अध्यायः 101

भीष्मेण युधिष्ठिरम् प्रति योधलक्षणादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत । 001a
किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृपाः ॥ 001c
भीष्म उवाच 002
यथाचरितमेवात्र शस्त्रं पत्रं विधीयते । 002a
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते ॥ 002c
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः । 003a
अभीरवः सुबलिनस्तद्बलं सर्वपारगम् ॥ 003c
सर्वशस्त्रेषु कुशलाः सत्ववन्तो ह्युशीनराः । 004a
प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः ॥ 004c
तथा यवनकाम्भोजा मधुरामभितश्च ये । 005a
एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः । 005c
सर्वत्र शूरा जायन्ते महासत्वा महाबलाः ॥ 005e
आवन्तिका महाशूराश्चतुरङ्गे च मालवाः । 006a
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे ॥ 006c
प्रायो देशाः समुद्दिष्टा लक्षणानि तु मे शृणु ॥ 007ac
सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः । 008a
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः || 008c
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे । 009a
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः ॥ 009c
मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः । 010a
जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः ॥ 010c
बिडालकुब्जाः स्तब्धाक्षास्तनुकेशास्तनुत्वचः । 011a
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः ॥ 011c
गौरा निमीलिताः केचिन्मृदुप्रकृतयस्तथा । 012a
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ॥ 012c
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः । 013a
प्रवादितेषु कुप्यन्ति हृष्यन्ति कलदहेषु च ॥ 013c
गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः । 014a
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ॥ 014c
जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः । 015a
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसन्तताः ॥ 015c
प्रविशन्ति च वेगेन साम्पराये ह्युपस्थिते । 016a
वारणा इव सम्मत्तास्ते भवन्ति दुरासदाः ॥ 016c
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः । 017a
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ॥ 017c
उद्बन्धा इव सुग्रीवा विनताविहगा इव । 018a
पिण्डशीर्षातिवक्त्राश्च पृषदंशमुखास्तथा ॥ 018c
उग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः । 019a
अधर्मज्ञाऽवलिप्ताश्च घोरा रौद्रप्रदर्शनाः ॥ 019c
त्यक्तात्मानः सर्व एते उदग्रा ह्यनिवर्तिनः । 020a
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ॥ 020c
अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः । 021a
एवमेव प्रदूष्यन्ते राज्ञोऽप्येते ह्यभीक्ष्णशः ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥

12-101-2 आचरितं कुलदेशाचारागतम् । पत्रं वाहनम् ॥ 12-101-5 दाक्षिणात्या असिचर्मिण इति च्छेदः ॥ 12-101-8 कुलिङ्गाक्षाः कुलिङ्गः सर्पः ॥ 12-101-10 जिह्मनाः सानुजङ्घाश्चेति थ. पाठः ॥ 12-101-15 प्रललाटाः उन्नतकपालाः ॥ 12-101-17 दीप्तः पिङ्गलः । पिण्डिकाः जानुनोरधःपश्चाद्भागाः ॥ 12-101-18 सुग्रीवा वासुदेवाश्वाः । विनताविहगाः गरुडाः । पिण्डशीर्षाः वृत्तशिरसः । अतिवक्त्राः विस्तीर्णमुखाः । सन्धिरार्षः समासो वा ॥ 12-101-21 एवमेव प्रकुप्यन्ति इति झ. पाठः ॥