अध्यायः 102
भीष्मेण युधिष्ठिरम् प्रति सेनाया जयचिह्नानां राजनीतेश्च कथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
जयिन्याः कानि रूपाणि भवन्ति भरतर्षभ । 001a
पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम् ॥ 001c
भीष्म उवाच 002
जयिन्या यानि रूपाणि भवन्ति भरतर्षभ । 002a
पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ॥ 002c
दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते । 003a
तद्विद्वांसोऽनुपस्यन्ति ज्ञानदीर्घेण चक्षुषा ॥ 003c
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः । 004a
मङ्गलानि च कुर्वन्ति शमयन्त्यहितानि च ॥ 004c
उदीर्णमनसो योधा वाहनानि च भारत । 005a
यस्यां भवन्ति सेनायां ध्रुवं तस्या जयो भवेत् ॥ 005c
अन्वेव वायवो यान्ति तथैवेन्द्रधनूंषि च । 006a
अनुप्लवन्ते मेघाश्च तथाऽऽदित्यस्य रश्मयः ॥ 006c
गोमायवश्चातुलोमबला गृध्राश्च सर्वशः । 007a
अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥ 007c
प्रसन्नभाः पावकश्चोर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः । 008a
पुण्या गन्धाश्चाहुतीनां भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ 008c
गम्भीरशब्दाश्च महास्वनाश्च शङ्ख्याश्च भेर्यश्च नदन्ति यत्र । 009a
युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ 009c
इष्टा मृगाः पृष्ठतो वामतश्च सम्प्रस्थितानां च गमिष्यतां च । 010a
जिघांसतां दक्षिणाः सिद्धिमाहुर्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥ 010c
माङ्गल्यशब्दाञ्शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्राश्च चाषाः । 011a
हृष्टा योधाः सत्ववन्तो भवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥ 011c
शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवर्णैश्च यूनाम् । 012a
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून् ॥ 012c
शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च । 013a
येषां योधाः शौर्यमनुष्ठिताश्च जयस्यैतद्भाविनो रुपमाहुः ॥ 013c
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः । 014a
धैर्यं चाविशते योधान्विजयस्य मुखं च तत् ॥ 014c
शब्दो वामः प्रस्थितस्य दक्षिणः प्रविविक्षतः । 015a
पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति ॥ 015c
संहत्य महतीं सेनां चतुरङ्गां युधिष्ठिर । 016a
साम्नैव वर्तयेः पूर्वं प्रयतेथास्ततो युधि ॥ 016c
जघन्य एष विजयो यद्युद्धे सामभाषणम् । 017a
यादृच्छिको युधि जयो दैवेनेति विचारणम् ॥ 017c
आपगेव महावेगा त्रस्ता इव महामृगाः । 018a
दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ॥ 018c
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम् । 019a
उदारसारा महती रुरुसङ्ङ्घोपमा चमूः ॥ 019c
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः । 020a
अपि पञ्चशतं शूरा निघ्नन्ति परवाहिनीम् ॥ 020c
अपि वा पञ्चषट्सप्तसंहिताः कृतनिश्चयाः । 021a
कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ॥ 021c
सन्निपातो न मन्तव्यः शक्ये सति कथञ्चन । 022a
सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥ 022c
संसर्पेण हि सेनाया भयं भीरून्प्रबाधते । 023a
वज्रादिव प्रज्वलितादियं स्वित्क्षपयिष्यति ॥ 023c
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ । 024a
तेषां सन्दन्ति गात्राणि योधानां विषयस्य च ॥ 024c
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः । 025a
अस्त्रप्रतापतप्तानां मज्जाः सीदन्ति देहिनाम् ॥ 025c
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः । 026a
सम्पीड्यमाना हि परैर्योगमायान्ति सर्वतः ॥ 026c
आन्तराणां च भेदार्थं चरानभ्यवचारयेत् । 027a
यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते ॥ 027c
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा । 028a
यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ॥ 028c
क्षमा वै साधुमायाति न ह्यसाधून्क्षमा सदा । 029a
क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम् ॥ 029c
विजित्य क्षममाणस्य यशो राज्ञो विवर्धते । 030a
महापराधे ह्यप्यस्मिन्विश्वसन्त्यपि शत्रवः ॥ 030c
मन्यन्ते कर्षयित्वा तु क्षमा साध्वीति शाम्बराः । 031a
असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥ 031c
नैतत्प्रशंसन्त्याचार्या न चैतत्साधु दर्शनम् । 032a
अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥ 032c
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर । 033a
मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥ 033c
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत । 034a
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥ 034c
न मे प्रिया ये स्म हताः सम्प्रहृष्टाः परेऽपि च । 035a
न च कत्थनमेवाग्र्यमुच्यमानं पुनःपुनः ॥ 035c
अहो जीवितमाकाङ्क्षेन्नेदृशो वधमर्हति । 036a
सुदुर्लभाः सुपुरुषाः सङ्ग्रामेष्वपलायिनः ॥ 036c
कृतं ममाप्रियं तेन येनायं निहतो मृधे । 037a
इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः ॥ 037c
हन्तॄणां च हतानां च पूजां कुर्याद्यथार्थतः । 038a
क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसङ्ग्रहम् ॥ 038c
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत् । 039a
प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥ 039c
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत । 040a
विश्वस्तः शक्यते भोक्तुं यथाकालं समुत्थितः ॥ 040c
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया । 041a
सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥ 041c
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥
12-102-15 शब्दः काकस्येति शेषः ॥ 12-102-22 सन्निपातो युद्धम् ॥ 12-102-24 समितिं युद्धम् । स्यन्दन्ति स्विद्यन्ति ॥ 12-102-25 विषयो देशः ॥ 12-102-26 योगं सन्धिम् ॥ 12-102-27 आन्तराणां शत्रोः सखीनाम् । तस्माच्छत्रोः परः श्रेष्ठस्तेन सन्धिं च कुर्यात् ॥ 12-102-29 क्षमा वै साध्वमायानां नहि साधु सदा क्षमा इति ड. थ. पाठः ॥ 12-102-30 अस्मिन्क्षमावति ॥ 12-102-31 असन्ताप्य ऋजूकृतं वंशादि पुनर्वक्रीभवत्यतः शत्रुं सन्ताप्य क्षमां कुर्यादिति शम्बरस्य दैत्यस्य मतम् ॥ 12-102-32 स्वमतमाह नैतदिति ॥ 12-102-40 विश्वस्तो जनः ॥