अध्यायः 105
भीष्मेण युधिष्ठिरम् प्रति राज्ञां शत्रुजयोपायप्रतिपादककौसल्यकालकवृक्षीयसंवादानुवादः ॥ 1 ॥
मुनिरुवाच 001
अथ चेत्पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि । 001a
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये ॥ 001c
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि । 002a
शृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः ॥ 002c
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि । 003a
राज्यं वा राज्यमन्त्रं वा महतीं वा पुनः श्रियम् । 003c
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥ 003e
राजोवाच 004
ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भो । 004a
अमोघ एव मेऽद्यास्तु त्वया सह समागमः ॥ 004c
मुनिरुवाच 005
हित्वा मानं च दम्भं च क्रोधं हर्षं भयं तथा । 005a
प्रत्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः । 005c
तमुत्तमेन शौचेन कर्मणा चावधारय ॥ 005a
दातुमर्हति ते वित्तं वैदेहः सत्यविक्रमः । 006c
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि ॥ 006e
ततः सहायान्सोत्साहाल्ँलप्स्यसेऽव्यसनाञ्शुचीन् । 007a
वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः । 007c
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥ 007e
तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः । 008a
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् ॥ 008c
ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् । 009a
सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय । 009c
परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥ 009e
अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च । 010a
शय्यासनानि यानानि महार्हाणि गृहाणि च ॥ 010c
पक्षिणो मृगजातानि रसगन्धाः फलानि च । 011a
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥ 011c
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति । 012a
'सदैव राजशार्दूल विदुषा हितमिच्छता ।' 012c
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता ॥ 012e
वसस्व पुरमामित्रं विषये मित्रसम्मतः । 013a
भजस्व श्वेतकाकीयैर्मित्रधर्ममनर्थकैः ॥ 013c
आरम्भांश्चास्य महतो दुष्करान्सम्प्रयोजय । 014a
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम् ॥ 014c
उद्यानानि महार्हाणि शयनान्यासनानि च । 015a
प्रीतिभोगमुखेनैव कोशमस्य विरोचय ॥ 015c
यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय । 016a
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव ॥ 016c
असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम् । 017a
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम् ॥ 017c
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति । 018a
उभयत्र प्रयुक्तस्य धर्मे चाधर्म एव च ॥ 018c
फलार्थमूलमुच्छिद्यात्तेन नन्दन्ति शत्रवः । 019a
न चास्मै मानुषं कर्म दैवमस्योपवर्णय ॥ 019c
असंशयं दैवपरः क्षिप्रमेव विनश्यति । 020a
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् ॥ 020c
ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम् । 021a
त्यागधर्मविदं पुण्यं कञ्चिदस्योपवर्णय ॥ 021c
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् । 022a
सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना । 022c
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥ 022e
एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः । 023a
शक्या विषहता कर्तुं न क्लीबेन नृपात्मज ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥
12-105-4 अभिपन्नोऽस्मि पौरुषेणेति शेषः ॥ 12-105-6 प्रमाणं विश्वासम् ॥ 12-105-7 स्वशास्त्रे नीतिशास्त्रे ॥ 12-105-8 ग्रहणम् आदरम् ॥ 12-105-13 श्वेतकाकीयैः श्वा च एतश्च काकश्च तेषामिमे धर्माः । क्रमेण नित्यं जागरूकत्वभयचकितत्वपरेङ्गितज्ञत्वानि तैः उपायैः मित्रधर्मं भजस्व । श्वेत इत्यत्रोमाङोश्चेति पररूपम् । एतो मृगः ॥ 12-105-14 नदीवच्च विरोधांश्चेति झ. पाठः । तत्र आरम्भान्विरोधांश्च महानदीवद्दुस्तरानित्यर्थः ॥ 12-105-18 धर्माधर्माभ्यां कोशक्षये सति ॥ 12-105-19 फलस्य स्वर्गादेः अर्थस्य जयादेः मूलकारणं कोशः ॥