अध्यायः 100

भीष्मेण युधिष्ठिरम् प्रति युद्धकरणप्रकारादिकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ । 001a
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
सन्त्येव हि स्थिता धर्म उपपत्त्या तथा परे । 002a
साध्वाचारतया केचित्तथैवौपयिकादपि ॥ 002c
उपायधर्मान्वक्ष्यामि संसिद्धानर्थसिद्धये । 003a
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः ॥ 003c
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् । 004a
कार्याणां सम्प्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥ 004c
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत । 005a
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥ 005c
अमित्रा एव राजानं भेदेनोपचरन्त्युत । 006a
तां राजा विकृतिं जानन्यथाऽमित्रान्प्रबाधते ॥ 006c
गजानां पार्थ वर्माणि गोवृषाजगराणि च । 007a
शल्यकण्टकलोहानि तनुत्राणि मतानि च ॥ 007c
शातपीतानि शस्त्राणि सन्नाहाः पीतलोहकाः । 008a
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ह ॥ 008c
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वथाः । 009a
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ॥ 009c
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः । 010a
चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते ॥ 010c
पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा । 011a
नैवातिशीतो नात्युष्णः कालो भवति भारत ॥ 011c
तस्मात्तदा योजयेत परेषां व्यसनेऽथवा । 012a
एते हि योगाः सेनायाः प्रशस्ताः परबाधने ॥ 012c
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते । 013a
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः ॥ 013c
न ह्यरण्यानि शक्यन्ते गन्तुं मृगगणैरिव । 014a
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः ॥ 014c
[अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम् ।] 015a
आवासस्तोयवान्मार्गः पर्याकाशः प्रशस्यते ॥ 015c
पोषामपसर्पाणां प्रतिघातस्तथा भवेत् । 016a
आकाशं हि वनाभ्याशे मन्यन्ते गुणवत्तरम् ॥ 016c
बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः । 017a
[उपन्यासो भवेत्तत्र बलानां नातिदूरतः ॥] 017c
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् । 018a
हतशत्रुप्रतीघातमापदर्थं परायणम् ॥ 018c
सप्तर्षीन्पृष्ठतः कृत्वा युध्येयुरचला इव । 019a
अनेन विधिना शत्रूञ्जिगीषेतापि दुर्जयान् ॥ 019c
यतो वायुर्यतः सूर्यो यतः सोमस्ततो जयः । 020a
पूर्वम्पूर्वं ज्याय एषां सन्निपाते युधिष्ठिर ॥ 020c
अकर्दमामनुदकाममर्यादामलोष्टकाम् । 021a
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥ 021c
समा निरुदकाकाशा रथभूमिः प्रशस्यते । 022a
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥ 022c
बहुदुर्गा महाकक्षा वेणुवेत्रतिरस्कृता । 023a
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥ 023c
पदातिबहुला सेना दृढा भवति भारत । 024a
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥ 024c
पदातिनागबहुला प्रावृट्काले प्रशस्यते । 025a
गुणानेतान्प्रसङ्ख्याय देशकालौ प्रयोजयेत् ॥ 025c
एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः । 026a
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥ 026c
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् । 027a
मोक्षे प्रयाणे चलने पानभोजनकालयोः । 027c
अतिक्षिप्तान्व्यतिक्षिप्तान्निहतान्प्रतनूकृतान् ॥ 027e
अविस्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान् । 028a
बहिश्चरानुपन्यासान्कृतवेश्मानुसारिणः ॥ 028c
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः । 029a
परिचर्यापरोद्धारो ये च केचन वल्गिनः ॥ 029c
अनीकं ये विभिदन्ति भिन्नं संस्थापयन्ति च । 030a
समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥ 030c
'जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम् । 031a
समानदेहरक्षार्थे कार्या द्विगुणवेतनाः । 031c
त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत् ॥' 031e
दशाधिपतयः कार्याः शताधिपतयस्तथा । 032a
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥ 032c
यथा मुख्यान्सन्निपात्य वक्तव्याः संशयामहे । 033a
यथा जयार्थं सङ्ग्रामे न जह्याम परस्परम् ॥ 033c
इहैव ते निवर्तन्तां ये च केचन भीरवः । 034a
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥ 034c
[न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः ॥] 035a
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे ॥ 035c
अर्थनाशो वधोऽकीर्तिरयशश्च पलायने । 036a
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायतः ॥ 036c
प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च । 037a
'हित्वा पलायमानस्य सहायान्प्राणसंशये ।' 037c
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा ॥ 037e
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः । 038a
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥ 038c
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् । 039a
जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च ॥ 039c
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः । 040a
तदसह्यतरं दुःखं मन्यन्ते मरणादपि ॥ 040c
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च । 041a
या भीरूणां पराख्यातिः शूरस्तामधिगच्छति ॥ 041c
ते वयं स्वर्गमिच्छन्तः सङ्ग्रामे त्यक्तजीविताः । 042a
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम् ॥ 042c
एवं संशप्तशपथाः समभित्यक्तजीविताः । 043a
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः ॥ 043c
अग्रतः पुरुषाऽनीकमसिचर्मवतां भवेत् । 044a
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥ 044c
परेषां प्रतिघातार्थं पदातीनां च गूहनम् । 045a
अपि तस्मिन्पुरे वृद्धा भवेयुर्ये पुरोगमाः ॥ 045c
ये पुरस्तादभिमताः सत्ववन्तो मनस्विनः । 046a
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः ॥ 046c
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः । 047a
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः ॥ 047c
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् । 048a
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥ 048c
सम्प्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम् । 049a
प्रगृह्य बाहून्क्रोशेत हन्त भग्नाः परे इति ॥ 049c
आगतं मे मित्रबलं प्रहरध्वमभीतवत् । 050a
सत्ववन्तो निधावेयुः कुर्वन्तो भैरवान्रवान् ॥ 050c
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः । 051a
भेरीमृदङ्गपणवान्नादयेयुश्च जर्झरान् ॥ 051c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि शततमोऽध्यायः ॥ 100 ॥

12-100-4 नैगमं वेदोक्तमुपायम् ॥ 12-100-5 वक्रां वक्रयैव नाशयेत् ॥ 12-100-6 अमित्रानिव तां निकृतिं प्रबाधते बाधेत ॥ 12-100-7 गजानां वर्माणि बाणघातत्राणानि । गवादीनां शल्यादीनि ॥ 12-100-21 अमर्यादां सेतुप्राकारादिहीनाम् ॥ 12-100-24 सुदिनेषु वृष्टिवर्जितदिनेषु ॥ 12-100-25 प्रसङ्ख्याय सम्यग्विचार्य ॥ 12-100-26 तिथौ नक्षत्रे च पूजित आशीर्भिर्योजितः ॥ 12-100-28 उपन्यासात्सुरुङ्गादिगुप्तोपायात् । बहिस्तृणाद्यर्थे चरतो बहिश्चरानल्पान् । उपन्यासान् तृणाद्याहर्तॄन् ॥ 12-100-29 तान्नाभिघातयेदिति प्रपूर्वेण सम्बन्धः ॥ 12-100-30 अनीकं परकीयम् ॥ 12-100-33 सन्निपात्यैकीकृत्य ॥ 12-100-35 प्रदरं भङ्गम् । वधं वा स्वीयानाम् ॥ 12-100-37 नोऽस्मत्सम्बन्धिनां द्विषतां पुरुषस्य द्रव्यनाशादिकमस्त्विति पूर्वेण सह द्वयोः सम्बन्धः ॥ 12-100-38 राशिर्योधसङ्ख्याशरीरं वा तस्य वर्धनाः । वृथाजन्मान इत्यर्थः ॥ 12-100-39 पलायिनं जयिनः प्रत्युद्यान्ति यत्तदसह्यतरमित्यपकृष्यते ॥ 12-100-44 पुरुषा पुरुषाणाम् । विभक्तिलोप आर्षः ॥ 12-100-47 स्कन्धः समूहः । समूहमात्रार्थं वा तिष्ठेयुः ॥ 12-100-48 संहतानन्योन्यं श्लिष्टान् स्वान्परैः सह योधयेत्सेनापतिः ॥