अध्यायः 104
भीष्मेण युधिष्ठिरम् प्रति कौसल्यकालकवृक्षीयसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः । 001a
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ॥ 001c
भीष्म उवाच 002
अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते । 002a
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥ 002c
क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा । 003a
मुनिं कालकवृक्षीयमाजमामेति नः श्रुतम् । 003c
तं पप्रच्छानुसङ्गृह्य कृच्छ्रामापदमास्थितः ॥ 003e
अर्थेषु भागी पुरुष ईहमानः पुनः पुनः । 004a
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ॥ 004c
अन्यत्र मरणाद्दैन्यादन्यत्र परसंश्रयात् । 005a
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ॥ 005c
व्याधिना चाभिपन्नस्य मानसेनेतरेण वा । 006a
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ॥ 006c
निर्विद्य हि नरः कामान्नियम्य सुखमेधते । 007a
त्वक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु ॥ 007c
सुखमर्थाश्रयं येषामनुशोचामि तानहम् । 008a
मम ह्यर्थाः सुबहवो नष्टाः स्वप्नगता इव ॥ 008c
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये । 009a
वयं त्वेतान्परित्यक्तुमसतोऽपि न शक्नुमः ॥ 009c
इमामवस्थां सम्प्राप्तं दीनमार्तं श्रिया च्युतम् । 010a
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ॥ 010c
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता । 011a
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ॥ 011c
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः । 012a
अनित्यं सर्वमेवैतदहं च मम चास्ति यत् ॥ 012c
यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् । 013a
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ॥ 013c
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति । 014a
एवं विदितवेद्यस्त्वमनर्थेभ्यः प्रमोक्ष्यसे ॥ 014c
ये च पूर्वसमारम्भा ये च पूर्वतरे परे । 015a
सर्वं नास्तीति ते चैव तज्ज्ञात्वा को नु सञ्ज्वरेत् ॥ 015c
भूत्वा च न भवत्येतदभूत्वा च भविष्यति । 016a
शोके न ह्यस्ति सामर्थ्यं शोचेत स कथं नरः ॥ 016c
क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहः । 017a
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि वा ॥ 017c
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि । 018a
बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न च विद्यते ॥ 018c
अहं च त्वं च नृपते सुहृदः शत्रवश्च ते । 019a
अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥ 019c
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः । 020a
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ॥ 020c
अपि चेन्महतो वित्तान्न प्रमुच्येत पूरुषः । 021a
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ॥ 021c
अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात् । 022a
दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां वृत्तिमाहुः ॥ 022c
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते । 023a
बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः ॥ 023c
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः । 024a
किं न त्वं तैर्नरैः श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ॥ 024c
राजोवाच 025
यादृच्छिकं सर्वमासीत्तद्राज्यमिति चिन्तये । 025a
ह्रियते सर्वमेवेदं कालेन महता द्विज ॥ 025c
तस्यैव ह्रियमाणस्य स्रोतसेव तपोधन । 026a
फलमेतत्प्रपश्यामि यथालब्धेन वर्तयन् ॥ 026c
मुनिरुवाच 027
अनागतमतीतं च याथातथ्यविनिश्चयात् । 027a
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव ॥ 027c
अवाप्यान्कामयन्नर्थान्नानवाप्यान्कदाचन । 028a
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥ 028c
यथालब्धोपपन्नार्थैस्तथा कौसल्य रंस्यसे । 029a
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ॥ 029c
पुरस्ताद्भूतपूर्वत्वाद्धीनभोग्यो हि दुर्मतिः । 030a
धातारं गर्हते नित्यं लब्धार्थश्च न मृष्यते ॥ 030c
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् । 031a
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ॥ 031c
ईर्ष्याभिमानसम्पन्ना राजन्पुरुषमानिनः । 032a
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ॥ 032c
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा । 033a
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते नराः । 033c
अभिनिष्यन्दते देही श्रीभूतश्च द्विषज्जनात् ॥ 033e
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः । 034a
त्यागधर्मविदो धीराः स्वयमेव त्यजन्त्युत ॥ 034c
'त्यक्तं स्वायम्भुवे वंशे शुभेन भरतेन च । 035a
नानारत्नसमाकीर्णं राज्यं स्फीतमिति श्रुतम् ॥ 035c
तथाऽन्यैर्भूमिपालैश्च त्यक्तं राज्यं महोदयम् । 036a
त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः । 036c
गताश्च तपसः पारं दुःखस्यान्तं च भूमिपाः ॥ 036e
बहुसङ्कुसुकं दृष्ट्वा विधित्सासाधनेन च । 037a
तथान्ये सन्त्यजन्त्येव मत्वा परमदुर्लभम् ॥ 037c
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे । 038a
अकाम्यान्कामयानोऽर्थान्पराधीनानुपद्रवान् ॥ 038c
तां बुद्धिमनुविज्ञाय त्वमेवैनान्परित्यज । 039a
अनर्थाश्चार्थरूपेण ह्यर्थाश्चानर्थरूपिणः ॥ 039c
अर्थायैव हि केषाञ्चिद्धननाशा भवन्त्युत । 040a
अनित्यं तत्सुखं मत्वा श्रियमन्ये न लिप्सते ॥ 040c
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते । 041a
तथा तस्येहमानस्य संरम्भोऽपि विनश्यति ॥ 041c
कृच्छ्राल्लब्धमभिप्रेतं यथा कौसल्य नश्यति । 042a
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ॥ 042c
'अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति ॥' 043ac
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः । 044a
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ॥ 044c
जीवितं सन्त्यजन्त्येके धनलोभपरा नराः । 045a
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ॥ 045c
पश्य चैषां कृपणतां पश्य चैषामबुद्धिताम् । 046a
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ॥ 046c
सञ्चये च विनाशान्ते मरणान्ते च जीविते । 047a
संयोगे च वियोगान्ते कोनु विप्रणयेन्मनः ॥ 047c
धनं वा पुरुषो राजन्पुरुषं वा पुनर्धनम् । 048a
अवश्यं प्रजहात्येव तद्विद्वान्कोनु सञ्ज्वरेत् ॥ 048c
अन्यत्रोपनता ह्यापत्पुरुषं तोषयत्युत । 049a
तेन शान्तिं न लभते नाहमेवेति कारणात् ॥' 049c
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च । 050a
पश्य बुद्ध्या मनुष्याणां तुल्यामापदमात्मनः । 050c
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनस्तथा ॥ 050e
प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेषु च ॥ 051ac
प्राप्तिसृष्टेषु भावेषु व्यपकृष्टेष्वसम्भवे । 052a
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ॥ 052c
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंस्थितः । 053a
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ॥ 053c
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि । 054a
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ॥ 054c
अपि मूलफलाहारो रमस्वैको महावने । 055a
वाग्यतः सङ्गृहीतात्मा सर्वभूतदयान्वितः ॥ 055c
सदृशं पण्डितस्यैतदीषादन्तेन हस्तिना । 056a
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ॥ 056c
महाह्रदः सङ्क्षुभित आत्मनैव प्रसीदति । 057a
'एवं नरः स्वत्मानैव कृतप्रज्ञः प्रसीदति ॥' 057c
एतदेवं गतस्याहं सुखं पश्यामि केवलम् । 058a
असम्भवे श्रियो राजन्हीनस्य सचिवादिभिः । 058c
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ॥ 058e
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥
12-104-4 भागी भागार्हः । ईहमानो यतमानः ॥ 12-104-6 इतरेण शारीरेण ॥ 12-104-7 निर्विद्य विरज्य । कामाद्विषयभोगात् । बुद्धिमयं वसु ज्ञानरूपं धनम् ॥ 12-104-12 इयं निर्विद्यतीति श्लोकेन त्वया प्रोक्ता । अहं च यच्च ममाऽस्त्येतत्सर्वमनित्यमिति जानतस्ते त्वया ॥ 12-104-13 नास्ति तुच्छत्वात् ॥ 12-104-22 तन्निर्ममत्वम् ॥ 12-104-25 यादृच्छिकमयत्नादागतम् ॥ 12-104-26 एतच्छोकाख्यं फलं यथालब्धेन वर्तयन् जीवन्नपि पश्यामि । यादृच्छिकस्य नाशेन जीवनालोपेऽपि शोको न नश्यतीत्यर्थः ॥ 12-104-30 न मृष्यते तैर्न सन्तुष्यति ॥ 12-104-33 अन्यत्र शत्रौ । कुशला निर्मत्सराः । अभिनिष्यन्दते प्रस्रवति ॥ 12-104-37 विधित्सा क्रियाणामनुपरमस्तेन साधनेन च सङ्कुसुकमस्थिरम् ॥ 12-104-38 उपद्रवानस्थिरान् ॥ 12-104-39 अर्थरूपेण भासमानाः ॥ 12-104-40 आद्यस्योदाहरणम् अर्थायेति ॥ 12-104-41 द्वितीयस्योदाहरणं रममाण इति ॥ 12-104-42 परिभग्नक्रमो नष्टारम्भः ॥ 12-104-47 विप्रणयेद्दद्यात् ॥ 12-104-50 नियम्य सर्वं सङ्गं च इति ट. ड. पाठः ॥ 12-104-52 प्रतिकृष्टेषु भाग्येषु व्यपकृष्टेषु सम्भवे इति ट. थ. पाठः ॥