा । 030a
तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥ 030c
भृतो भर्तारं यो न बिभर्ति पुत्रः स्वयोनिजः पितरं मातरं च । 031a
तस्य पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥ 031c
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च । 032a
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम ॥ 032c
एतत्सर्वं मनुनिर्देशदृष्टं यत्कर्तव्यं पुरुषेणेह किञ्चित् । 033a
एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान्धर्माननुसृत्यैतदुक्तम् ॥ 033c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥
12-108-8 वृत्त्या पूजया ॥ 12-108-21 तत् वध्यानामपि तेषाम् अवधं कृत्वा । ते आराधिनोऽपि पितृमातृगुरवः अवधेन नैनं दूषयन्ति । राजा हि वध्यानामवधे दुष्यति तद्वन्नात्रेत्यर्थः । धर्माय दुष्टानामपि पित्रादीनां पालनाय यतमानानां यतमानान्देवा अप्यनुग्राह्यत्वेन विदुः ॥ 12-108-22 आवृणोति अनुगृह्णाति । कर्मणा प्रवचनेन । ऋतं वेदम् ॥ 12-108-32 स्त्रीघ्नस्य गुरुघातिनः इति झ. पाठः ॥ 12-108-33 अनुसृत्यैकीकृत्य । एतत्सारभूतम् ॥