अध्यायः 106

भीष्मेण युधिष्ठिरम् प्रति कालकवृक्षीयनिदेशेन कौसल्यस्य पुना राज्यप्राप्त्यादिकथनम् ॥ 1 ॥ राजोवाच 001
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् । 001a
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् ॥ 001c
पुरस्तादेव भगवन्मयैतदपवर्जितम् । 002a
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत् ॥ 002c
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः । 003a
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते ॥ 003c
मुनिरुवाच 004
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे । 004a
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः ॥ 004c
उभयोरेव साह्यार्थे यतिष्ये तव तस्य च । 005a
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् ॥ 005c
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् । 006a
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् ॥ 006c
यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः । 007a
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् ॥ 007c
आगन्ता मद्गृहं तात वैदेहः सत्यसङ्गरः । 008a
अथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् ॥ 008c
भीष्म उवाच 009
तत आहूय वैदेहं मुनिर्वचनमब्रवीत् । 009a
अयं राजकुले जातो विदिताभ्यन्तरो मम ॥ 009c
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा । 010a
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः ॥ 010c
तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मयि । 011a
न राज्यमनमात्येन शक्यं शास्तुममित्रहन् ॥ 011c
अमात्यः शुद्ध एव स्याद्बुद्धिसम्पन्न एव वा । 012a
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम् ॥ 012c
धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी । 013a
तदा स राजपुत्रोऽयं सतां मार्गमनुष्ठितः । 013c
असङ्गृहीतस्त्वेवैष त्वया धर्मपुरोगमः ॥ 013e
संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् ॥ 014ac
यद्ययं प्रतियुद्ध्येत स्वकर्म क्षत्रियस्य तत् । 015a
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे ॥ 015c
त्वं चापि प्रतियुद्ध्येथा विजिगीषुर्व्रते स्थितः । 016a
अयुद्ध्वैव नियोगान्मे वशे कुरु हिते स्थितः ॥ 016c
स त्वं धर्ममवेक्षस्व हित्वा लोभमसाम्प्रतम् । 017a
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि ॥ 017c
नैव नित्यं जयस्तात नैव नित्यं पराजयः । 018a
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः ॥ 018c
आत्मन्यपि च सन्दृश्यावुभौ जयपराजयौ । 019a
निःशेषकारिणां तात निःशेषकरणाद्भयम् ॥ 019c
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् । 020a
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च ॥ 020c
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः । 021a
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम् ॥ 021c
यद्यद्वचनमुक्तोऽस्मि करिष्यामि च तत्तथा । 022a
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा ॥ 022c
ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत् । 023a
धर्मतो बुद्धितश्चैव बलेन च जितं मया ॥ 023c
अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम । 024a
आत्मानमनवज्ञाय जितवद्वर्ततां भवान् ॥ 024c
नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम् । 025a
नावमन्ये जयामीति जितवद्वर्ततां भवान् ॥ 025c
यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् । 026a
ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् ॥ 026c
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा । 027a
प्राद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् ॥ 027c
ददौ दुहितरं चास्मै रत्नानि विविधानि च । 028a
एष राज्ञां परो धर्मः समौ जयपराजयौ ॥ 028c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥

12-106-5 तस्य विदेहस्य ॥ 12-106-6 त्वादृशं राजानं लब्ध्वा अमात्यकर्म को न कुर्वीताऽपितु सर्वोऽपि मादृशः कुर्वीतैवेत्यर्थः ॥ 12-106-7 उत्तमं महृत् ॥ 12-106-14 गणाञ्शत्रुसङ्घान् ॥ 12-106-17 असाम्प्रतमनुचितम् ॥ 12-106-24 जितवत्प्राप्तजयइव ॥