अध्यायः 103

भीष्मेण युधिष्ठिरम् प्रति शत्रुजयोपायादिप्रतिपादकेन्द्रबृहस्पतिसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
कथं मृदौ कथं तीक्ष्णे महापक्षे च भारत । 001a
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ 002c
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः । 003a
उपसङ्गम्य पप्रच्छ वासवः परवीरहा ॥ 003c
अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः । 004a
असमुछिद्य चैवैतान्नियच्छेयमुपायतः ॥ 004c
सेनयोर्व्यतिषङ्गे च जयः साधारणो भवेत् । 005a
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥ 005c
ततो धर्मार्थकामानां कुशलः प्रतिभानवान् । 006a
राजधर्मविधानज्ञः प्रत्युवाच पुरन्दरम् ॥ 006c
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः । 007a
बालैरासेवितं ह्येतद्यदमर्षो यदक्षमा ॥ 007c
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥ 008a
क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि । 009c
अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ॥ 009e
प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत् । 010a
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत् ॥ 010c
यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः । 011a
तान्द्विजान्कुरुते वश्यांस्तथायुक्तो महीपतिः । 011c
वशं चोपनयेच्छत्रून्निहन्याच्च पुरन्दर ॥ 011e
न नित्यं परिभूयारीन्सुखं स्वपिति वासव । 012a
जागर्त्येव हि दुष्टात्मा सङ्करेऽग्निरिवोत्थितः ॥ 012c
न सन्निपातः कर्तव्यः सामान्ये विजये सति । 013a
विश्वास्यैवोपसन्नम्यो वशे कृत्वा रिपुः प्रभो ॥ 013c
सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः । 014a
उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः । 014c
अथास्य प्रहरेत्काले विधेर्विचलितो यदा ॥ 014e
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ॥ 015ac
आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत् । 016a
बलानि दूषयेदस्य जानन्नेव प्रमाणतः ॥ 016c
भेदेनोपप्रदानेन संसृजेदौषधैस्तथा । 017a
न त्वेव खलु संसर्गं रोचयेदरिभिः सह ॥ 017c
दीर्घकालमपीक्षेत्त निग्राह्या एव शत्रवः । 018a
कालकाङ्क्षी च युक्तः सन्नुपासीत शचीपते ॥ 018c
तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात् । 019a
न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः । 019c
भूयः शल्यं घटयति नवं च कुरुते व्रणम् ॥ 019e
प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः । 020a
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति ॥ 020c
यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् । 021a
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ 021c
औजस्यं जनयेदेव सङ्गृह्णन्साधुसम्मतम् । 022a
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत् ॥ 022c
विहाय कामं क्रोधं च तथाऽहङ्कारमेव च । 023a
युक्तो विवरमन्विच्छेदहितानां सदा नृपः ॥ 023c
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम । 024a
मायाः सुविहिताः शक्र शातयन्त्यविचक्षणम् ॥ 024c
निहत्यैतानि चत्वारि मायां प्रतिविधाय च । 025a
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥ 025c
यदेवैतेन शक्येत गुह्यं कर्तुं तदाऽऽचरेत् । 026a
यच्छन्ति सतिवा गुह्यं मिथो विश्रावयन्त्यपि ॥ 026c
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् । 027a
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ॥ 027c
भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च । 028a
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा ॥ 028c
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः । 029a
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥ 029c
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् । 030a
अमित्रमुपसेवेत न च जातु विशङ्कयेत् ॥ 030c
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् । 031a
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः ॥ 031c
न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम । 032a
यथा विविधवृत्तानामैश्वर्यममराधिप ॥ 032c
तथा विविधशीलानामपि सम्भव उच्यते । 033a
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन् ॥ 033c
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः । 034a
मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥ 034c
यथा वप्रे वेगवति सर्वतः सम्प्लुतोदके । 035a
नित्यं विचरणाद्बाधस्तथा राज्यं प्रमाद्यतः ॥ 035c
न बहूनुपरुध्येत यौगपद्येन शात्रवान् । 036a
साम्ना दानेन भेदेन दण्डेन च पुरन्दर ॥ 036c
एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत् । 037a
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः ॥ 037c
यदा स्यान्महती सेना हयनागरथाकुला । 038a
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी ॥ 038c
यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः । 039a
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥ 039c
न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा । 040a
न सस्यघातो न च सङ्करक्रिया न चापि भूयः प्रकृतेर्विचारणा ॥ 040c
मायाविभेदानुपसर्जनानि वाचं तथैव प्रथमं प्रयोगात् । 041a
आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तान् ॥ 041c
पुराऽपि चैताननुसृत्य भूमिपाः पुरेषु भोगानखिलाञ्जयन्ति 042a
पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन ॥ 042c
प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानपहाय च स्वान् । 043a
दुष्टाः स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति ॥ 043c
तथैव चान्यैरपि शास्त्रवेदिभिः स्वलङ्कृतैः शास्त्रविधानलिङ्गितैः । 044a
सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेच्च ॥ 044c
इन्द्र उवाच 045
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम । 045a
कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे ॥ 045c
बृहस्पतिरुवाच 046
परोक्षमगुणानाह सद्गुणानभ्यसूयति । 046a
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ॥ 046c
तूष्णीम्भावेऽपि विज्ञेयं न चेद्भवति कारणम् । 047a
विश्वासं चोष्ठसन्दंशं शिरसश्च प्रकम्पनम् ॥ 047c
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते । 048a
अदृष्टवद्विकुरुते दृष्ट्वा वा नाभिभाषते ॥ 048c
पृथगेत्य समश्नाति नेदमद्य यथाविधि । 049a
आसने शयने याने भावा लक्ष्या विशेषतः ॥ 049c
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् । 050a
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥ 050c
एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप । 051a
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ॥ 051c
इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम । 052a
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः ॥ 052c
भीष्म उवाच 053
स तद्वचः शत्रुनिबर्हणे रतस्तथा चकारावितथं बृहस्पतेः । 053a
चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरन्दरः ॥ 053c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

12-103-5 व्यतिषङ्गे मिश्रणे युद्धे इत्यर्थः । साधारणोऽनियतः ॥ 12-103-6 प्रत्युवाच गुरुः ॥ 12-103-7 विवृतः सावधानः ॥ 12-103-11 वितसः पक्षिबन्धनोपायस्तदुपजीवी वैतंसिकः ॥ 12-103-12 स्वपिति महीपतिरित्यनुकर्षः ॥ 12-103-13 सामान्ये अनिश्चिते ॥ 12-103-14 प्रहरेत्काले किञ्चिद्विचलिते पदे इति झ. पाठः ॥ 12-103-15 किञ्चास्य दण्डं सेनां च भेदेन दूषयेत्सः ॥ 12-103-17 औषधैर्विषादिभिः ॥ 12-103-20 रिपून्प्रति हन्तुकामस्य ॥ 12-103-25 चत्वारि मार्दवादीनि ॥ 12-103-26 यच्छन्ति निगृह्णन्ति ॥ 12-103-27 अदृष्टेषु दूरस्थेषु ब्रह्मदण्डं पुरोहितद्वारमभिचारं प्रयुञ्जयात् । दृष्टे प्रत्यक्षशत्रौ चतुरङ्गिणीमपि प्रयुञ्ज्यात् ॥ 12-103-32 विविधवृत्तानाम् अस्थिराणाम् ॥ 12-103-35 वेगवति पूरे सति वप्रे तटे विचरणाद्विदारणाद्बाध इति योजना ॥ 12-103-38 षडङ्गिनी रथतुरगमातङ्गपदातिकोशवणिक्पथवती ॥ 12-103-39 विवृत्य प्रकटीभूय । दस्यूनां दस्यून् ॥ 12-103-40 बलवति शत्रौ साम न प्रशस्यते किं तर्हि दण्डोपनिषत् रहस्यदण्डः । अत एव शत्रुषु मार्दवं पार्यन्तिकं न कार्यम् । नापि यात्रिकं सदा कार्यम् । जयस्यानियतत्वात् । यात्रायां हि सस्यानां घातः । सङ्करक्रिया विषादिना जलादीनां नाशनम् । भूयः पुनः पुनः प्रकृतेः सप्तविधायाः विचारणा तस्मात्कपटपूर्वको दण्डएव श्रेयानित्यर्थः ॥ 12-103-41 मायाविभेदान्नानाविधा मायाः प्रयुञ्जीत । तत उपसर्जनानि परस्परमितरेषां शत्रूणामुत्थापनादीनि ॥ 12-103-42 एतान् शत्रून्पुरेषु तत्तत्स्थानेषु अनुसृत्य भोगांस्तदीयान् जयन्ति । नीतिं पुरेषु स्वीयेषु ॥ 12-103-43 अनुसरणमेवाह प्रदायेति । एते न ममामात्याः दुष्टाः मां त्यक्त्वा राजान्तारं प्रति गता इति लोकमुखात्कीर्तयित्वा परेषां पुरेषु राष्ट्रेषु च तान्योजयन्ति ॥ 12-103-44 कृत्यामिव कृत्यां मृत्युकारिणीं देवताम् ॥ 12-103-47 तच्चेद्भवति कारणमिति थ. द. पाठः ॥ 12-103-48 संसृष्टं संसर्गम् । असंसृष्टश्च परइव भाषते ॥