अध्यायः 107

भीष्मेण युधिष्ठिरम् प्रति गणवृद्धिप्रकारादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । 001
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च ॥ 001
राज्ञां वृत्तं च कोशं च कोशसञ्चयनं जयः । 002
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम् ॥ 002
षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च । 003
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् ॥ 003
समहीनाधिकानां च यथावल्लक्षणं च यत् । 004
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता ॥ 004
क्षीणग्रहणवृत्तिश्च यथा धर्मं प्रकीर्तितम् । 005
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत ॥ 005
विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते । 006
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर ॥ 006
यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत । 007
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च ॥ 007
भेदमूलो विनाशो हि गणानामुपलक्षये । 008
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः ॥ 008
एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप । 009
यथा च ते न भिद्येरंस्तच्च मे वद भारत ॥ 009
भीष्म उवाच 010
गणानां च कुलानां च राज्ञां भरतसत्तम । 010
वैरसन्दीपनावेतौ लोभामर्षौ नराधिप ॥ 010
लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् । 011
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ ॥ 011
चारमन्त्रबलादानैः सामदानविभेदनैः । 012
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम् ॥ 012
तत्रादानेन भिद्यन्ते गणाः सङ्घातवृत्तयः । 013
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् ॥ 013
भेदे गणा विनश्युर्हि भिन्नास्तु सुजयाः परैः । 014
तस्मात्सङ्घातयोगेन प्रयतेरन्गणाः सदा ॥ 014
अर्थाश्चैवाधिगम्यन्ते सङ्घातबलपौरुषैः । 015
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु ॥ 015
ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम् । 016
विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः ॥ 016
धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः । 017
यथावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः ॥ 017
पुत्रान्भ्रातॄन्निगृह्णन्तो विनयन्तश्च तान्सदा । 018
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः ॥ 018
चारमन्त्रविधानेषु कोशसन्निचयेषु च । 019
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः ॥ 019
प्राज्ञांश्चारान्महोत्साहान्कर्मसु स्थिरपौरुषान् । 020
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप ॥ 020
द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः । 021
कृच्छ्रास्वापत्सु सम्मूढान्गणाः सन्तारयन्ति ते ॥ 021
क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः । 022
नयत्यरिवशं सद्यो गणान्भरतसत्तम ॥ 022
तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः । 023
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव ॥ 023
मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्षण । 024
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत ॥ 024
गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः ॥ 025
पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा । 026
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति व ॥ 026
तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् । 027
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः ॥ 027
कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः । 028
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम् ॥ 028
आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् । 029
आभ्यन्तरं भयं राजन्सद्यो मूलानि कृन्तति ॥ 029
अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् । 030
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् ॥ 030
जात्या च सदृशाः सर्वे कुलेन सदृशास्तथ । 031
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः ॥ 031
भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः । 032
तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत् ॥ 032

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥

12-107-5 क्षीणस्य ग्रहणं वृत्तिर्जीविका च । लघुना सुगमेन । आदेशरूपेणोपदेशात्मकेन ॥ 12-107-6 गणानां शूरजनस्तेमानाम् ॥ 12-107-11 एको राजा लोभं वृणुते । गणस्तदाऽस्मभ्यं न ददातीत्यमर्षं वृणुते ॥ 12-107-12 इतरेतरं गणा राजानश्च प्रकर्षन्ति ॥ 12-107-14 सङ्घातयोगेनैकमत्यप्रयोगेण ॥